वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 112
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 112 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ॥ २.११२.१॥
श्लोक 2
अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: ।तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ २.११२.२॥
श्लोक 3
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ॥ २.११२.३॥
श्लोक 4
ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: ।भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ॥ २.११२.४॥
श्लोक 5
कुले जात महाप्राज्ञ महावृत्त महायश: ।ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ २.११२.५॥
श्लोक 6
सदानृणमिमं रामं वयमिच्छामहे पितु: ।अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ॥ २.११२.६॥
श्लोक 7
एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: ।राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ॥ २.११२.७॥
श्लोक 8
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: ।राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ २.११२.८॥
श्लोक 9
स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया ।कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ २.११२.९॥
श्लोक 10
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् ।कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ २.११२.१०॥
श्लोक 11
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥ २.११२.११॥
श्लोक 12
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: ।त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ॥ २.११२.१२॥
श्लोक 13
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ २.११२.१३॥
श्लोक 14
इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा ।भृशं सम्प्रार्थयामास राममेव प्रियंवद: ॥ २.११२.१४॥
श्लोक 15
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् ।श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ २.११२.१५॥
श्लोक 16
आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या ।भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ २.११२.१६॥
श्लोक 17
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: ।सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥ २.११२.१७॥
श्लोक 18
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् ।अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ॥ २.११२.१८॥
श्लोक 19
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् ।न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥ २.११२.१९॥
श्लोक 20
एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् ।तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥ २.११२.२०॥
श्लोक 21
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते ।एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ॥ २.११२.२१॥
श्लोक 22
सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च ।प्रायच्छत् सुमहातेजा भरताय महात्मने ॥ २.११२.२२॥
श्लोक 23
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् ।चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥ २.११२.२३॥
श्लोक 24
फलमूलाशनो वीर भवेयं रघुनन्दन ।तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ॥ २.११२.२४॥
श्लोक 25
तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप ।चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम ।न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥ २.११२.२५॥
श्लोक 26
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ।शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥ २.११२.२६॥
श्लोक 27
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ।मया च सीतया चैव शप्तो ऽसि रघुसत्तम ॥ २.११२.२७॥
श्लोक 28
इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ॥ २.११२.२८॥
श्लोक 29
स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् ।प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥ २.११२.२९॥
श्लोक 30
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ ।व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ॥ २.११२.३०॥
श्लोक 31
तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: ।स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ॥ २.११२.३१ ॥