वाल्मीकि रामायण युद्धकाण्ड सर्ग 25
वाल्मीकि रामायण युद्धकाण्ड सर्ग 25 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1
सबलेसागरंतीर्णेरामेदशरथात्मजे ।अमात्यौरावणश्रीमानब्रवीच्छुकसारणौ ॥६-२५-१॥।।
श्लोक 2
समग्रंसागरंतीर्णंदुस्तरंवानरंबलम् ।अभूतपूर्वंरामेणसागरेसेतुबन्धनम् ॥६-२५-२॥।।
श्लोक 3
सागरेसेतुबन्दंतुनश्रद्दध्यांकथञ्चन ।अवश्यंचापिसङ् ख्येयंतन्मयावानरंबलम् ॥६-२५-३॥।।
श्लोक 4
भवन्तौवानरंसैन्यंप्रविश्यानुपलक्षितौ ।परिमाणंचवीर्यंचयेचमुख्याःप्लवङ्घमाः ॥६-२५-४॥।।
श्लोक 5
मन्त्रिणोयेचरामस्यसुग्रीवस्यचसम्मता: ।येपूर्वमभिवर्तन्तेयेचशूराःप्लवङ्गमाः ॥६-२५-५॥।।
श्लोक 6
सचसेतुर्यथाबद्धस्सागरेसलिलार्णवे ।निवेशंचयधातेषांवानराणांमहात्मनाम् ॥६-२५-६॥।।
श्लोक 7
रामस्यव्यवसायंचवीर्यंप्रहरणानिच ।लक्ष्मणस्यचवीर्यंतत्त्वतोज्ञातुमर्हथः ॥६-२५-७॥।।
श्लोक 8
कश्चसेनापतिस्तेषांवानराणांमहौजसाम् ।तच्चज्ञात्वायथातत्त्वंशीघ्रमगन्तुमर्हथः ॥६-२५-८॥।।
श्लोक 9
इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ ।हरिरूपधरौवीरौप्रविष्टौवानरंबलम् ॥६-२५-९॥।।
श्लोक 10
ततस्तद्वानरंसैन्यमचिन्त्यंरोमहर्षणम् ।सङ् ख्यातुंनाध्यगच्छेतांतदातौशुकसारणौ ॥६-२५-१०॥।।
श्लोक 11
संस्थितंपर्वताग्रेषुनिर्दरेषुगुहासुच ।समुद्रस्यचतीरेषुवनेषूपवनेषुच ॥६-२५-११॥।।
श्लोक 12
तरमाणंचतीर्णंचतर्तुकामंचसर्वशः ।निविष्टंनिविश्चैवभीमनादंमहाबलम् ॥६-२५-१२॥।।
श्लोक 13
तद्बलार्णवमक्षोभ्यंददृशातेनिशाचरौ ।तौददर्शमहातेजाःप्रतिच्छन्नौचविभीषणः ।आचचक्षेऽथरामायगृहीत्वाशुकसारणौ ॥६-२५-१३॥।।
श्लोक 14
तस्यैमौराक्षसेन्द्रस्यमन्त्रिणौशुकसारणौ ।लङ्कायस्समनुप्राप्तौचारौपरपुरञ्जय: ॥६-२५-१४॥।।
श्लोक 15
तौदृष्टवाव्यथितौरामंनिराशौजीवितेतथा ।कृताञ्जलिपुटौभीतौवचनंचेदमूचतुः ॥६-२५-१५॥।।
श्लोक 16
आवामिहागतौसौम्य रावणप्रहितावुभौ ।परिज्ञातुंबलंसर्वंतवेदंरघुनन्दन: ॥६-२५-१६॥।।
श्लोक 17
तयोस्तद्वचनंश्रुत्वारामोदशरथात्मजः ।अब्रवीत्प्रहसन्वाक्यंसर्वभूतहितेरतः ॥६-२५-१७॥।।
श्लोक 18
यदिदृष्टंबलंसर्वंवयंवासुपरिक्षिताः ।यथोक्तंवाकृतंकार्यछन्दतःप्रतिगम्यताम् ॥६-२५-१८॥।।
श्लोक 19
अथकिञ्चिददृष्टंवाभूयस्तद्द्रष्टुमर्हथः ।विभीषणोवाकात्स्नर्येनभूयस्सन्दर्शयिष्यति ॥६-२५-१९॥।।
श्लोक 20
नचेदंग्रहणंप्राप्यभेत्तव्यंजीवितंप्रति ।न्यस्तशस्त्रौगृहतौवानदूतौवधमर्हतः ॥६-२५-२०॥।।
श्लोक 21
प्रच्छमानौविमुञ्चैतौचारौरात्रिंचरावुभौ ।शत्रुपक्षस्यसततंविभीषण: विकर्षिणौ ॥६-२५-२१॥।।
श्लोक 22
प्रविश्यनगरींलङ्कांभवद् भ्यांधनदानुजः ।वक्तव्योरक्षसांराजायथोक्तंवचनंमम ॥६-२५-२२॥।।
श्लोक 23
यद्बलंचसमाश्रित्यसीतांमेहृतवानपि ।तद्दर्शययथाकामंससैन्यस्सहबान्धवः ॥६-२५-२३॥।।
श्लोक 24
श्वःकाल्येनगरींलङ्कांसप्राकारांसतोरणाम् ।रक्षसंचबलंपश्यशरैर्विध्वंसितंमया ॥६-२५-२४॥।।
श्लोक 25
क्रोधंभीममहंमोक्ष्येससैन्येत्वयिरावण: ।श्वःकाल्येवज्रवान्वज्रंदानवेष्विववासवः ॥६-२५-२५॥।।
श्लोक 26
इतिप्रतिसमादिष्टौराक्षसौशुकसारणौ ॥६-२५-२६॥।।
श्लोक 27
जयेतिप्रतिनन्द्यैतौराघवंधर्मवत्सलम् ।आगम्यनगरींलङ्कामब्रूतांराक्षसाधिपम् ॥६-२५-२७॥।।
श्लोक 28
विभीषणगृहीतौतुवधार्तौराक्षसेश्वर: ।दृष्टवाधर्मात्मनामुक्तौरामेणामिततेजसा ॥६-२५-२८॥।।
श्लोक 29
एकस्थानगतायत्रचत्वारःपुरुषर्षभाः ।लोकपालसमाश्शूराःकृतास्त्रादृढविक्रमा ॥६-२५-२९॥।।
श्लोक 30
रामोदाशरथि्शीमान् लक्ष्मणश्चविभीषणः ।सुग्रीवश्चमहातेजामहेन्द्रसमविक्रमः ॥६-२५-३०॥।।
श्लोक 31
एतेशक्ताःपुरीलङ्कांसप्राकारांसतोरणाम् ।उत्पाट्यसङ्क्रमयितुंसर्वेतिष्ठन्तुवानराः ॥६-२५-३१॥।।
श्लोक 32
यादृश्यंतस्यरामस्यरूपंप्रहरणानिच ।वधिष्यतिपुरींलङ्कामेकस्तिष्ठन्तुतेत्रयः ॥६-२५-३२॥।।
श्लोक 33
रामलक्ष्मणगुप्तासासुग्रीवेणचवाहिनी ।बभूवदुर्दर्षतरासर्वैरपिसुरासुरैः ॥६-२५-३३॥।।
श्लोक 34
प्रहृष्टरूपाध्वजिनीवनौकसां ।महात्मनाम् सम्प्रतियोद्धुमिच्छताम् ।अलंविरोधेनशमोविधीयतांप्रदीयतांदाशरथायमैदिली ॥६-२५-३४॥।।