मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 23

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

इति ब्रुवति रामे तु लक्ष्मणो अधः शिरा मुहुः ।श्रुत्वा मध्यम् जगाम इव मनसा दुह्ख हर्षयोह् ॥२-२३-१॥

श्लोक 2

तदा तु बद्ध्वा भ्रुकुटीम् भ्रुवोर् मध्ये नर ऋषभ ।निशश्वास महा सर्पो बिलस्यैव रोषितः ॥२-२३-२॥

श्लोक 3

तस्य दुष्प्रतिवीक्ष्यम् तत् भ्रुकुटी सहितम् तदा ।बभौ क्रुद्धस्य सिम्हस्य मुखस्य सदृशम् मुखम् ॥२-२३-३॥

श्लोक 4

अग्रहः तम् विधुन्वम्स् तु हस्ती हस्तम् इवात्मनः ।तिर्यग् ऊर्ध्वम् शरीरे च पातयित्वा शिरः धराम् ॥२-२३-४॥

श्लोक 5

अग्र अक्ष्णा वीक्षमाणः तु तिर्यग् भ्रातरम् अब्रवीत् ।अस्थाने सम्भ्रमः यस्य जातः वै सुमहान् अयम् ॥२-२३-५॥

श्लोक 6

धर्म दोष प्रसन्गेन लोकस्य अनतिशन्कया ।कथम् हि एतत् असम्भ्रान्तः त्वद् विधो वक्तुम् अर्हति ॥२-२३-६॥

श्लोक 7

यथा दैवम् अशौण्डीरम् शौण्डीरः क्षत्रिय ऋषभः ।किम् नाम कृपणम् दैवम् अशक्तम् अभिशम्सति ।पापयोस् तु कथम् नाम तयोह् शन्का न विद्यते ॥२-२३-७॥

श्लोक 8

सन्ति धर्म उपधाः श्लक्ष्णा धर्मात्मन् किम् न बुध्यसे ॥२-२३-८॥

श्लोक 9

तयोस्सुचरितम् स्वार्थम् शाठ्यात् परिजिहीर्षतोः ।यदि नैवम् व्यवसितम् स्याद्धि प्राग्रेव राघव ।तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥२-२३-९॥

श्लोक 10

लोक विद्विष्टम् आरब्धम् त्वद् अन्यस्य अभिषेचनम् ।नोत्सहे सहितुम् वीर तत्र मे क्षन्तुमर्हसि ॥२-२३-१०॥

श्लोक 11

येन इयम् आगता द्वैधम् तव बुद्धिर् मही पते ।स हि धर्मः मम द्वेष्यः प्रसन्गात् यस्य मुह्यसि ॥२-२३-११॥

श्लोक 12

कथम् त्वम् कर्मणा शक्तः कैकेयीवशवर्तिनः ।करिष्यसि पितुर्वाक्यमधर्मिष्ठम् विगर्हितम् ॥२-२३-१२॥

श्लोक 13

यद्य् अपि प्रतिपत्तिस् ते दैवी च अपि तयोः मतम् ।तथा अपि उपेक्षणीयम् ते न मे तत् अपि रोचते ॥२-२३-१३॥

श्लोक 14

मन्साऽपि कथम् कामम् कुर्यास्त्वम् कामवृत्तयोः ।तयोस्त्वहितयोर्नित्यम् शत्र्वोः पित्रभिधानयोः ॥२-२३-१४॥

श्लोक 15

यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् ।तथा प्युपेक्षणीयम् ते न मे तदपि रोचते ॥२-२३-१५॥

श्लोक 16

विक्लवो वीर्य हीनो यः स दैवम् अनुवर्तते ।वीराः सम्भावित आत्मानो न दैवम् पर्युपासते ॥२-२३-१६॥

श्लोक 17

दैवम् पुरुष कारेण यः समर्थः प्रबाधितुम् ।न दैवेन विपन्न अर्थः पुरुषः सो अवसीदति ॥२-२३-१७॥

श्लोक 18

द्रक्ष्यन्ति तु अद्य दैवस्य पौरुषम् पुरुषस्य च ।दैव मानुषयोः अद्य व्यक्ता व्यक्तिर् भविष्यति ॥२-२३-१८॥

श्लोक 19

अद्य मत् पौरुष हतम् दैवम् द्रक्ष्यन्ति वै जनाः ।यद् दैवात् आहतम् ते अद्य द्Rष्टम् राज्य अभिषेचनम् ॥२-२३-१९॥

श्लोक 20

अत्यन्कुशम् इव उद्दामम् गजम् मद बल उद्धतम् ।प्रधावितम् अहम् दैवम् पौरुषेण निवर्तये ॥२-२३-२०॥

श्लोक 21

लोक पालाः समस्ताः ते न अद्य राम अभिषेचनम् ।न च क्Rत्स्नाः त्रयो लोका विहन्युः किम् पुनः पिता ॥२-२३-२१॥

श्लोक 22

यैः विवासः तव अरण्ये मिथो राजन् समर्थितः ।अरण्ये तु विवत्स्यन्ति चतुर् दश समाः तथा ॥२-२३-२२॥

श्लोक 23

अहम् तदा आशाम् चेत्स्यामि पितुस् तस्याः च या तव ।अभिषेक विघातेन पुत्र राज्याय वर्तते ॥२-२३-२३॥

श्लोक 24

मद् बलेन विरुद्धाय न स्यात् दैव बलम् तथा ।प्रभविष्यति दुह्खाय यथा उग्रम् पौरुषम् मम ॥२-२३-२४॥

श्लोक 25

ऊर्ध्वम् वर्ष सहस्र अन्ते प्रजा पाल्यम् अनन्तरम् ।आर्य पुत्राः करिष्यन्ति वन वासम् गते त्वयि ॥२-२३-२५॥

श्लोक 26

पूर्व राज Rषि व्Rत्त्या हि वन वासो विधीयते ।प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥२-२३-२६॥

श्लोक 27

स चेद् राजनि अनेक अग्रे राज्य विभ्रम शन्कया ।न एवम् इच्चसि धर्मात्मन् राज्यम् राम त्वम् आत्मनि ॥२-२३-२७॥

श्लोक 28

प्रतिजाने च ते वीर मा भूवम् वीर लोक भाक् ।राज्यम् च तव रक्षेयम् अहम् वेला इव सागरम् ॥२-२३-२८॥

श्लोक 29

मन्गलैः अभिषिन्चस्व तत्र त्वम् व्याप्Rतः भव ।अहम् एको मही पालान् अलम् वारयितुम् बलात् ॥२-२३-२९॥

श्लोक 30

न शोभ अर्थाव् इमौ बाहू न धनुर् भूषणाय मे ।न असिरा बन्धन अर्थाय न शराः स्तम्भ हेतवः ॥२-२३-३०॥

श्लोक 31

अमित्र दमन अर्थम् मे सर्वम् एतच् चतुष्टयम् ।न च अहम् कामये अत्यर्थम् यः स्यात् शत्रुर् मतः मम ॥२-२३-३१॥

श्लोक 32

असिना तीक्ष्ण धारेण विद्युच् चलित वर्चसा ।प्रग्Rहीतेन वै शत्रुम् वज्रिणम् वा न कल्पये ॥२-२३-३२॥

श्लोक 33

खड्ग निष्पेष निष्पिष्टैः गहना दुश्चरा च मे ।हस्ति अश्व नर हस्त ऊरु शिरोभिर् भविता मही ॥२-२३-३३॥

श्लोक 34

खड्ग धारा हता मे अद्य दीप्यमानाइव अद्रयः ।पतिष्यन्ति द्विपा भूमौ मेघाइव सविद्युतः ॥२-२३-३४॥

श्लोक 35

बद्ध गोधा अन्गुलि त्राणे प्रगृहीत शर आसने ।कथम् पुरुष मानी स्यात् पुरुषाणाम् मयि स्थिते ॥२-२३-३५॥

श्लोक 36

बहुभिः च एकम् अत्यस्यन्न् एकेन च बहून् जनान् ।विनियोक्ष्याम्य् अहम् बाणान् नृ वाजि गज मर्मसु ॥२-२३-३६॥

श्लोक 37

अद्य मे अस्त्र प्रभावस्य प्रभावः प्रभविष्यति ।राज्ञः च अप्रभुताम् कर्तुम् प्रभुत्वम् च तव प्रभो ॥२-२३-३७॥

श्लोक 38

अद्य चन्दन सारस्य केयूरा मोक्षणस्य च ।वसूनाम् च विमोक्षस्य सुह्Rदाम् पालनस्य च ॥२-२३-३८॥

श्लोक 39

अनुरूपाव् इमौ बाहू राम कर्म करिष्यतः ।अभिषेचन विघ्नस्य कर्तृउणाम् ते निवारणे ॥२-२३-३९॥

श्लोक 40

ब्रवीहि को अद्य एव मया वियुज्यताम् ।तव असुह्Rद् प्राण यशः सुह्Rज् जनैः ।यथा तव इयम् वसुधा वशे भवेत् ।तथा एव माम् शाधि तव अस्मि किम्करः ॥२-२३-४०॥

श्लोक 41

विम्Rज्य बाष्पम् परिसान्त्व्य च असकृत् ।स लक्ष्मणम् राघव वम्श वर्धनः ।उवाच पित्र्ये वचने व्यवस्थितम् ।निबोध माम् एष हि सौम्य सत् पथः ॥२-२३-४१॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ