वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 11
वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम् ।सुग्रीवः पूजयाञ्चक्रे राघवं प्रशशंस च ॥४-११-१॥।।
श्लोक 2
असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैश्शरैः ।त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः ॥४-११-२॥।।
श्लोक 3
वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या ।तन्ममैकमनाश्श्रुत्वा विधत्स्व यदनन्तरम् ॥४-११-३॥।।
श्लोक 4
समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम् ।क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः ॥४-११-४॥।।
श्लोक 5
अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि ।ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान् ॥४-११-५॥।।
श्लोक 6
बहवस्सारवन्तश्च वनेषु विविधा द्रुमाः ।वालिना तरसा भग्ना बलं प्रथयताऽत्मनः ॥४-११-६॥।।
श्लोक 7
महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः ।बलं नागसहस्रस्य धारयामास वीर्यवान् ॥४-११-७॥।।
श्लोक 8
वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः ।जगाम सुमहाकाय स्समुद्रं सरितां पतिम् ॥४-११-८॥।।
श्लोक 9
ऊर्मिमन्तमभिक्रम्य सागरं रत्नसञ्चयम् ।मह्यं युद्धं प्रयच्छेति तमुवाच महार्णवम् ॥४-११-९॥।।
श्लोक 10
ततस्समुद्रो धर्मात्मा समुत्थाय महाबलः ।अब्रवीद्वचनं राजन्नसुरं कालचोदितम् ॥४-११-१०॥।।
श्लोक 11
समर्थो नास्मि ते दातुं युद्धं युद्धविशारद ।श्रूयतां चाभिधास्यामि यस्ते युद्धं प्रदास्यति ॥४-११-११॥।।
श्लोक 12
शैलराजो महारण्ये तपस्विशरणं परम् ।शङ्करश्वशुरो नाम्ना हिमवानिति विश्रुतः ॥४-११-१२॥।।
श्लोक 13
गुहाप्रस्रवणोपेतो बहुकन्दरनिर्दरः ।स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे ॥४-११-१३॥।।
श्लोक 14
तं भीत इति विज्ञाय समुद्रमसुरोत्तमः ।हिमवद्वनमागच्छच्छरश्चापादिव च्युतः ॥४-११-१४॥।।
श्लोक 15
ततस्तस्य गिरेश्श्वेता गजेन्द्रविप्रलाश्शिलाः ।चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च ॥४-११-१५॥।।
श्लोक 16
ततश्श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः ।हिमवानब्रवीद्वाक्यं स्वे एव शिखरे स्थितः ॥४-११-१६॥।।
श्लोक 17
क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल ।रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम् ॥४-११-१७॥।।
श्लोक 18
तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः ।उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः ॥४-११-१८॥।।
श्लोक 19
यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः ।समाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः ॥४-११-१९॥।।
श्लोक 20
हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः ।अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम् ॥४-११-२०॥।।
श्लोक 21
वाली नाम महाप्राज्ञश्शक्रतुल्य पराक्रमः ।अध्यास्ते वानरश्श्रीमान् किष्किन्धामतुलप्रभाम् ॥४-११-२१॥।।
श्लोक 22
स समर्थो महाप्राज्ञस्तव युद्धविशारदः ।द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः ॥४-११-२२॥।।
श्लोक 23
तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि ।स हि दुर्धर्षणो नित्यं शूरस्समरकर्मणि ॥४-११-२३॥।।
श्लोक 24
श्रुत्वा हिमवतो वाक्यं कोधाविष्टस्स दुन्दुभिः ।जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा ॥४-११-२४॥।।
श्लोक 25
धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः ।प्रावृषीव महामेघस्तोयपूर्णो नभस्स्थले ॥४-११-२५॥।।
श्लोक 26
ततस्तु द्वारमागम्य किष्किन्धाया महाबलः ।ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा ॥४-११-२६॥।।
श्लोक 27
समीपस्थान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः ।विषाणेनोल्लिखन् दर्पात्तद्द्वारं द्विरदो यथा ॥४-११-२७॥।।
श्लोक 28
अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः ।निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः ॥४-११-२८॥।।
श्लोक 29
मितं व्यक्ताक्षरपदं तमुवाचाथ दुन्दुभिम् ।हरीणामीश्वरो वाली सर्वेषां वनचारिणाम् ॥४-११-२९॥।।
श्लोक 30
किमर्थं नगरद्वारमिदं रुध्द्वा विनर्दसि ।दुन्दुभे विदितो मेऽसि रक्षप्राणान्महाबल ॥४-११-३०॥।।
श्लोक 31
तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः ।उवाच दुन्दुभिर्वाक्यं रोषात्संरक्तलोचनः ॥४-११-३१॥।।
श्लोक 32
न त्वं स्त्रीसन्निधौ वीर वचनं वक्तुमर्हसि ।मम युद्धं प्रयच्छाद्य ततो ज्ञास्यामि ते बलम् ॥४-११-३२॥।।
श्लोक 33
अथवा धारयिष्यामि क्रोधमद्य निशामिमाम् ।गृह्यतामुदयस्स्वैरं कामभोगेषु वानर ॥४-११-३३॥।।
श्लोक 34
दीयतां सम्प्रदानं च परिष्वज्य च वानरान् ।सर्वशाखामृगेन्द्र स्त्वं संसादय सुहृज्जनान् ॥४-११-३४॥।।
श्लोक 35
सुदृष्टां कुरु किष्किन्धां कुरुष्वात्मसमं पुरे ।क्रीडस्व च सह स्त्रीभिरहं ते दर्पनाशनः ॥४-११-३५॥।।
श्लोक 36
यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम् ।हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम् ॥४-११-३६॥।।
श्लोक 37
स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम् ।विसृज्य ताः स्त्रियस्सर्वास्ताराप्रभृतिकास्तदा ॥४-११-३७॥।।
श्लोक 38
मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे ।मदोऽयं सम्प्रहारेऽस्मिन्वीरपानं समर्थ्यताम् ॥४-११-३८॥।।
श्लोक 39
तमेवमुक्त्वा सङ्कृद्धो मालामुत्क्षिप्य काञ्चनीम् ।पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत ॥४-११-३९॥।।
श्लोक 40
विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसन्निभम् ।आविध्यत तदा वाली विनदन्कपिकुञ्जरः ॥४-११-४०॥।।
श्लोक 41
वाली व्यापातयाञ्चक्रे ननर्द च महास्वनम् ।श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः ॥४-११-४१॥।।
श्लोक 42
तयोस्तु क्रोधसंरम्भात्परस्परजयैषिणोः ।युद्धं समभवद्घोरं दुन्दुभेर्वानरस्यच ॥४-११-४२॥।।
श्लोक 43
अयुद्ध्यत तदा वाली शक्रतुल्यपराक्रमः ।मुष्टिभिर्जानुभिश्चैव शिलाभिः पादपैस्तथा ॥४-११-४३॥।।
श्लोक 44
परस्परं घ्नतो स्तत्र वानरासुरयोस्तदा ।आसीदसुरो युद्धे शक्रसूनुर्व्यवर्धत ॥४-११-४४॥।।
श्लोक 45
व्यापारवीर्यधैर्यैश्च परिक्षीणं पराक्रमैः ।तं तु दुन्दुभिमुद्यम्य धरण्यामभ्यपातयत् ॥४-११-४५॥।।
श्लोक 46
युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा ।पपात च महाकायः क्षितौ पञ्चत्वमागतः ॥४-११-४६॥।।
श्लोक 47
तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम् ।चिक्षेप बलवान्वाली वेगेनैकेन योजनम् ॥४-११-४७॥।।
श्लोक 48
तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः ।प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गप्याश्रमं प्रति ॥४-११-४८॥।।
श्लोक 49
तान्दृष्ट्वा पतितांस्तस्य मुनिश्शोणितविप्रुषः ।क्रुद्धस्तत्र महाभागश्चिन्तयामास कोन्वयम् ॥४-११-४९॥।।
श्लोक 50
येनाहं सहसा स्पृष्टश्शोणितेन दुरात्मना ।कोऽयं दुरात्मा दुर्भुदि्घरकृतात्मा च बालिशः ॥४-११-५०॥।।
श्लोक 51
इत्युक्त्वाऽथ विनिष्क्रम्य ददर्श मुनिसत्तमः ।महिषं पर्वताकारं गतासुं पतितं भुवि ॥४-११-५१॥।।
श्लोक 52
स तु विज्ञाय तपसा वानरेण कृतं हि तत् ।उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति ॥४-११-५२॥।।
श्लोक 53
इह तेनाप्रवेष्टव्यं प्रविष्टस्य वधो भवेत् ।वनं मत्संश्रयं येन दूषितं रुधिरस्रवैः ॥४-११-५३॥।।
श्लोक 54
सम्भग्नाः पादपाश्चैमेक्षिपतेहासुरीं तनुम् ।समन्तादाद्योजनं पूर्णमाश्रमं मामकं यदि ॥४-११-५४॥।।
श्लोक 55
आगमिष्यति दुर्बुद्धिर्व्यक्तं स न भविष्यति ।ये चापि सचिवाः स्तस्य संश्रिता मामकं वनम् ॥४-११-५५॥।।
श्लोक 56
न च तैरिह वस्तव्यं श्रुत्वा यान्तु यथासुखम् ।यदि तेऽपी ह तिष्ठन्ति शपिष्ये तानपि ध्रुवम् ॥४-११-५६॥।।
श्लोक 57
वनेऽस्मिन्मामके नित्यं पुत्रवत्परिरक्षिते ।पत्राङ्कुरविनाशाय फलमूलाभवाय च ॥४-११-५७॥।।
श्लोक 58
दिवसश्चास्य मर्यादा यं द्रष्टा श्वोऽस्मि वानरम् ।बहुवर्षसहस्राणि स वै शैलो भविष्यति ॥४-११-५८॥।।
श्लोक 59
ततस्ते वानराश्श्रुत्वा गिरं मुनिसमीरिताम् ।निश्चक्रमुर्वनात्तस्मात्तान्दृष्ट्वा वालिरब्रवीत् ॥४-११-५९॥।।
श्लोक 60
किं भवन्तस्समस्ताश्च मतङ्गवनवासिनः ।मत्समीपमनुप्राप्ता अपि स्वस्ति वनौकसाम् ॥४-११-६०॥।।
श्लोक 61
ततस्ते कारणं सर्वं तदा शापं च वालिनः ।शशंसुर्वानरास्सर्वे वालिने हेममालिने ॥४-११-६१॥।।
श्लोक 62
एतच्छ्रुत्वा तदा वाली वचनं वानरेरितम् ।स महर्षिंतदाऽसाद्य याचते स्म कृताञ्जलिः ॥४-११-६२॥।।
श्लोक 63
महर्षिस्तमनादृत्य प्रविवेशाश्रमं तदा ।शापधारणभीतस्तु वाली विह्वलतां गतः ॥४-११-६३॥।।
श्लोक 64
ततश्शापभयाद्भीत ऋश्यमूकं महागिरिम् ।प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर ॥४-११-६४॥।।
श्लोक 65
तस्याप्रवेशं ज्ञात्वाऽहमिदं राम महावनम् ।विचरामि सहामात्यो विषादेन विवर्जितः ॥४-११-६५॥।।
श्लोक 66
एषोऽस्थिनिचयस्तस्य दुन्दुभेस्सम्प्रकाशते ।वीर्योत्सेकान्निरस्तस्य गिरिकूटोपमो महान् ॥४-११-६६॥।।
श्लोक 67
इमे च विपुलास्सालास्सप्त शाखावलम्बिनः ।यत्रैकं घटते वाली निष्पत्रयितुमोजसा ॥४-११-६७॥।।
श्लोक 68
एतदस्यासमं वीर्यं मया राम प्रकीर्तितम् ।कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप ॥४-११-६८॥।।
श्लोक 69
तथा ब्रुवाणं सुग्रीवं प्रहसन् लक्ष्मणोऽब्रवीत् ।कस्मिन्कर्मणि निर्वृत्ते श्रद्दध्या वालिनो वधम् ॥४-११-६९॥।।
श्लोक 70
तमुवाचाथ सुग्रीवस्सप्त सालानिमान्पुरा ।एवमेकैकशो वाली विव्याथाथ स चासकृत् ॥४-११-७०॥।।
श्लोक 71
रामोऽपिदारयेदेषां बाणेनैकेन च द्रुमम् ।वालिनं निहतं मन्ये दृष्ट्वा रामस्य विक्रमम् ॥४-११-७१॥।।
श्लोक 72
हतस्य महिषस्यास्थि पादेनैकेन लक्ष्मण ।उद्यम्याथ प्रक्षिपेच्चेत्तरसा द्वे धनुश्शते ॥४-११-७२॥।।
श्लोक 73
एवमुक्त्वा तु सुग्रीवो रामं रक्तान्तलोचनम् ।ध्यात्वा मुहूर्तं काकुत्स्थं पुनरेव वचोऽब्रवीत् ॥४-११-७३॥।।
श्लोक 74
शूरश्च शूरघाती च प्रख्यातबलपौरुषः ।बलवान्वानरो वाली संयुगेष्वपराजितः ॥४-११-७४॥।।
श्लोक 75
दृश्यन्ते चास्य कर्माणि दुष्कराणि सुरैरपि ।यानि सञ्चिन्त्य भीतोऽहमृश्यमूकं समाश्रितः ॥४-११-७५॥।।
श्लोक 76
तमजय्यमधृष्यं च वानरेन्द्रममर्षणम् ।विचिन्तयन्न मुञ्चामि ऋश्यमूकमहन्विमम् ॥४-११-७६॥।।
श्लोक 77
उद्विग्नश्शङ्कितश्चापि विचरामि महावने ।अनुरक्तैः सहामात्यैर्हनुमत्प्रमुखैर्वरैः ॥४-११-७७॥।।
श्लोक 78
उपलब्धं च मे श्लाघ्यं सन्मित्रं मित्रवत्सल ।त्वामहं पुरुषव्याघ्र हिमवन्तमिवाश्रितः ॥४-११-७८॥।।
श्लोक 79
किं तु तस्य बलज्ञोऽहं दुर्भ्रातुर्बलशालिनः ।अप्रत्यक्षं तु मे वीर्यं समरे तव राघव ॥४-११-७९॥।।
श्लोक 80
न खल्वहं त्वां तुलये नावमन्ये न भीषये ।कर्मभिस्तस्य भीमैस्तु कातर्यं जनितं मम ॥४-११-८०॥।।
श्लोक 81
कामं राघव ते वाणी प्रमाणं धैर्यमाकृतिः ।सूचयन्ति परं तेजो भस्मच्छन्नमिवानलम् ॥४-११-८१॥।।
श्लोक 82
तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः ।स्मितपूर्वमथो रामः प्रत्युवाच हरिं प्रभुः ॥४-११-८२॥।।
श्लोक 83
यदि न प्रत्ययोऽस्मासु विक्रमे तव वानर ।प्रत्ययं समरे श्लाघ्यमहमुत्पादयामि ते ॥४-११-८३॥।।
श्लोक 84
एवमुक्त्वा तु सुग्रीवं सान्त्वं लक्ष्मणपूर्वजः ।राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया ॥४-११-८४॥।।
श्लोक 85
तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम् ।असुरस्य तनुं शुष्कं पादाङ्गुष्ठेन वीर्यवान् ॥४-११-८५॥।।
श्लोक 86
क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत् ।लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत् ॥४-११-८६॥।।
श्लोक 87
आर्द्रस्समांसः प्रत्यग्रः क्षिप्तः कायः पुरा सखे ॥४-११-८७॥।।
श्लोक 88
लघुस्सम्प्रति निर्मांस स्तृणभूतश्च राघव ।परिश्रान्तेन मत्तेन भ्रात्रा मे वालिना तदा ।क्षिप्तमेवं प्रहर्षेण भवता रघुनन्दन ॥४-११-८८॥।।
श्लोक 89
नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाऽधिकम् ।आर्द्रं शुष्कमिति ह्येतत्सुमहद्राघवान्तरम् ॥४-११-८९॥।।
श्लोक 90
स एव संशयस्तात तव तस्य च यद्बले ।सालमेकं तु निर्भिद्या भवेद्व्यक्तिर्बलाबले ॥४-११-९०॥।।
श्लोक 91
कृत्वेदं कार्मुकं सज्यं हस्तिहस्त मिवाततम् ।आकर्णपूर्णमायम्य विसृजस्व महाशरम् ॥४-११-९१॥।।
श्लोक 92
इमं हि सालं सहित स्त्वया शरो ।न संशयोऽत्रास्ति विदारयिष्यति ।अलं विमर्शेन मम प्रियं ध्रुवं ।कुरुष्व राजात्मज शापितो मया ॥४-११-९२॥।।
श्लोक 93
यथा हि तेजस्सु वरस्सदा रवि ।र्यथा हि शैलो हिमवान्महाद्रिषु ।यथा चतुष्पात्सु च केसरी वर ।स्तथा नरणामसि विक्रमे वरः ॥४-११-९३॥।।