श्रीमद्भागवत नवम स्कन्ध अध्याय 23
श्रीमद्भागवत नवम स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.23.1
अनोः सभानरश्चक्षुः परेष्णुश्च त्रयः सुताः । सभानरात् कालनरः सृञ्जयस्तत्सुतस्ततः ॥ 1 ॥
श्लोक 9.23.2
जनमेजयस्तस्य पुत्रो महाशालो महामनाः । उशीनरस्तितिक्षुश्च महामनस आत्मजौ ॥ 2 ॥
श्लोक 9.23.3
शिबिर्वरः कृमिर्दक्षश्चत्वारोशीनरात्मजाः । वृषादर्भः सुधीरश्च मद्रः केकय आत्मवान् ॥ 3 ॥
श्लोक 9.23.4
शिबेश्चत्वार एवासंस्तितिक्षोश्च रुषद्रथः । ततो होमो ऽथ सुतपा बलिः सुतपसो ऽभवत् ॥ 4 ॥
श्लोक 9.23.5
अङ्गवङ्गकलिङ्गाद्याः सुह्मपुण्ड्रौड्रसंज्ञिताः । जज्ञिरे दीर्घतमसो बलेः क्षेत्रे महीक्षितः ॥ 5 ॥
श्लोक 9.23.6
चक्रुः स्वनाम्ना विषयान् षड् इमान् प्राच्यकांश्च ते । खलपानो ऽङ्गतो जज्ञे तस्माद्दिविरथस्ततः ॥ 6 ॥
श्लोक 9.23.7
सुतो धर्मरथो यस्य जज्ञे चित्ररथो ऽप्रजाः । रोमपाद इति ख्यातस्तस्मै दशरथः सखा ॥ 7 ॥
श्लोक 9.23.8
शान्तां स्वकन्यां प्रायच्छदृष्यशृङ्ग उवाह याम् । देवे ऽवर्षति यं रामा आनिन्युर्हरिणीसुतम् ॥ 8 ॥
श्लोक 9.23.9
नाट्यसङ्गीतवादित्रैर्विभ्रमालिङ्गनार्हणैः । स तु राज्ञो ऽनपत्यस्य निरूप्येष्टिं मरुत्वते ॥ 9 ॥
श्लोक 9.23.10
प्रजामदाद्दशरथो येन लेभे ऽप्रजाः प्रजाः । चतुरङ्गो रोमपादात् पृथुलाक्षस्तु तत्सुतः ॥ 10 ॥
श्लोक 9.23.11
बृहद्रथो बृहत्कर्मा बृहद्भानुश्च तत्सुताः । आद्याद्बृहन्मनास्तस्माज् जयद्रथ उदाहृतः ॥ 11 ॥
श्लोक 9.23.12
विजयस्तस्य सम्भूत्यां ततो धृतिरजायत । ततो धृतव्रतस्तस्य सत्कर्माधिरथस्ततः ॥ 12 ॥
श्लोक 9.23.13
यो ऽसौ गङ्गातटे क्रीडन् मञ्जूषान्तर्गतं शिशुम् । कुन्त्यापविद्धं कानीनमनपत्यो ऽकरोत् सुतम् ॥ 13 ॥
श्लोक 9.23.14
वृषसेनः सुतस्तस्य कर्णस्य जगतीपते । द्रुह्योश्च तनयो बभ्रुः सेतुस्तस्यात्मजस्ततः ॥ 14 ॥
श्लोक 9.23.15
आरब्धस्तस्य गान्धारस्तस्य धर्मस्ततो धृतः । धृतस्य दुर्मदस्तस्मात् प्रचेताः प्राचेतसः शतम् ॥ 15 ॥
श्लोक 9.23.16
म्लेच्छाधिपतयो ऽभूवन्नुदीचीं दिशमाश्रिताः । तुर्वसोश्च सुतो वह्निर्वह्नेर्भर्गो ऽथ भानुमान् ॥ 16 ॥
श्लोक 9.23.17
त्रिभानुस्तत्सुतो ऽस्यापि करन्धम उदारधीः । मरुतस्तत्सुतो ऽपुत्रः पुत्रं पौरवमन्वभूत् ॥ 17 ॥
श्लोक 9.23.18
दुष्मन्तः स पुनर्भेजे स्ववंशं राज्यकामुकः । ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशं नरर्षभ ॥ 18 ॥
श्लोक 9.23.19
वर्णयामि महापुण्यं सर्वपापहरं नृणाम् । यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ॥ 19 ॥
श्लोक 9.23.20
यत्रावतीर्णो भगवान् परमात्मा नराकृतिः । यदोः सहस्रजित् क्रोष्टा नलो रिपुरिति श्रुताः ॥ 20 ॥
श्लोक 9.23.21
चत्वारः सूनवस्तत्र शतजित् प्रथमात्मजः । महाहयो रेणुहयो हैहयश्चेति तत्सुताः ॥ 21 ॥
श्लोक 9.23.22
धर्मस्तु हैहयसुतो नेत्रः कुन्तेः पिता ततः । सोहञ्जिरभवत् कुन्तेर्महिष्मान् भद्रसेनकः ॥ 22 ॥
श्लोक 9.23.23
दुर्मदो भद्रसेनस्य धनकः कृतवीर्यसूः । कृताग्निः कृतवर्मा च कृतौजा धनकात्मजाः ॥ 23 ॥
श्लोक 9.23.24
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरो ऽभवत् । दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥ 24 ॥
श्लोक 9.23.25
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥ 25 ॥
श्लोक 9.23.26
पञ्चाशीति सहस्राणि ह्यव्याहतबलः समाः । अनष्टवित्तस्मरणो बुभुजे ऽक्षय्यषड्वसु ॥ 26 ॥
श्लोक 9.23.27
तस्य पुत्रसहस्रेषु पञ्चैवोर्वरिता मृधे । जयध्वजः शूरसेनो वृषभो मधुरूर्जितः ॥ 27 ॥
श्लोक 9.23.28
जयध्वजात् तालजङ्घस्तस्य पुत्रशतं त्व् अभूत् । क्षत्रं यत् तालजङ्घाख्यमौर्वतेजोपसंहृतम् ॥ 28 ॥
श्लोक 9.23.29
तेषां ज्येष्ठो वीतिहोत्रो वृष्णिः पुत्रो मधोः स्मृतः । तस्य पुत्रशतं त्व् आसीद्वृष्णिज्येष्ठं यतः कुलम् ॥ 29 ॥
श्लोक 9.23.30
माधवा वृष्णयो राजन् यादवाश्चेति संज्ञिताः । यदुपुत्रस्य च क्रोष्टोः पुत्रो वृजिनवांस्ततः ॥ 30 ॥
श्लोक 9.23.31
स्वाहितो ऽतो विषद्गुर्वै तस्य चित्ररथस्ततः । शशबिन्दुर्महायोगी महाभागो महान् अभूत् ॥ 31 ॥
श्लोक 9.23.32
चतुर्दशमहारत्नश्चक्रवर्त्यपराजितः । तस्य पत्नीसहस्राणां दशानां सुमहायशाः ॥ 32 ॥
श्लोक 9.23.33
दशलक्षसहस्राणि पुत्राणां तास्व् अजीजनत् । तेषां तु षट् प्रधानानां पृथुश्रवस आत्मजः ॥ 33 ॥
श्लोक 9.23.34
धर्मो नामोशना तस्य हयमेधशतस्य याट् । तत्सुतो रुचकस्तस्य पञ्चासन्नात्मजाः शृणु ॥ 34 ॥
श्लोक 9.23.35
पुरुजिद्रुक्मरुक्मेषु पृथुज्यामघसंज्ञिताः । ज्यामघस्त्व् अप्रजो ऽप्यन्यां भार्यां शैब्यापतिर्भयात् ॥ 35 ॥
श्लोक 9.23.36
नाविन्दच् छत्रुभवनाद्भोज्यां कन्यामहारषीत् । रथस्थां तां निरीक्ष्याह शैब्या पतिममर्षिता ॥ 36 ॥
श्लोक 9.23.37
केयं कुहक मत्स्थानं रथमारोपितेति वै । स्नुषा तवेत्यभिहिते स्मयन्ती पतिमब्रवीत् ॥ 37 ॥
श्लोक 9.23.38
अहं बन्ध्यासपत्नी च स्नुषा मे युज्यते कथम् । जनयिष्यसि यं राज्ञि तस्येयमुपयुज्यते ॥ 38 ॥
श्लोक 9.23.39
अन्वमोदन्त तद्विश्वे देवाः पितर एव च । शैब्या गर्भमधात् काले कुमारं सुषुवे शुभम् । स विदर्भ इति प्रोक्त उपयेमे स्नुषां सतीम् ॥ 39 ॥