वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 90
वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 90 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: ।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ॥ २.९०.१
श्लोक 2
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: ।वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥ २.९०.२
श्लोक 3
तत: सन्दर्शने तस्य भरद्वाजस्य राघव: ।मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥ २.९०.३
श्लोक 4
ऺवसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: ।सञ्चचालासनात्तूर्णं शिष्यानर्ध्यमिति ब्रुवन् ॥ २.९०.४
श्लोक 5
वसिष्ठसाहचर्य्यादिति भाव: ॥ २.९०.५
श्लोक 6
ताभ्यामर्ध्यं च पाद्यं च दत्त्वा पश्चात् फलानि च ।आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ॥ २.९०.६
श्लोक 7
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु ।जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥ २.९०.७
श्लोक 8
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् ।शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥ २.९०.८
श्लोक 9
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: ।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥ २.९०.९
श्लोक 10
किमिहागमने कार्य्यं तव राज्यं प्रशासत: ।एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ॥ २.९०.१०
श्लोक 11
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् ।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥ २.९०.११
श्लोक 12
नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: ।वनवासी भवेतीह समा: किल चतुर्दश ॥ २.९०.१२
श्लोक 13
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि ।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥ २.९०.१३
श्लोक 14
एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह ।पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ॥ २.९०.१४
श्लोक 15
हतो ऽस्मि यदि मामेवं भगवानपि मन्यते ।मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥ २.९०.१५
श्लोक 16
न चैत दिष्टं माता मे यदवोचन्मदन्तरे ।नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥ २.९०.१६
श्लोक 17
अहं तु तं नरव्याघ्रमुपयात: प्रसादक: ।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥ २.९०.१७
श्लोक 18
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि ।शंस मे भगवन् राम: क्व सम्प्रति महीपति: ॥ २.९०.१८
श्लोक 19
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: ।उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ॥ २.९०.१९
श्लोक 20
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे ।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥ २.९०.२०
श्लोक 21
जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति ।अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥ २.९०.२१
श्लोक 22
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् ।असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥ २.९०.२२
श्लोक 23
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: ।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥ २.९०.२३
श्लोक 24
ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: ।चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ॥ २.९०.२४ ॥