वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 12
वाल्मीकि रामायण किष्किन्धाकाण्ड सर्ग 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
एतच् च वचनम् श्रुत्वा सुग्रीवस्य सुभाषितम् ।प्रत्ययार्थम् महातेजा रामो जग्राह कार्मुकम् ॥४-१२-१॥
श्लोक 2
स गृहीत्वा धनुर् घोरम् शरम् एकम् च मानदः ।सालम् उद्दिश्य चिक्षेप पूरयन् स रवैः दिशः ॥४-१२-२॥
श्लोक 3
स विसृष्टो बलवता बाणः स्वर्ण परिष्कृतः ।भित्त्वा सालान् गिरि प्रस्थम् सप्त भूमिम् विवेश ह ॥४-१२-३॥
श्लोक 4
सायकः तु मुहूर्तेन सालान् भित्त्वा महाजवः ।निष्पत्य च पुनः तूर्णम् तम् एव प्रविवेश ह ॥४-१२-४॥
श्लोक 5
तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः ।रामस्य शर वेगेन विस्मयम् परमम् गतः ॥४-१२-५॥
श्लोक 6
स मूर्ध्ना न्यपतत् भूमौ प्रलंबीकृत भूषणः ।सुग्रीवः परम प्रीतो राघवाय कृतांजलिः ॥४-१२-६॥
श्लोक 7
इदम् च उवाच धर्मज्ञम् कर्मणा तेन हर्षितः ।रामम् सर्व अस्त्र विदुषाम् श्रेष्ठम् शूरम् अवस्थितम् ॥४-१२-७॥
श्लोक 8
स इन्द्रान् अपि सुरान् सर्वाम् त्वम् बाणैः पुरुषर्षभ ।समर्थः समरे हन्तुम् किम् पुनर् वालिनम् प्रभो ॥४-१२-८॥
श्लोक 9
येन सप्त महा साला गिरिर् भूमिः च दारिताः ।बाणेन एकेन काकुत्स्थ स्थाता ते को रण अग्रतः ॥४-१२-९॥
श्लोक 10
अद्य मे विगतः शोकः प्रीतिर् अद्य परा मम ।सुहृदम् त्वाम् समासाद्य महेन्द्र वरुणोपमम् ॥४-१२-१०॥
श्लोक 11
तम् अद्य एव प्रियार्थम् मे वैरिणम् भ्रातृ रूपिणम् ।वालिनम् जहि काकुत्स्थ मया बद्धो अयम् अंजलिः ॥४-१२-११॥
श्लोक 12
ततो रामः परिष्वज्य सुग्रीवम् प्रिय दर्शनम् ।प्रत्युवाच महाप्राज्ञो लक्ष्मणानुगतम् वचः ॥४-१२-१२॥
श्लोक 13
अस्माद् गच्छाम किष्किन्धाम् क्षिप्रम् गच्छ त्वम् अग्रतः ।गत्वा च आह्वय सुग्रीव वालिनम् भ्रातृ गन्धिनम् ॥४-१२-१३॥
श्लोक 14
सर्वे ते त्वरितम् गत्वा किष्किन्धाम् वालिनः पुरीम् ।वृक्षैः आत्मानम् आवृत्य हि अतिष्ठन् गहने वने ॥४-१२-१४॥
श्लोक 15
सुग्रीवो अपि व्यनदद् घोरम् वालिनो ह्वान कारणात् ।गाढम् परिहितो वेगान् नादैः भिन्दन् इव अंबरम् ॥४-१२-१५॥
श्लोक 16
तम् श्रुत्वा निनदम् भ्रातुः क्रुद्धो वाली महाबलः ।निष्पपात सुसंरब्धो भास्करो अस्त तटात् इव ॥४-१२-१६॥
श्लोक 17
ततः सुतुमुलम् युद्धम् वालि सुग्रीवयोः अभूत् ।गगने ग्रहयोः घोरम् बुध अंगारकयोः इव ॥४-१२-१७॥
श्लोक 18
तलैः अशनि कल्पैः च वज्र कल्पैः च मुष्टिभिः ।जघ्नतुः समरे अन्योन्यम् भ्रातरौ क्रोध मूर्च्छितौ ॥४-१२-१८॥
श्लोक 19
ततो रामो धनुष् पाणिः तौ उभौ समुदैक्षत ।अन्योन्य सदृशौ वीरौ उभौ देवौ इव अश्विनौ ॥४-१२-१९॥
श्लोक 20
यत् न अवगच्छत् सुग्रीवम् वालिनम् वा अपि राघवः ।ततो न कृतवान् बुद्धिम् मोक्तुम् अन्तकरम् शरम् ॥४-१२-२०॥
श्लोक 21
एतस्मिन् अन्तरे भग्नः सुग्रीवः तेन वालिना ।अपश्यन् राघवम् नाथम् ऋश्यमूकम् प्रदुद्रुवे ॥४-१२-२१॥
श्लोक 22
क्लान्तो रुधिर सिक्त अंगो प्रहारैः जर्जरी कृतः ।वालिना अभिद्रुतः क्रोधात् प्रविवेश महावनम् ॥४-१२-२२॥
श्लोक 23
तम् प्रविष्टम् वनम् दृष्ट्वा वाली शाप भयात् ततः ।मुक्तो हि असि त्वम् इति उक्त्वा स निवृत्तो महाबलः ॥४-१२-२३॥
श्लोक 24
राघवो अपि सह भ्रात्रा सह चैव हनूमता ।तदेव वनम् आगच्छत् सुग्रीवो यत्र वानरः ॥४-१२-२४॥
श्लोक 25
तम् समीक्ष्य आगतम् रामम् सुग्रीवः सह लक्ष्मणम् ।ह्रीमान् दीनम् उवाच इदम् वसुधाम् अवलोकयन् ॥४-१२-२५॥
श्लोक 26
आह्वयस्व इति माम् उक्त्वा दर्शयित्वा च विक्रमम् ।वैरिणा घातयित्वा च किम् इदानीम् त्वया कृतम् ॥४-१२-२६॥
श्लोक 27
ताम् एव वेलाम् वक्तव्यम् त्वया राघव तत्त्वतः ।वालिनम् न निहन्मि इति ततो न अहम् इतो व्रजे ॥४-१२-२७॥
श्लोक 28
तस्य च एवम् ब्रुवाणस्य सुग्रीवस्य महात्मनः ।करुणम् दीनया वाचा राघवः पुनर् अब्रवीत् ॥४-१२-२८॥
श्लोक 29
सुग्रीव श्रूयताम् तात क्रोधः च व्यपनीयताम् ।कारणम् येन बाणो अयम् स मया न विसर्जितः ॥४-१२-२९॥
श्लोक 30
अलंकारेण वेषेण प्रमाणेन गतेन च ।त्वम् च सुग्रीव वाली च सदृशौ स्थः परस्परम् ॥४-१२-३०॥
श्लोक 31
स्वरेण वर्चसा च एव प्रेक्षितेन च वानर ।विक्रमेण च वाक्यैः च व्यक्तिम् वाम् न उपलक्षये ॥४-१२-३१॥
श्लोक 32
ततो अहम् रूप सादृश्यात् मोहितो वानरोत्तम ।न उत्सृजामि महावेगम् शरम् शत्रु निबर्हणम् ॥४-१२-३२॥
श्लोक 33
जीवित अन्तकरम् घोरम् सादृश्यात् तु विशंकितः ।मूलघातो न नौ स्याद्धि द्वयोः इति कृतो मया ॥४-१२-३३॥
श्लोक 34
त्वयि वीर विपन्ने हि अज्ञान् लाघवान् मया ।मौढ्यम् च मम बाल्यम् च ख्यापितम् स्यात् कपीस्वर ॥४-१२-३४॥
श्लोक 35
दत्त अभय वधो नाम पातकम् महत् अद्भुतम् ।अहम् च लक्ष्मणः च एव सीत च वरवर्णिनी ॥४-१२-३५॥
श्लोक 36
त्वत् अधीना वयम् सर्वे वने अस्मिन् शरणम् भवान् ।तस्मात् युध्यस्व भूयस्त्वम् मा शंकी च वानर ॥४-१२-३६॥
श्लोक 37
एतन् मुहूर्ते तु मया पश्य वालिनम् आहवे ।निरस्तम् इषुणा एकेन वेष्टमानम् महीतले ॥४-१२-३७॥
श्लोक 38
अभिज्ञानम् कुरुष्व त्वम् आत्मनो वानरेश्वर ।येन त्वाम् अभिजानीयाम् द्वन्द्व युद्धम् उपागतम् ॥४-१२-३८॥
श्लोक 39
गज पुष्पीम् इमाम् फुल्लाम् उत्पाट्य शुभ लक्षणाम् ।कुरु लक्ष्मण कण्ठे अस्य सुग्रीवस्य महात्मनः ॥४-१२-३९॥
श्लोक 40
ततो गिरि तटे जाताम् उत्पाट्य कुसुमायुताम् ।लक्ष्मणो गज पुष्पीम् ताम् तस्य कण्ठे व्यसर्जयत् ॥४-१२-४०॥
श्लोक 41
स तथा शुशुभे श्रीमान् लतया कण्ठ सक्तया ।मालया इव बलाकानाम् ससंध्य इव तोयदः ॥४-१२-४१॥
श्लोक 42
विभ्राजमानो वपुषा राम वाक्य समाहितः ।जगाम सह रामेण किष्किंधाम् पुनराप सः ॥४-१२-४२॥