मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 11

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 11 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.11.1

आनर्तान् स उपव्रज्य स्वृद्धाञ् जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्न् इव ॥ 1 ॥

श्लोक 1.11.2

स उच्चकाशे धवलोदरो दरो ऽप्युरुक्रमस्याधरशोणशोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ 2 ॥

श्लोक 1.11.3

तम् उपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ 3 ॥

श्लोक 1.11.4

तत्रोपनीतबलयो रवेर्दीपम् इवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ 4 ॥

श्लोक 1.11.5

प्रीत्युत्फुल्लमुखाः प्रोचुर्हर्षगद्गदया गिरा । पितरं सर्वसुहृदम् अवितारम् इवार्भकाः ॥ 5 ॥

श्लोक 1.11.6

नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्यसुरेन्द्रवन्दितम् । परायणं क्षेमम् इहेच्छतां परं न यत्र कालः प्रभवेत् परः प्रभुः ॥ 6 ॥

श्लोक 1.11.7

भवाय नस्त्वं भव विश्वभावन त्वम् एव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ 7 ॥

श्लोक 1.11.8

अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानाम् अपि दूरदर्शनम् । प्रेमस्मितस्निग्धनिरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ 8 ॥

श्लोक 1.11.9

यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ 9 ॥

श्लोक 1.11.10

कथं वयं नाथ चिरोषिते त्वयि प्रसन्नदृष्ट्याखिलतापशोषणम् । जीवेम ते सुन्दरहासशोभितम् अपश्यमाना वदनं मनोहरम् ॥ 10 ॥

श्लोक 1.11.11

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानो ऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत् पुरम् ॥ 11 ॥

श्लोक 1.11.12

मधुभोजदशार्हार्हकुकुरान्धकवृष्णिभिः । आत्मतुल्यबलैर्गुप्तां नागैर्भोगवतीम् इव ॥ 12 ॥

श्लोक 1.11.13

सर्वर्तुसर्वविभवपुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैर्वृतपद्माकरश्रियम् ॥ 13 ॥

श्लोक 1.11.14

गोपुरद्वारमार्गेषु कृतकौतुकतोरणाम् । चित्रध्वजपताकाग्रैरन्तः प्रतिहतातपाम् ॥ 14 ॥

श्लोक 1.11.15

सम्मार्जितमहामार्ग रथ्यापणकचत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ 15 ॥

श्लोक 1.11.16

द्वारि द्वारि गृहाणां च दध्यक्षतफलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैर्बलिभिर्धूपदीपकैः ॥ 16 ॥

श्लोक 1.11.17

निशम्य प्रेष्ठम् आयान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ 17 ॥

श्लोक 1.11.18

प्रद्युम्नश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेगोच्छशितशयनासनभोजनाः ॥ 18 ॥

श्लोक 1.11.19

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्यनिनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागतसाध्वसाः ॥ 19 ॥

श्लोक 1.11.20

वारमुख्याश्च शतशो यानैस्तद्दर्शनोत्सुकाः । लसत्कुण्डलनिर्भातकपोलवदनश्रियः ॥ 20 ॥

श्लोक 1.11.21

नटनर्तकगन्धर्वाः सूतमागधवन्दिनः । गायन्ति चोत्तमश्लोकचरितान्यद्भुतानि च ॥ 21 ॥

श्लोक 1.11.22

भगवांस्तत्र बन्धूनां पौराणाम् अनुवर्तिनाम् । यथाविध्युपसङ्गम्य सर्वेषां मानम् आदधे ॥ 22 ॥

श्लोक 1.11.23

प्रह्वाभिवादनाश्लेषकरस्पर्शस्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्चाभिमतैर्विभुः ॥ 23 ॥

श्लोक 1.11.24

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिर्युज्यमानो ऽन्यैर्वन्दिभिश्चाविशत् पुरम् ॥ 24 ॥

श्लोक 1.11.25

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षणमहोत्सवाः ॥ 25 ॥

श्लोक 1.11.26

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गम् अच्युतम् ॥ 26 ॥

श्लोक 1.11.27

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ 27 ॥

श्लोक 1.11.28

सितातपत्रव्यजनैरुपस्कृतः प्रसूनवर्षैरभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ घनो यथार्कोडुपचापवैद्युतैः ॥ 28 ॥

श्लोक 1.11.29

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ 29 ॥

श्लोक 1.11.30

ताः पुत्रम् अङ्कम् आरोप्य स्नेहस्नुतपयोधराः । हर्षविह्वलितात्मानः सिषिचुर्नेत्रजैर्जलैः ॥ 30 ॥

श्लोक 1.11.31

अथाविशत् स्वभवनं सर्वकामम् अनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ 31 ॥

श्लोक 1.11.32

पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् साकं व्रतैर्व्रीडितलोचनाननाः ॥ 32 ॥

श्लोक 1.11.33

तम् आत्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धम् अप्यास्रवदम्बु नेत्रयोर् विलज्जतीनां भृगुवर्य वैक्लवात् ॥ 33 ॥

श्लोक 1.11.34

यद्यप्यसौ पार्श्वगतो रहोगतस् तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदाच् चलापि यच् छ्रीर्न जहाति कर्हिचित् ॥ 34 ॥

श्लोक 1.11.35

एवं नृपाणां क्षितिभारजन्मनाम् अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ 35 ॥

श्लोक 1.11.36

स एष नरलोके ऽस्मिन्न् अवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ 36 ॥

श्लोक 1.11.37

उद्दामभावपिशुनामलवल्गुहास व्रीडावलोकनिहतो मदनो ऽपि यासाम् &अम्प्; सम्मुह्य चापम् अजहात् प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ 37 ॥

श्लोक 1.11.38

तम् अयं मन्यते लोको ह्यसङ्गम् अपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतो ऽबुधः ॥ 38 ॥

श्लोक 1.11.39

एतदीशनम् ईशस्य प्रकृतिस्थो ऽपि तद्गुणैः । न युज्यते सदात्मस्थैर्यथा बुद्धिस्तदाश्रया ॥ 39 ॥

श्लोक 1.11.40

तं मेनिरे ऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ