वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१॥
श्लोक 2
इह मे भरतो दृष्टो मातरश्च सनागरा: ।सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ॥ २.११७.२॥
श्लोक 3
स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ॥ २.११७.३॥
श्लोक 4
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ॥ २.११७.४॥
श्लोक 5
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ॥ २.११७.५॥
श्लोक 6
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६॥
श्लोक 7
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ॥ २.११७.७॥
श्लोक 8
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८॥
श्लोक 9
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९॥
श्लोक 10
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।दशवर्षसहस्राणि यया तप्तं महत्तप: ॥ २.११७.१०॥
श्लोक 11
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।देवकार्यनिमित्तं च यया संत्वरमाणया ।दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ॥ २.११७.११॥
श्लोक 12
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।अनसूयेति या लोके कर्मभि: ख्यातिमागता ॥ २.११७.१२॥
श्लोक 13
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३॥
श्लोक 14
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४॥
श्लोक 15
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५॥
श्लोक 16
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६॥
श्लोक 17
तां तु सीता महाभागामनसूयां पतिव्रताम् ।अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७॥
श्लोक 18
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८॥
श्लोक 19
तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९॥
श्लोक 20
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२०॥
श्लोक 21
नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ॥ २.११७.२१॥
श्लोक 22
दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ॥ २.११७.२२॥
श्लोक 23
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ॥ २.११७.२३॥
श्लोक 24
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ॥ २.११७.२४॥
श्लोक 25
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ॥ २.११७.२५॥
श्लोक 26
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६॥
श्लोक 27
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ॥ २.११७.२७ ॥