मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 116

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 116 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

प्रतिप्रयाते भरते वसन् रामस्तपोवने ।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥ २.११६.१॥

श्लोक 2

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २.११६.२॥

श्लोक 3

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: ।अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ॥ २.११६.३॥

श्लोक 4

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: ।कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ॥ २.११६.४॥

श्लोक 5

न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ॥ २.११६.५॥

श्लोक 6

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ॥ २.११६.६॥

श्लोक 7

कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि ।प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ २.११६.७॥

श्लोक 8

अथर्षिर्जरया वृद्धस्तपसा च जरां गत: ।वेपमान इवोवाच रामं भूतदयापरम् ॥ २.११६.८॥

श्लोक 9

कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा ।चलनं तात वैदेह्यास्तपस्विषु विशेषत: ॥ २.११६.९॥

श्लोक 10

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ॥ २.११६.१०॥

श्लोक 11

रावणावरज: कश्चित् खरो नामेह राक्षस: ।उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥ २.११६.११॥

श्लोक 12

धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: ।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥ २.११६.१२॥

श्लोक 13

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥ २.११६.१३॥

श्लोक 14

दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि ।नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ॥ २.११६.१४॥

श्लोक 15

अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् ।प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ॥ २.११६.१५॥

श्लोक 16

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ॥ २.११६.१६॥

श्लोक 17

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥ २.११६.१७॥

श्लोक 18

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: ।गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ॥ २.११६.१८॥

श्लोक 19

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥ २.११६.१९॥

श्लोक 20

बहुमूलफलं चित्रमविदूरादितो वनम् ।पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ॥ २.११६.२०॥

श्लोक 21

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ॥ २.११६.२१॥

श्लोक 22

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ॥ २.११६.२२॥

श्लोक 23

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ॥ २.११६.२३॥

श्लोक 24

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ॥ २.११६.२४॥

श्लोक 25

राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥ २.११६.२५॥

श्लोक 26

आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: ।राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ॥ २.११६.२६ ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ