श्रीमद्भागवत नवम स्कन्ध अध्याय 8
श्रीमद्भागवत नवम स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 9.8.1
हरितो रोहितसुतश्चम्पस्तस्माद्विनिर्मिता । चम्पापुरी सुदेवो ऽतो विजयो यस्य चात्मजः ॥ 1 ॥
श्लोक 9.8.2
भरुकस्तत्सुतस्तस्माद्वृकस्तस्यापि बाहुकः । सो ऽरिभिर्हृतभू राजा सभार्यो वनमाविशत् ॥ 2 ॥
श्लोक 9.8.3
वृद्धं तं पञ्चतां प्राप्तं महिष्यनुमरिष्यती । और्वेण जानतात्मानं प्रजावन्तं निवारिता ॥ 3 ॥
श्लोक 9.8.4
आज्ञायास्यै सपत्नीभिर्गरो दत्तो ऽन्धसा सह । सह तेनैव सञ्जातः सगराख्यो महायशाः ॥ 4 ॥
श्लोक 9.8.5
सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः । यस्तालजङ्घान् यवनाञ् छकान् हैहयबर्बरान् ॥ 5 ॥
श्लोक 9.8.6
नावधीद्गुरुवाक्येन चक्रे विकृतवेषिणः । मुण्डान् छ्मश्रुधरान् कांश्चिन् मुक्तकेशार्धमुण्डितान् ॥ 6 ॥
श्लोक 9.8.7
अनन्तर्वाससः कांश्चिदबहिर्वाससो ऽपरान् । सो ऽश्वमेधैरयजत सर्ववेदसुरात्मकम् ॥ 7 ॥
श्लोक 9.8.8
और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् । तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः ॥ 8 ॥
श्लोक 9.8.9
सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः । हयमन्वेषमाणास्ते समन्तान् न्यखनन् महीम् ॥ 9 ॥
श्लोक 9.8.10
प्रागुदीच्यां दिशि हयं ददृशुः कपिलान्तिके । एष वाजिहरश्चौर आस्ते मीलितलोचनः ॥ 10 ॥
श्लोक 9.8.11
हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः । उदायुधा अभिययुरुन्मिमेष तदा मुनिः ॥ 11 ॥
श्लोक 9.8.12
स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः । महद्व्यतिक्रमहता भस्मसादभवन् क्षणात् ॥ 12 ॥
श्लोक 9.8.13
न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि । कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः ॥ 13 ॥
श्लोक 9.8.14
यस्येरिता साङ्ख्यमयी दृढेह नौर् यया मुमुक्षुस्तरते दुरत्ययम् । भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः ॥ 14 ॥
श्लोक 9.8.15
यो ऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः । तस्य पुत्रो ऽंशुमान् नाम पितामहहिते रतः ॥ 15 ॥
श्लोक 9.8.16
असमञ्जस आत्मानं दर्शयन्नसमञ्जसम् । जातिस्मरः पुरा सङ्गाद्योगी योगाद्विचालितः ॥ 16 ॥
श्लोक 9.8.17
आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् । सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयन् जनम् ॥ 17 ॥
श्लोक 9.8.18
एवं वृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै । योगैश्वर्येण बालांस्तान् दर्शयित्वा ततो ययौ ॥ 18 ॥
श्लोक 9.8.19
अयोध्यावासिनः सर्वे बालकान् पुनरागतान् । दृष्ट्वा विसिस्मिरे राजन् राजा चाप्यन्वतप्यत ॥ 19 ॥
श्लोक 9.8.20
अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ । पितृव्यखातानुपथं भस्मान्ति ददृशे हयम् ॥ 20 ॥
श्लोक 9.8.21
तत्रासीनं मुनिं वीक्ष्य कपिलाख्यमधोक्षजम् । अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान् ॥ 21 ॥
श्लोक 9.8.22
न पश्यति त्वां परमात्मनो ऽजनो न बुध्यते ऽद्यापि समाधियुक्तिभिः । कुतो ऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः ॥ 22 ॥
श्लोक 9.8.23
ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च । यन्मायया मोहितचेतसस्त्वां विदुः स्वसंस्थं न बहिःप्रकाशाः ॥ 23 ॥
श्लोक 9.8.24
तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः । सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि ॥ 24 ॥
श्लोक 9.8.25
प्रशान्त मायागुणकर्मलिङ्गम् अनामरूपं सदसद्विमुक्तम् । ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम् ॥ 25 ॥
श्लोक 9.8.26
त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु । भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः ॥ 26 ॥
श्लोक 9.8.27
अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः । मोहपाशो दृढश्छिन्नो भगवंस्तव दर्शनात् ॥ 27 ॥
श्लोक 9.8.28
इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः । अंशुमन्तमुवाचेदमनुग्राह्य धिया नृप ॥ 28 ॥
श्लोक 9.8.29
अश्वो ऽयं नीयतां वत्स पितामहपशुस्तव । इमे च पितरो दग्धा गङ्गाम्भो ऽर्हन्ति नेतरत् ॥ 29 ॥
श्लोक 9.8.30
तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् । सगरस्तेन पशुना यज्ञशेषं समापयत् ॥ 30 ॥
श्लोक 9.8.31
राज्यमंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः । और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम् ॥ 31 ॥