मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 111

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 111 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

वसिष्ठस्तु तदा राममुक्त्वा राजपुरोऺहित: ।अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वच: ॥ २.१११.१॥

श्लोक 2

पुरुषस्येह जातस्य भवन्ति गुरवस्त्रय: ।आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥ २.१११.२॥

श्लोक 3

पिता ह्येनं जनयति पुरुषं पुरुषर्षभ ।प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥ २.१११.३॥

श्लोक 4

सो ऽहं ते पितुराचार्य्यस्तव चैव परन्तप ।मम त्वं वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.४॥

श्लोक 5

इमा हि ते परिषद: श्रेणयश्च द्विजास्तथा ।एषु तात चरन् धर्मं नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.५॥

श्लोक 6

वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् ।अस्यास्तु वचनं कुर्वन् नातिवर्त्ते: सताङ्गतिम् ॥ २.१११.६॥

श्लोक 7

भरतस्य वच: कुर्वन् याचमानस्य राघव ।आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥ २.१११.७॥

श्लोक 8

एवं मधुरमुक्तस्तु गुरुणा राघव: स्वयम् ।प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभ: ॥ २.१११.८॥

श्लोक 9

यन्मातापितरौ वृत्तं तनये कुरुत: सदा ।न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥ २.१११.९॥

श्लोक 10

यथाशक्ति प्रदानेन स्नापनोच्छादनेन च ।नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ २.१११.१०॥

श्लोक 11

स हि राजा जनयिता पिता दशरथो मम ।आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ २.१११.११॥

श्लोक 12

एवमुक्तस्तु रामेण भरत: प्रत्यनन्तरम् ।उवाच परमोदार: सूतं परमदुर्मना: ॥ २.१११.१२॥

श्लोक 13

इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे ।आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ २.१११.१३॥

श्लोक 14

अनाहारो निरालोको धनहीनो यथा द्विज: ।शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ २.१११.१४॥

श्लोक 15

स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मना: ।कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥ २.१११.१५॥

श्लोक 16

तमुवाच महातेजा रामो राजर्षिसत्तम: ।किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥ २.१११.१६॥

श्लोक 17

ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति ।न तु मूर्द्धाभिषिक्तानां विधि: प्रत्युपवेशने ॥ २.१११.१७॥

श्लोक 18

उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् ।पुरवर्य्यामित: क्षिप्रमयोध्यां याहि राघव ॥ २.१११.१८॥

श्लोक 19

आसीनस्त्वेव भरत: पौरजानपदं जनम् ।उवाच सर्वत: प्रेक्ष्य किमार्यं नानुशासथ ॥ २.१११.१९॥

श्लोक 20

ते तमूचुर्महात्मानं पौरजानपदा जना: ।काकुत्स्थमभिजानीम: सम्यग्वदति राघव: ॥ २.१११.२०॥

श्लोक 21

एषो ऽपि हि महाभाग: पितुर्वचसि तिष्ठति ।अत एव न शक्ता: स्मो व्यावर्त्तयितुमञ्जसा ॥ २.१११.२१॥

श्लोक 22

तेषामाज्ञाय वचनं रामो वचनमब्रवीत् ।एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥ २.१११.२२॥

श्लोक 23

एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव ।उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥ २.१११.२३॥

श्लोक 24

अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् ।श्रृण्वन्तु मे परिषदो मन्त्रिण: श्रेणयस्तथा ॥ २.१११.२४॥

श्लोक 25

न याचे पितरं राज्यं नानुशासामि मातरम् ।आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥ २.१११.२५॥

श्लोक 26

यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वच: ।अहमेव निवत्स्यामि चतुर्दश समा वने ॥ २.१११.२६॥

श्लोक 27

धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मित: ।उवाच राम: सम्प्रेक्ष्य पौरजानपदं जनम् ॥ २.१११.२७॥

श्लोक 28

विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम ।न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥ २.१११.२८॥

श्लोक 29

अपधिर्न मया कार्य्यो वनवासे जुगुप्सित: ।युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥ २.१११.२९॥

श्लोक 30

जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् ।सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥ २.१११.३०॥

श्लोक 31

अनेन धर्मशीलेन वनात् प्रत्यागत: पुन: ।भ्रात्रा सह भविष्यामि पृथिव्या: पतिरुत्तम: ॥ २.१११.३१॥

श्लोक 32

वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् ।अनृतन्मोचयानेन पितरं तं महीपतिम् ॥ २.१११.३२ ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ