मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 13

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.13.1

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् । ज्ञात्वागाद्धास्तिनपुरं तयावाप्तविवित्सितः ॥ 1 ॥

श्लोक 1.13.2

यावतः कृतवान् प्रश्नान् क्षत्ता कौषारवाग्रतः । जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ 2 ॥

श्लोक 1.13.3

तं बन्धुम् आगतं दृष्ट्वा धर्मपुत्रः सहानुजः । धृतराष्ट्रो युयुत्सुश्च सूतः शारद्वतः पृथा ॥ 3 ॥

श्लोक 1.13.4

गान्धारी द्रौपदी ब्रह्मन् सुभद्रा चोत्तरा कृपी । अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः ॥ 4 ॥

श्लोक 1.13.5

प्रत्युज्जग्मुः प्रहर्षेण प्राणं तन्व इवागतम् । अभिसङ्गम्य विधिवत् परिष्वङ्गाभिवादनैः ॥ 5 ॥

श्लोक 1.13.6

मुमुचुः प्रेमबाष्पौघं विरहौत्कण्ठ्यकातराः । राजा तम् अर्हयां चक्रे कृतासनपरिग्रहम् ॥ 6 ॥

श्लोक 1.13.7

तं भुक्तवन्तं विश्रान्तम् आसीनं सुखम् आसने । प्रश्रयावनतो राजा प्राह तेषां च शृण्वताम् ॥ 7 ॥

श्लोक 1.13.8

अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् । विपद्गणाद्विषाग्न्यादेर्मोचिता यत् समातृकाः ॥ 8 ॥

श्लोक 1.13.9

कया वृत्त्या वर्तितं वश्चरद्भिः क्षितिमण्डलम् । तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ 9 ॥

श्लोक 1.13.10

भवद्विधा भागवतास्तीर्थभूताः स्वयं विभो । तीर्थीकुर्वन्ति तीर्थानि स्वान्तःस्थेन गदाभृता ॥ 10 ॥

श्लोक 1.13.11

अपि नः सुहृदस्तात बान्धवाः कृष्णदेवताः । दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखम् आसते ॥ 11 ॥

श्लोक 1.13.12

इत्युक्तो धर्मराजेन सर्वं तत् समवर्णयत् । यथानुभूतं क्रमशो विना यदुकुलक्षयम् ॥ 12 ॥

श्लोक 1.13.13

नन्वप्रियं दुर्विषहं नृणां स्वयम् उपस्थितम् । नावेदयत् सकरुणो दुःखितान् द्रष्टुम् अक्षमः ॥ 13 ॥

श्लोक 1.13.14

कञ्चित् कालम् अथावात्सीत् सत्कृतो देववत् सुखम् । भ्रातुर्ज्येष्ठस्य श्रेयस्कृत् सर्वेषां सुखम् आवहन् ॥ 14 ॥

श्लोक 1.13.15

अबिभ्रदर्यमा दण्डं यथावदघकारिषु । यावद्दधार शूद्रत्वं शापाद्वर्षशतं यमः ॥ 15 ॥

श्लोक 1.13.16

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् । भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ 16 ॥

श्लोक 1.13.17

एवं गृहेषु सक्तानां प्रमत्तानां तदीहया । अत्यक्रामदविज्ञातः कालः परमदुस्तरः ॥ 17 ॥

श्लोक 1.13.18

विदुरस्तदभिप्रेत्य धृतराष्ट्रम् अभाषत । राजन् निर्गम्यतां शीघ्रं पश्येदं भयम् आगतम् ॥ 18 ॥

श्लोक 1.13.19

प्रतिक्रिया न यस्येह कुतश्चित् कर्हिचित् प्रभो । स एष भगवान् कालः सर्वेषां नः समागतः ॥ 19 ॥

श्लोक 1.13.20

येन चैवाभिपन्नो ऽयं प्राणैः प्रियतमैरपि । जनः सद्यो वियुज्येत किम् उतान्यैर्धनादिभिः ॥ 20 ॥

श्लोक 1.13.21

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयम् । आत्मा च जरया ग्रस्तः परगेहम् उपाससे ॥ 21 ॥

श्लोक 1.13.22

अन्धः पुरैव वधिरो मन्दप्रज्ञाश्च साम्प्रतम् । विशीर्णदन्तो मन्दाग्निः सरागः कफम् उद्वहन् ॥ 22 ॥

श्लोक 1.13.23

अहो महीयसी जन्तोर्जीविताशा यथा भवान् । भीमापवर्जितं पिण्डम् आदत्ते गृहपालवत् ॥ 23 ॥

श्लोक 1.13.24

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः । हृतं क्षेत्रं धनं येषां तद्दत्तैरसुभिः कियत् ॥ 24 ॥

श्लोक 1.13.25

तस्यापि तव देहो ऽयं कृपणस्य जिजीविषोः । परैत्यनिच्छतो जीर्णो जरया वाससी इव ॥ 25 ॥

श्लोक 1.13.26

गतस्वार्थम् इमं देहं विरक्तो मुक्तबन्धनः । अविज्ञातगतिर्जह्यात् स वै धीर उदाहृतः ॥ 26 ॥

श्लोक 1.13.27

यः स्वकात् परतो वेह जातनिर्वेद आत्मवान् । हृदि कृत्वा हरिं गेहात् प्रव्रजेत् स नरोत्तमः ॥ 27 ॥

श्लोक 1.13.28

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् । इतो ऽर्वाक् प्रायशः कालः पुंसां गुणविकर्षणः ॥ 28 ॥

श्लोक 1.13.29

एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः । छित्त्वा स्वेषु स्नेहपाशान् द्रढिम्नो निश्चक्राम भ्रातृसन्दर्शिताध्वा ॥ 29 ॥

श्लोक 1.13.30

पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी । हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनाम् इव सत् सम्प्रहारः ॥ 30 ॥

श्लोक 1.13.31

अजातशत्रुः कृतमैत्रो हुताग्निर् विप्रान् नत्वा तिलगोभूमिरुक्मैः । गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च ॥ 31 ॥

श्लोक 1.13.32

तत्र सञ्जयम् आसीनं पप्रच्छोद्विग्नमानसः । गावल्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ॥ 32 ॥

श्लोक 1.13.33

अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् । अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया । आशंसमानः शमलं गङ्गायां दुःखितो ऽपतत् ॥ 33 ॥

श्लोक 1.13.34

पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून् । अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ 34 ॥

श्लोक 1.13.35

कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः । आत्मेश्वरम् अचक्षाणो न प्रत्याहातिपीडितः ॥ 35 ॥

श्लोक 1.13.36

विमृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानम् आत्मना । अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ 36 ॥

श्लोक 1.13.37

नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन । गान्धार्या वा महाबाहो मुषितो ऽस्मि महात्मभिः ॥ 37 ॥

श्लोक 1.13.38

अथाजगाम भगवान् नारदः सहतुम्बुरुः । प्रत्युत्थायाभिवाद्याह सानुजो ऽभ्यर्चयन् मुनिम् ॥ 38 ॥

श्लोक 1.13.39

नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः । अम्बा वा हतपुत्रार्ता क्व गता च तपस्विनी ॥ 39 ॥

श्लोक 1.13.40

कर्णधार इवापारे भगवान् पारदर्शकः । अथाबभाषे भगवान् नारदो मुनिसत्तमः ॥ 40 ॥

श्लोक 1.13.41

मा कञ्चन शुचो राजन् यदीश्वरवशं जगत् । लोकाः सपाला यस्येमे वहन्ति बलिम् ईशितुः । स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ 41 ॥

श्लोक 1.13.42

यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः । वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिम् ईशितुः ॥ 42 ॥

श्लोक 1.13.43

यथा क्रीडोपस्कराणां संयोगविगमाविह । इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ 43 ॥

श्लोक 1.13.44

यन् मन्यसे ध्रुवं लोकम् अध्रुवं वा न चोभयम् । सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ 44 ॥

श्लोक 1.13.45

तस्माज् जह्यङ्ग वैक्लव्यम् अज्ञानकृतम् आत्मनः । कथं त्वनाथाः कृपणा वर्तेरंस्ते च मां विना ॥ 45 ॥

श्लोक 1.13.46

कालकर्मगुणाधीनो देहो ऽयं पाञ्चभौतिकः । कथम् अन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ 46 ॥

श्लोक 1.13.47

अहस्तानि सहस्तानाम् अपदानि चतुष्पदाम् । फल्गूनि तत्र महतां जीवो जीवस्य जीवनम् ॥ 47 ॥

श्लोक 1.13.48

तदिदं भगवान् राजन्न् एक आत्मात्मनां स्वदृक् । अन्तरो ऽनन्तरो भाति पश्य तं माययोरुधा ॥ 48 ॥

श्लोक 1.13.49

सो ऽयम् अद्य महाराज भगवान् भूतभावनः । कालरूपो ऽवतीर्णो ऽस्याम् अभावाय सुरद्विषाम् ॥ 49 ॥

श्लोक 1.13.50

निष्पादितं देवकृत्यम् अवशेषं प्रतीक्षते । तावद्यूयम् अवेक्षध्वं भवेद्यावदिहेश्वरः ॥ 50 ॥

श्लोक 1.13.51

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया । दक्षिणेन हिमवत ऋषीणाम् आश्रमं गतः ॥ 51 ॥

श्लोक 1.13.52

स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधा व्यधात् । सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते ॥ 52 ॥

श्लोक 1.13.53

स्नात्वानुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि । अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः ॥ 53 ॥

श्लोक 1.13.54

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः । हरिभावनया ध्वस्तरजःसत्त्वतमोमलः ॥ 54 ॥

श्लोक 1.13.55

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् । ब्रह्मण्यात्मानम् आधारे घटाम्बरम् इवाम्बरे ॥ 55 ॥

श्लोक 1.13.56

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः । निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः । तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः ॥ 56 ॥

श्लोक 1.13.57

स वा अद्यतनाद्राजन् परतः पञ्चमे ऽहनि । कलेवरं हास्यति स्वं तच् च भस्मीभविष्यति ॥ 57 ॥

श्लोक 1.13.58

दह्यमाने ऽग्निभिर्देहे पत्युः पत्नी सहोटजे । बहिः स्थिता पतिं साध्वी तम् अग्निम् अनु वेक्ष्यति ॥ 58 ॥

श्लोक 1.13.59

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन । हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥ 59 ॥

श्लोक 1.13.60

इत्युक्त्वाथारुहत् स्वर्गं नारदः सहतुम्बुरुः । युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच् छुचः ॥ 60 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ