मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 61

वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 61 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

वाल्मीकि रामायण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1

वनम् गते धर्म परे रामे रमयताम् वरे ।कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥

श्लोक 2

यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः ।सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥

श्लोक 3

कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया ।दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥

श्लोक 4

सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता ।कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥

श्लोक 5

भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् ।वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥

श्लोक 6

गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता ।कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥

श्लोक 7

महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः ।भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥

श्लोक 8

पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् ।कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥

श्लोक 9

वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः ।अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥

श्लोक 10

यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः ।निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥

श्लोक 11

यदि पञ्चदशे वर्षे राघवः पुनरेष्यति ।जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥

श्लोक 12

भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् ।ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥

श्लोक 13

तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः ।न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥

श्लोक 14

ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः ।नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥

श्लोक 15

एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते ।भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥

श्लोक 16

न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति ।एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥

श्लोक 17

हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः ।न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥

श्लोक 18

तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव ।न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥

श्लोक 19

न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति ।बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥

श्लोक 20

नैतस्य सहिता लोका भयम् कुर्युर्महामृधे ।अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥

श्लोक 21

नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ।युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥

श्लोक 22

स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः ।स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥

श्लोक 23

द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः ।यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥

श्लोक 24

गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः ।तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥

श्लोक 25

तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः ।न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥

श्लोक 26

हतम् त्वया राज्यम् इदम् सराष्ट्रम् ।हतः तथा आत्मा सह मन्त्रिभिः च ।हता सपुत्रा अस्मि हताः च पौराः ।सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥

श्लोक 27

इमाम् गिरम् दारुण शब्द सम्श्रिताम् ।निशम्य राजा अपि मुमोह दुह्खितः ।ततः स शोकम् प्रविवेश पार्थिवः ।स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ