श्रीमद्भागवत प्रथम स्कन्ध अध्याय 9
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 9 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.9.1
इति भीतः प्रजाद्रोहात् सर्वधर्मविवित्सया । ततो विनशनं प्रागाद्यत्र देवव्रतो ऽपतत् ॥ 1 ॥
श्लोक 1.9.2
तदा ते भ्रातरः सर्वे सदश्वैः स्वर्णभूषितैः । अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ 2 ॥
श्लोक 1.9.3
भगवान् अपि विप्रर्षे रथेन सधनञ्जयः । स तैर्व्यरोचत नृपः कुवेर इव गुह्यकैः ॥ 3 ॥
श्लोक 1.9.4
दृष्ट्वा निपतितं भूमौ दिवश्च्युतम् इवामरम् । प्रणेमुः पाण्डवा भीष्मं सानुगाः सह चक्रिणा ॥ 4 ॥
श्लोक 1.9.5
तत्र ब्रह्मर्षयः सर्वे देवर्षयश्च सत्तम । राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ 5 ॥
श्लोक 1.9.6
पर्वतो नारदो धौम्यो भगवान् बादरायणः । बृहदश्वो भरद्वाजः सशिष्यो रेणुकासुतः ॥ 6 ॥
श्लोक 1.9.7
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदो ऽसितः । कक्षीवान् गौतमो ऽत्रिश्च कौशिको ऽथ सुदर्शनः ॥ 7 ॥
श्लोक 1.9.8
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयो ऽमलाः । शिष्यैरुपेता आजग्मुः कश्यपाङ्गिरसादयः ॥ 8 ॥
श्लोक 1.9.9
तान् समेतान् महाभागान् उपलभ्य वसूत्तमः । पूजयाम् आस धर्मज्ञो देशकालविभागवित् ॥ 9 ॥
श्लोक 1.9.10
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयाम् आस माययोपात्तविग्रहम् ॥ 10 ॥
श्लोक 1.9.11
पाण्डुपुत्रान् उपासीनान् प्रश्रयप्रेमसङ्गतान् । अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ 11 ॥
श्लोक 1.9.12
अहो कष्टम् अहो ऽन्याय्यं यद्यूयं धर्मनन्दनाः । जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रयाः ॥ 12 ॥
श्लोक 1.9.13
संस्थिते ऽतिरथे पाण्डौ पृथा बालप्रजा वधूः । युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहुः ॥ 13 ॥
श्लोक 1.9.14
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् । सपालो यद्वशे लोको वायोरिव घनावलिः ॥ 14 ॥
श्लोक 1.9.15
यत्र धर्मसुतो राजा गदापाणिर्वृकोदरः । कृष्णो ऽस्त्री गाण्डिवं चापं सुहृत् कृष्णस्ततो विपत् ॥ 15 ॥
श्लोक 1.9.16
न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् । यद्विजिज्ञासया युक्ता मुह्यन्ति कवयो ऽपि हि ॥ 16 ॥
श्लोक 1.9.17
तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ । तस्यानुविहितो ऽनाथा नाथ पाहि प्रजाः प्रभो ॥ 17 ॥
श्लोक 1.9.18
एष वै भगवान् साक्षादाद्यो नारायणः पुमान् । मोहयन् मायया लोकं गूढश्चरति वृष्णिषु ॥ 18 ॥
श्लोक 1.9.19
अस्यानुभावं भगवान् वेद गुह्यतमं शिवः । देवर्षिर्नारदः साक्षाद्भगवान् कपिलो नृप ॥ 19 ॥
श्लोक 1.9.20
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् । अकरोः सचिवं दूतं सौहृदादथ सारथिम् ॥ 20 ॥
श्लोक 1.9.21
सर्वात्मनः समदृशो ह्यद्वयस्यानहङ्कृतेः । तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ 21 ॥
श्लोक 1.9.22
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् । यन् मे ऽसूंस्त्यजतः साक्षात् कृष्णो दर्शनम् आगतः ॥ 22 ॥
श्लोक 1.9.23
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् । त्यजन् कलेवरं योगी मुच्यते कामकर्मभिः ॥ 23 ॥
श्लोक 1.9.24
स देवदेवो भगवान् प्रतीक्षतां कलेवरं यावदिदं हिनोम्यहम् । प्रसन्नहासारुणलोचनोल्लसन् मुखाम्बुजो ध्यानपथश्चतुर्भुजः ॥ 24 ॥
श्लोक 1.9.25
युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे । अपृच्छद्विविधान् धर्मान् ऋषीणां चानुशृण्वताम् ॥ 25 ॥
श्लोक 1.9.26
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् । वैराग्यरागोपाधिभ्याम् आम्नातोभयलक्षणान् ॥ 26 ॥
श्लोक 1.9.27
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागशः । स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगतः ॥ 27 ॥
श्लोक 1.9.28
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने । नानाख्यानेतिहासेषु वर्णयाम् आस तत्त्ववित् ॥ 28 ॥
श्लोक 1.9.29
धर्मं प्रवदतस्तस्य स कालः प्रत्युपस्थितः । यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायणः ॥ 29 ॥
श्लोक 1.9.30
तदोपसंहृत्य गिरः सहस्रणीर् विमुक्तसङ्गं मन आदिपूरुषे । कृष्णे लसत्पीतपटे चतुर्भुजे पुरः स्थिते ऽमीलितदृग् व्यधारयत् ॥ 30 ॥
श्लोक 1.9.31
विशुद्धया धारणया हताशुभस् तदीक्षयैवाशु गतायुधश्रमः । निवृत्तसर्वेन्द्रियवृत्तिविभ्रमस् तुष्टाव जन्यं विसृजञ् जनार्दनम् ॥ 31 ॥
श्लोक 1.9.32
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुङ्गवे विभूम्नि । स्वसुखम् उपगते क्वचिद्विहर्तुं प्रकृतिम् उपेयुषि यद्भवप्रवाहः ॥ 32 ॥
श्लोक 1.9.33
त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मे ऽनवद्या ॥ 33 ॥
श्लोक 1.9.34
युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलङ्कृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचे ऽस्तु कृष्ण आत्मा ॥ 34 ॥
श्लोक 1.9.35
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ 35 ॥
श्लोक 1.9.36
व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिम् अहरदात्मविद्यया यश् चरणरतिः परमस्य तस्य मे ऽस्तु ॥ 36 ॥
श्लोक 1.9.37
स्वनिगमम् अपहाय मत्प्रतिज्ञाम् ऋतम् अधिकर्तुम् अवप्लुतो रथस्थः । धृतरथचरणो ऽभ्ययाच् चलद्गुर् हरिरिव हन्तुम् इभं गतोत्तरीयः ॥ 37 ॥
श्लोक 1.9.38
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभम् अभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्दः ॥ 38 ॥
श्लोक 1.9.39
विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोर् यम् इह निरीक्ष्य हता गताः स्वरूपम् ॥ 39 ॥
श्लोक 1.9.40
ललितगतिविलासवल्गुहास प्रणयनिरीक्षणकल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदान्धाः प्रकृतिम् अगन् किल यस्य गोपवध्वः ॥ 40 ॥
श्लोक 1.9.41
मुनिगणनृपवर्यसङ्कुले ऽन्तः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणम् उपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ 41 ॥
श्लोक 1.9.42
तम् इमम् अहम् अजं शरीरभाजां हृदि हृदि धिष्ठितम् आत्मकल्पितानाम् । प्रतिदृशम् इव नैकधार्कम् एकं समधिगतो ऽस्मि विधूतभेदमोहः ॥ 42 ॥
श्लोक 1.9.43
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभिः । आत्मन्यात्मानम् आवेश्य सो ऽन्तःश्वास उपारमत् ॥ 43 ॥
श्लोक 1.9.44
सम्पद्यमानम् आज्ञाय भीष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ 44 ॥
श्लोक 1.9.45
तत्र दुन्दुभयो नेदुर्देवमानववादिताः । शशंसुः साधवो राज्ञां खात् पेतुः पुष्पवृष्टयः ॥ 45 ॥
श्लोक 1.9.46
तस्य निर्हरणादीनि सम्परेतस्य भार्गव । युधिष्ठिरः कारयित्वा मुहूर्तं दुःखितो ऽभवत् ॥ 46 ॥
श्लोक 1.9.47
तुष्टुवुर्मुनयो हृष्टाः कृष्णं तद्गुह्यनामभिः । ततस्ते कृष्णहृदयाः स्वाश्रमान् प्रययुः पुनः ॥ 47 ॥
श्लोक 1.9.48
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् । पितरं सान्त्वयाम् आस गान्धारीं च तपस्विनीम् ॥ 48 ॥
श्लोक 1.9.49
पित्रा चानुमतो राजा वासुदेवानुमोदितः । चकार राज्यं धर्मेण पितृपैतामहं विभुः ॥ 49 ॥