मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 60

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 60 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

ततः भूत उपसृष्टा इव वेपमाना पुनः पुनः ।धरण्याम् गत सत्त्वा इव कौसल्या सूतम् अब्रवीत् ॥२-६०-१॥

श्लोक 2

नय माम् यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः ।तान् विना क्षणम् अपि अत्र जीवितुम् न उत्सहे हि अहम् ॥२-६०-२॥

श्लोक 3

निवर्तय रथम् शीघ्रम् दण्डकान् नय माम् अपि ।अथ तान् न अनुगच्चामि गमिष्यामि यम क्षयम् ॥२-६०-३॥

श्लोक 4

बाष्प वेगौपहतया स वाचा सज्जमानया ।इदम् आश्वासयन् देवीम् सूतः प्रान्जलिर् अब्रवीत् ॥२-६०-४॥

श्लोक 5

त्यज शोकम् च मोहम् च सम्भ्रमम् दुह्खजम् तथा ।व्यवधूय च सम्तापम् वने वत्स्यति राघवः ॥२-६०-५॥

श्लोक 6

लक्ष्मणः च अपि रामस्य पादौ परिचरन् वने ।आराधयति धर्मज्ञः पर लोकम् जित इन्द्रियः ॥२-६०-६॥

श्लोक 7

विजने अपि वने सीता वासम् प्राप्य गृहेष्व् इव ।विस्रम्भम् लभते अभीता रामे सम्न्यस्त मानसा ॥२-६०-७॥

श्लोक 8

न अस्या दैन्यम् कृतम् किम्चित् सुसूक्ष्मम् अपि लक्षये ।उचिता इव प्रवासानाम् वैदेही प्रतिभाति मा ॥२-६०-८॥

श्लोक 9

नगर उपवनम् गत्वा यथा स्म रमते पुरा ।तथैव रमते सीता निर्जनेषु वनेष्व् अपि ॥२-६०-९॥

श्लोक 10

बाला इव रमते सीता बाल चन्द्र निभ आनना ।रामा रामे हि अदीन आत्मा विजने अपि वने सती ॥२-६०-१०॥

श्लोक 11

तत् गतम् हृदयम् हि अस्याः तत् अधीनम् च जीवितम् ।अयोध्या अपि भवेत् तस्या राम हीना तथा वनम् ॥२-६०-११॥

श्लोक 12

परि पृच्चति वैदेही ग्रामामः च नगराणि च ।गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधान् अपि ॥२-६०-१२॥

श्लोक 13

रामम् हि लक्ष्मनम् वापि पृष्ट्वा जानाति जानती ।अयोध्याक्रोशमात्रे तु विहारमिव सम्श्रिता ॥२-६०-१३॥

श्लोक 14

इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् ।कैकेयीसम्श्रितम् वाक्यम् नेदानीम् प्रतिभाति माम् ॥२-६०-१४॥

श्लोक 15

ध्वम्सयित्वा तु तद्वाक्यम् प्रमादात्पर्युपस्थितम् ।ह्लदनम् वचनम् सूतो देव्या मधुरमब्रवीत् ॥२-६०-१५॥

श्लोक 16

अध्वना वात वेगेन सम्भ्रमेण आतपेन च ।न हि गच्चति वैदेह्याः चन्द्र अम्शु सदृशी प्रभा ॥२-६०-१६॥

श्लोक 17

सदृशम् शत पत्रस्य पूर्ण चन्द्र उपम प्रभम् ।वदनम् तत् वदान्याया वैदेह्या न विकम्पते ॥२-६०-१७॥

श्लोक 18

अलक्त रस रक्त अभाव् अलक्त रस वर्जितौ ।अद्य अपि चरणौ तस्याः पद्म कोश सम प्रभौ ॥२-६०-१८॥

श्लोक 19

नूपुर उद्घुष्ट हेला इव खेलम् गच्चति भामिनी ।इदानीम् अपि वैदेही तत् रागा न्यस्त भूषणा ॥२-६०-१९॥

श्लोक 20

गजम् वा वीक्ष्य सिम्हम् वा व्याघ्रम् वा वनम् आश्रिता ।न आहारयति सम्त्रासम् बाहू रामस्य सम्श्रिता ॥२-६०-२०॥

श्लोक 21

न शोच्याः ते न च आत्मा ते शोच्यो न अपि जन अधिपः ।इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् ॥२-६०-२१॥

श्लोक 22

विधूय शोकम् परिहृष्ट मानसा ।महर्षि याते पथि सुव्यवस्थिताः ।वने रता वन्य फल अशनाः पितुः ।शुभाम् प्रतिज्ञाम् परिपालयन्ति ते ॥२-६०-२२॥

श्लोक 23

तथा अपि सूतेन सुयुक्त वादिना ।निवार्यमाणा सुत शोक कर्शिता ।न चैव देवी विरराम कूजितात् ।प्रिय इति पुत्र इति च राघव इति च ॥२-६०-२३॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ