मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 10

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 10 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.10.1

हत्वा स्वरिक्थस्पृध आततायिनो युधिष्ठिरो धर्मभृतां वरिष्ठः । सहानुजैः प्रत्यवरुद्धभोजनः कथं प्रवृत्तः किम् अकारषीत् ततः ॥ 1 ॥

श्लोक 1.10.2

वंशं कुरोर्वंशदवाग्निनिर्हृतं संरोहयित्वा भवभावनो हरिः । निवेशयित्वा निजराज्य ईश्वरो युधिष्ठिरं प्रीतमना बभूव ह ॥ 2 ॥

श्लोक 1.10.3

निशम्य भीष्मोक्तम् अथाच्युतोक्तं प्रवृत्तविज्ञानविधूतविभ्रमः । शशास गाम् इन्द्र इवाजिताश्रयः परिध्युपान्ताम् अनुजानुवर्तितः ॥ 3 ॥

श्लोक 1.10.4

कामं ववर्ष पर्जन्यः सर्वकामदुघा मही । सिषिचुः स्म व्रजान् गावः पयसोधस्वतीर्मुदा ॥ 4 ॥

श्लोक 1.10.5

नद्यः समुद्रा गिरयः सवनस्पतिवीरुधः । फलन्त्योषधयः सर्वाः कामम् अन्वृतु तस्य वै ॥ 5 ॥

श्लोक 1.10.6

नाधयो व्याधयः क्लेशा दैवभूतात्महेतवः । अजातशत्रावभवन् जन्तूनां राज्ञि कर्हिचित् ॥ 6 ॥

श्लोक 1.10.7

उषित्वा हास्तिनपुरे मासान् कतिपयान् हरिः । सुहृदां च विशोकाय स्वसुश्च प्रियकाम्यया ॥ 7 ॥

श्लोक 1.10.8

आमन्त्र्य चाभ्यनुज्ञातः परिष्वज्याभिवाद्य तम् । आरुरोह रथं कैश्चित् परिष्वक्तो ऽभिवादितः ॥ 8 ॥

श्लोक 1.10.9

सुभद्रा द्रौपदी कुन्ती विराटतनया तथा । गान्धारी धृतराष्ट्रश्च युयुत्सुर्गौतमो यमौ ॥ 9 ॥

श्लोक 1.10.10

वृकोदरश्च धौम्यश्च स्त्रियो मत्स्यसुतादयः । न सेहिरे विमुह्यन्तो विरहं शार्ङ्गधन्वनः ॥ 10 ॥

श्लोक 1.10.11

सत्सङ्गान् मुक्तदुःसङ्गो हातुं नोत्सहते बुधः । कीर्त्यमानं यशो यस्य सकृदाकर्ण्य रोचनम् ॥ 11 ॥

श्लोक 1.10.12

तस्मिन् न्यस्तधियः पार्थाः सहेरन् विरहं कथम् । दर्शनस्पर्शसंलाप शयनासनभोजनैः ॥ 12 ॥

श्लोक 1.10.13

सर्वे ते ऽनिमिषैरक्षैस्तम् अनु द्रुतचेतसः । वीक्षन्तः स्नेहसम्बद्धा विचेलुस्तत्र तत्र ह ॥ 13 ॥

श्लोक 1.10.14

न्यरुन्धन्न् उद्गलद्बाष्पम् औत्कण्ठ्याद्देवकीसुते । निर्यात्यगारान् नो ऽभद्रम् इति स्याद्बान्धवस्त्रियः ॥ 14 ॥

श्लोक 1.10.15

मृदङ्गशङ्खभेर्यश्च वीणापणवगोमुखाः । धुन्धुर्यानकघण्टाद्या नेदुर्दुन्दुभयस्तथा ॥ 15 ॥

श्लोक 1.10.16

प्रासादशिखरारूढाः कुरुनार्यो दिदृक्षया । ववृषुः कुसुमैः कृष्णं प्रेमव्रीडास्मितेक्षणाः ॥ 16 ॥

श्लोक 1.10.17

सितातपत्रं जग्राह मुक्तादामविभूषितम् । रत्नदण्डं गुडाकेशः प्रियः प्रियतमस्य ह ॥ 17 ॥

श्लोक 1.10.18

उद्धवः सात्यकिश्चैव व्यजने परमाद्भुते । विकीर्यमाणः कुसुमै रेजे मधुपतिः पथि ॥ 18 ॥

श्लोक 1.10.19

अश्रूयन्ताशिषः सत्यास्तत्र तत्र द्विजेरिताः । नानुरूपानुरूपाश्च निर्गुणस्य गुणात्मनः ॥ 19 ॥

श्लोक 1.10.20

अन्योन्यम् आसीत् सञ्जल्प उत्तमश्लोकचेतसाम् । कौरवेन्द्रपुरस्त्रीणां सर्वश्रुतिमनोहरः ॥ 20 ॥

श्लोक 1.10.21

स वै किलायं पुरुषः पुरातनो य एक आसीदविशेष आत्मनि । अग्रे गुणेभ्यो जगदात्मनीश्वरे निमीलितात्मन् निशि सुप्तशक्तिषु ॥ 21 ॥

श्लोक 1.10.22

स एव भूयो निजवीर्यचोदितां स्वजीवमायां प्रकृतिं सिसृक्षतीम् । अनामरूपात्मनि रूपनामनी विधित्समानो ऽनुससार शास्त्रकृत् ॥ 22 ॥

श्लोक 1.10.23

स वा अयं यत् पदम् अत्र सूरयो जितेन्द्रिया निर्जितमातरिश्वनः । पश्यन्ति भक्त्युत्कलितामलात्मना नन्वेष सत्त्वं परिमार्ष्टुम् अर्हति ॥ 23 ॥

श्लोक 1.10.24

स वा अयं सख्यनुगीतसत्कथो वेदेषु गुह्येषु च गुह्यवादिभिः । य एक ईशो जगदात्मलीलया सृजत्यवत्यत्ति न तत्र सज्जते ॥ 24 ॥

श्लोक 1.10.25

यदा ह्यधर्मेण तमोधियो नृपा जीवन्ति तत्रैष हि सत्त्वतः किल । धत्ते भगं सत्यम् ऋतं दयां यशो भवाय रूपाणि दधद्युगे युगे ॥ 25 ॥

श्लोक 1.10.26

अहो अलं श्लाघ्यतमं यदोः कुलम् अहो अलं पुण्यतमं मधोर्वनम् । यदेष पुंसाम् ऋषभः श्रियः पतिः स्वजन्मना चङ्क्रमणेन चाञ्चति ॥ 26 ॥

श्लोक 1.10.27

अहो बत स्वर्यशसस्तिरस्करी कुशस्थली पुण्ययशस्करी भुवः । पश्यन्ति नित्यं यदनुग्रहेषितं स्मितावलोकं स्वपतिं स्म यत्प्रजाः ॥ 27 ॥

श्लोक 1.10.28

नूनं व्रतस्नानहुतादिनेश्वरः समर्चितो ह्यस्य गृहीतपाणिभिः । पिबन्ति याः सख्यधरामृतं मुहुर् व्रजस्त्रियः सम्मुमुहुर्यदाशयाः ॥ 28 ॥

श्लोक 1.10.29

या वीर्यशुल्केन हृताः स्वयंवरे प्रमथ्य चैद्यप्रमुखान् हि शुष्मिणः । प्रद्युम्नसाम्बाम्बसुतादयो ऽपरा याश्चाहृता भौमवधे सहस्रशः ॥ 29 ॥

श्लोक 1.10.30

एताः परं स्त्रीत्वम् अपास्तपेशलं निरस्तशौचं बत साधु कुर्वते । यासां गृहात् पुष्करलोचनः पतिर् न जात्वपैत्याहृतिभिर्हृदि स्पृशन् ॥ 30 ॥

श्लोक 1.10.31

एवंविधा गदन्तीनां स गिरः पुरयोषिताम् । निरीक्षणेनाभिनन्दन् सस्मितेन ययौ हरिः ॥ 31 ॥

श्लोक 1.10.32

अजातशत्रुः पृतनां गोपीथाय मधुद्विषः । परेभ्यः शङ्कितः स्नेहात् प्रायुङ्क्त चतुरङ्गिणीम् ॥ 32 ॥

श्लोक 1.10.33

अथ दूरागतान् शौरिः कौरवान् विरहातुरान् । सन्निवर्त्य दृढं स्निग्धान् प्रायात् स्वनगरीं प्रियैः ॥ 33 ॥

श्लोक 1.10.34

कुरुजाङ्गलपाञ्चालान् शूरसेनान् सयामुनान् । ब्रह्मावर्तं कुरुक्षेत्रं मत्स्यान् सारस्वतान् अथ ॥ 34 ॥

श्लोक 1.10.35

मरुधन्वम् अतिक्रम्य सौवीराभीरयोः परान् । आनर्तान् भार्गवोपागाच् छ्रान्तवाहो मनाग् विभुः ॥ 35 ॥

श्लोक 1.10.36

तत्र तत्र ह तत्रत्यैर्हरिः प्रत्युद्यतार्हणः । सायं भेजे दिशं पश्चाद्गविष्ठो गां गतस्तदा ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ