श्रीमद्भागवत नवम स्कन्ध अध्याय 9
श्रीमद्भागवत नवम स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.9.1
अंशुमांश्च तपस्तेपे गङ्गानयनकाम्यया । कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः ॥ 1 ॥
श्लोक 9.9.2
दिलीपस्तत्सुतस्तद्वदशक्तः कालमेयिवान् । भगीरथस्तस्य सुतस्तेपे स सुमहत् तपः ॥ 2 ॥
श्लोक 9.9.3
दर्शयामास तं देवी प्रसन्ना वरदास्मि ते । इत्युक्तः स्वमभिप्रायं शशंसावनतो नृपः ॥ 3 ॥
श्लोक 9.9.4
को ऽपि धारयिता वेगं पतन्त्या मे महीतले । अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम् ॥ 4 ॥
श्लोक 9.9.5
किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् । मृजामि तदघं क्वाहं राजंस्तत्र विचिन्त्यताम् ॥ 5 ॥
श्लोक 9.9.6
साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः । हरन्त्यघं ते ऽङ्गसङ्गात् तेष्व् आस्ते ह्यघभिद्धरिः ॥ 6 ॥
श्लोक 9.9.7
धारयिष्यति ते वेगं रुद्रस्त्व् आत्मा शरीरिणाम् । यस्मिन्नोतमिदं प्रोतं विश्वं शाटीव तन्तुषु ॥ 7 ॥
श्लोक 9.9.8
इत्युक्त्वा स नृपो देवं तपसातोषयच् छिवम् । कालेनाल्पीयसा राजंस्तस्येशश्चाश्व् अतुष्यत ॥ 8 ॥
श्लोक 9.9.9
तथेति राज्ञाभिहितं सर्वलोकहितः शिवः । दधारावहितो गङ्गां पादपूतजलां हरेः ॥ 9 ॥
श्लोक 9.9.10
भगीरथः स राजर्षिर्निन्ये भुवनपावनीम् । यत्र स्वपित्णां देहा भस्मीभूताः स्म शेरते ॥ 10 ॥
श्लोक 9.9.11
रथेन वायुवेगेन प्रयान्तमनुधावती । देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान् ॥ 11 ॥
श्लोक 9.9.12
यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि । सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः ॥ 12 ॥
श्लोक 9.9.13
भस्मीभूताङ्गसङ्गेन स्वर्याताः सगरात्मजाः । किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः ॥ 13 ॥
श्लोक 9.9.14
न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् । अनन्तचरणाम्भोज प्रसूताया भवच्छिदः ॥ 14 ॥
श्लोक 9.9.15
सन्निवेश्य मनो यस्मिञ् छ्रद्धया मुनयो ऽमलाः । त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम् ॥ 15 ॥
श्लोक 9.9.16
श्रुतो भगीरथाज् जज्ञे तस्य नाभो ऽपरो ऽभवत् । सिन्धुद्वीपस्ततस्तस्मादयुतायुस्ततो ऽभवत् ॥ 16 ॥
श्लोक 9.9.17
ऋतूपर्णो नलसखो यो ऽश्वविद्यामयान् नलात् । दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम् ॥ 17 ॥
श्लोक 9.9.18
ततः सुदासस्तत्पुत्रो दमयन्तीपतिर्नृपः । आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् । वसिष्ठशापाद्रक्षो ऽभूदनपत्यः स्वकर्मणा ॥ 18 ॥
श्लोक 9.9.19
किं निमित्तो गुरोः शापः सौदासस्य महात्मनः । एतद्वेदितुमिच्छामः कथ्यतां न रहो यदि ॥ 19 ॥
श्लोक 9.9.20
सौदासो मृगयां किञ्चिच् चरन् रक्षो जघान ह । मुमोच भ्रातरं सो ऽथ गतः प्रतिचिकीर्षया ॥ 20 ॥
श्लोक 9.9.21
सञ्चिन्तयन्नघं राज्ञः सूदरूपधरो गृहे । गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम् ॥ 21 ॥
श्लोक 9.9.22
परिवेक्ष्यमाणं भगवान् विलोक्याभक्ष्यमञ्जसा । राजानमशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि ॥ 22 ॥
श्लोक 9.9.23
रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् । सो ऽप्यपो ऽञ्जलिमादाय गुरुं शप्तुं समुद्यतः ॥ 23 ॥
श्लोक 9.9.24
वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ । दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः ॥ 24 ॥
श्लोक 9.9.25
राक्षसं भावमापन्नः पादे कल्माषतां गतः । व्यवायकाले ददृशे वनौकोदम्पती द्विजौ ॥ 25 ॥
श्लोक 9.9.26
क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् । न भवान् राक्षसः साक्षादिक्ष्वाकूणां महारथः ॥ 26 ॥
श्लोक 9.9.27
मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि । देहि मे ऽपत्यकामाया अकृतार्थं पतिं द्विजम् ॥ 27 ॥
श्लोक 9.9.28
देहो ऽयं मानुषो राजन् पुरुषस्याखिलार्थदः । तस्मादस्य वधो वीर सर्वार्थवध उच्यते ॥ 28 ॥
श्लोक 9.9.29
एष हि ब्राह्मणो विद्वांस्तपःशीलगुणान्वितः । आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् । सर्वभूतात्मभावेन भूतेष्व् अन्तर्हितं गुणैः ॥ 29 ॥
श्लोक 9.9.30
सो ऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद्विभो । कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः ॥ 30 ॥
श्लोक 9.9.31
तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः । कथं वधं यथा बभ्रोर्मन्यते सन्मतो भवान् ॥ 31 ॥
श्लोक 9.9.32
यद्ययं क्रियते भक्ष्यस्तर्हि मां खाद पूर्वतः । न जीविष्ये विना येन क्षणं च मृतकं यथा ॥ 32 ॥
श्लोक 9.9.33
एवं करुणभाषिण्या विलपन्त्या अनाथवत् । व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः ॥ 33 ॥
श्लोक 9.9.34
ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् । शोचन्त्यात्मानमुर्वीशमशपत् कुपिता सती ॥ 34 ॥
श्लोक 9.9.35
यस्मान् मे भक्षितः पाप कामार्तायाः पतिस्त्वया । तवापि मृत्युराधानादकृतप्रज्ञ दर्शितः ॥ 35 ॥
श्लोक 9.9.36
एवं मित्रसहं शप्त्वा पतिलोकपरायणा । तदस्थीनि समिद्धे ऽग्नौ प्रास्य भर्तुर्गतिं गता ॥ 36 ॥
श्लोक 9.9.37
विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः । विज्ञाप्य ब्राह्मणीशापं महिष्या स निवारितः ॥ 37 ॥
श्लोक 9.9.38
अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः । वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात् ॥ 38 ॥
श्लोक 9.9.39
सा वै सप्त समा गर्भमबिभ्रन् न व्यजायत । जघ्ने ऽश्मनोदरं तस्याः सो ऽश्मकस्तेन कथ्यते ॥ 39 ॥
श्लोक 9.9.40
अश्मकाद्बालिको जज्ञे यः स्त्रीभिः परिरक्षितः । नारीकवच इत्युक्तो निःक्षत्रे मूलको ऽभवत् ॥ 40 ॥
श्लोक 9.9.41
ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः । राजा विश्वसहो यस्य खट्वाङ्गश्चक्रवर्त्यभूत् ॥ 41 ॥
श्लोक 9.9.42
यो देवैरर्थितो दैत्यान् अवधीद्युधि दुर्जयः । मुहूर्तमायुर्ज्ञात्वैत्य स्वपुरं सन्दधे मनः ॥ 42 ॥
श्लोक 9.9.43
न मे ब्रह्मकुलात् प्राणाः कुलदैवान् न चात्मजाः । न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः ॥ 43 ॥
श्लोक 9.9.44
न बाल्ये ऽपि मतिर्मह्यमधर्मे रमते क्वचित् । नापश्यमुत्तमश्लोकादन्यत् किञ्चन वस्त्व् अहम् ॥ 44 ॥
श्लोक 9.9.45
देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः । न वृणे तमहं कामं भूतभावनभावनः ॥ 45 ॥
श्लोक 9.9.46
ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् । न विन्दन्ति प्रियं शश्वदात्मानं किमुतापरे ॥ 46 ॥
श्लोक 9.9.47
अथेशमायारचितेषु सङ्गं गुणेषु गन्धर्वपुरोपमेषु । रूढं प्रकृत्यात्मनि विश्वकर्तुर् भावेन हित्वा तमहं प्रपद्ये ॥ 47 ॥
श्लोक 9.9.48
इति व्यवसितो बुद्ध्या नारायणगृहीतया । हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः ॥ 48 ॥
श्लोक 9.9.49
यत् तद्ब्रह्म परं सूक्ष्ममशून्यं शून्यकल्पितम् । भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः ॥ 49 ॥