वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 37
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 37 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
महा मात्र वचः श्रुत्वा रामः दशरथम् तदा ।अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् ॥२-३७-१॥
श्लोक 2
त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः ।किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः ॥२-३७-२॥
श्लोक 3
यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः ।रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् ॥२-३७-३॥
श्लोक 4
तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते ।सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे ॥२-३७-४॥
श्लोक 5
खनित्र पिटके च उभे मम आनयत गच्चतः ।चतुर् दश वने वासम् वर्षाणि वसतः मम ॥२-३७-५॥
श्लोक 6
अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।उवाच परिधत्स्व इति जन ओघे निरपत्रपा ॥२-३७-६॥
श्लोक 7
स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते ।सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह ॥२-३७-७॥
श्लोक 8
लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे ।तापसाच् चादने चैव जग्राह पितुर् अग्रतः ॥२-३७-८॥
श्लोक 9
अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी ।समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव ॥२-३७-९॥
श्लोक 10
सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः ।गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् ॥२-३७-१०॥
श्लोक 11
अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी ।गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् ॥२-३७-११॥
श्लोक 12
कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः ।इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः ॥२-३७-१२॥
श्लोक 13
कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज ॥२-३७-१३॥
श्लोक 14
तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः ।चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् ॥२-३७-१४॥
श्लोक 15
रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् ।अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥२-३७-१५॥
श्लोक 16
उचुश्च परमायस्ता रामम् ज्वलिततेजसम् ।वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी ॥२-३७-१६॥
श्लोक 17
पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् ।तावद्दर्शनमस्या नः सफलम् भवतु प्रभो ॥२-३७-१७॥
श्लोक 18
लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक ।नेयमर्हति कल्याणी वस्तुम् तापसवद्वने ॥२-३७-१८॥
श्लोक 19
कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी ।धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि ॥२-३७-१९॥
श्लोक 20
तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः ।बबन्धैव तदा चीरम् सीतया तुल्यशीलया ॥२-३७-२०॥
श्लोक 21
चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् ॥२-३७-२१॥
श्लोक 22
अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपाम्सनि ।वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे ॥२-३७-२२॥
श्लोक 23
न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते ।अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥२-३७-२३॥
श्लोक 24
आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् ।आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥२-३७-२४॥
श्लोक 25
अथ यास्यति वैदेही वनम् रामेण सम्गता ।वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति ॥२-३७-२५॥
श्लोक 26
अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् ॥२-३७-२६॥
श्लोक 27
भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् ॥२-३७-२७॥
श्लोक 28
ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह ।त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥२-३७-२८॥
श्लोक 29
न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः ।तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति ॥२-३७-२९॥
श्लोक 30
न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति ।त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः ॥२-३७-३०॥
श्लोक 31
यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि ।पितुर्व्म्शचरित्रज्ञः सोऽन्यथा न करिष्यति ॥२-३७-३१॥
श्लोक 32
तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।लोके हि स न विद्येत यो न राममनुव्रतः ॥२-३७-३२॥
श्लोक 33
द्रक्ष्यस्यद्यैव कैकेयि पशुव्याLअमृगद्विजान् ।गच्छतः सह रामेण पादपाम्श्च तदुन्मुखान् ॥२-३७-३३॥
श्लोक 34
अथोत्तमान्याभरणानि देवि ।देहि स्नुषायै व्यपनीय चीरम् ।न चीरमस्याः प्रविधीयतेति ।न्यवारयत् तद्वसनम् वसिष्ठः ॥२-३७-३४॥
श्लोक 35
एकस्य रामस्य वने निवास ।स्त्वया वृतह् केकयराजपुत्रि ।विभूषितेयम् प्रतिकर्मनित्या ।वसत्वरण्ये सह राघवेण ॥२-३७-३५॥
श्लोक 36
यानैश्च मुख्यैः परिचारकैश्च ।सुसम्वृता गच्छतु राजपुत्री ।वस्रैश्च सर्वैः सहितैर्विधानै ।र्नेयम् वृता ते वरसम्प्रदाने ॥२-३७-३६॥
श्लोक 37
तस्मिम्स्तथा जल्पति विप्रमुख्ये ।गुरौ नृपस्याप्रतिमप्रभावे ।नैव स्म सीता विनिवृत्तभावा ।प्रियस्य भर्तुः प्रतिकारकामा ॥२-३७-३७॥