श्रीमद्भागवत प्रथम स्कन्ध अध्याय 12
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 12 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.12.1
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ 1 ॥
श्लोक 1.12.2
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ 2 ॥
श्लोक 1.12.3
तदिदं श्रोतुम् इच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानम् अदाच् छुकः ॥ 3 ॥
श्लोक 1.12.4
अपीपलद्धर्मराजः पितृवद्रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ 4 ॥
श्लोक 1.12.5
सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ 5 ॥
श्लोक 1.12.6
किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ 6 ॥
श्लोक 1.12.7
मातुर्गर्भगतो वीरः स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद्दह्यमानो ऽस्त्रतेजसा ॥ 7 ॥
श्लोक 1.12.8
अङ्गुष्ठमात्रम् अमलं स्फुरत्पुरटमौलिनम् । अपीव्यदर्शनं श्यामं तडिद्वाससम् अच्युतम् ॥ 8 ॥
श्लोक 1.12.9
श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् । क्षतजाक्षं गदापाणिम् आत्मनः सर्वतो दिशम् । परिभ्रमन्तम् उल्काभां भ्रामयन्तं गदां मुहुः ॥ 9 ॥
श्लोक 1.12.10
अस्त्रतेजः स्वगदया नीहारम् इव गोपतिः । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ 10 ॥
श्लोक 1.12.11
विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ 11 ॥
श्लोक 1.12.12
ततः सर्वगुणोदर्के सानुकूलग्रहोदये । जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥ 12 ॥
श्लोक 1.12.13
तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः । जातकं कारयाम् आस वाचयित्वा च मङ्गलम् ॥ 13 ॥
श्लोक 1.12.14
हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात् स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ 14 ॥
श्लोक 1.12.15
तम् ऊचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ 15 ॥
श्लोक 1.12.16
दैवेनाप्रतिघातेन शुक्ले संस्थाम् उपेयुषि । रातो वो ऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ 16 ॥
श्लोक 1.12.17
तस्मान् नाम्ना विष्णुरात इति लोके भविष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥ 17 ॥
श्लोक 1.12.18
अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ 18 ॥
श्लोक 1.12.19
पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ 19 ॥
श्लोक 1.12.20
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ 20 ॥
श्लोक 1.12.21
धन्विनाम् अग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः । हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ 21 ॥
श्लोक 1.12.22
मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवान् इव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ 22 ॥
श्लोक 1.12.23
पितामहसमः साम्ये प्रसादे गिरिशोपमः । आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ 23 ॥
श्लोक 1.12.24
सर्वसद्गुणमाहात्म्ये एष कृष्णम् अनुव्रतः । रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ 24 ॥
श्लोक 1.12.25
हृत्या बलिसमः कृष्णे प्रह्राद इव सद्ग्रहः । आहर्तैषो ऽश्वमेधानां वृद्धानां पर्युपासकः ॥ 25 ॥
श्लोक 1.12.26
राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ 26 ॥
श्लोक 1.12.27
तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ 27 ॥
श्लोक 1.12.28
जिज्ञासितात्मयाथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्गायां यास्यत्यद्धाकुतोभयम् ॥ 28 ॥
श्लोक 1.12.29
इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ 29 ॥
श्लोक 1.12.30
स एष लोके विख्यातः परीक्षिदिति यत् प्रभुः । पूर्वं दृष्टम् अनुध्यायन् परीक्षेत नरेष्विह ॥ 30 ॥
श्लोक 1.12.31
स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सो ऽन्वहम् ॥ 31 ॥
श्लोक 1.12.32
यक्ष्यमाणो ऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ नान्यत्र करदण्डयोः ॥ 32 ॥
श्लोक 1.12.33
तदभिप्रेतम् आलक्ष्य भ्रातरो ञ्च्युतचोदिताः । धनं प्रहीणम् आजह्रुरुदीच्यां दिशि भूरिशः ॥ 33 ॥
श्लोक 1.12.34
तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैस्त्रिभिर्भीतो यज्ञैः समयजद्धरिम् ॥ 34 ॥
श्लोक 1.12.35
आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचिन् मासान् सुहृदां प्रियकाम्यया ॥ 35 ॥
श्लोक 1.12.36
ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ 36 ॥