मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 14

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.14.1

सम्प्रस्थिते द्वारकायांजिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ 1 ॥

श्लोक 1.14.2

व्यतीताः कतिचिन् मासास्तदा नायात् ततो ऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ 2 ॥

श्लोक 1.14.3

कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ 3 ॥

श्लोक 1.14.4

जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्कनम् ॥ 4 ॥

श्लोक 1.14.5

निमित्तान्यत्यरिष्टानि काले त्वनुगते नृणाम् । लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ 5 ॥

श्लोक 1.14.6

सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् । ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ 6 ॥

श्लोक 1.14.7

गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोर्नाहं वेदेदम् अञ्जसा ॥ 7 ॥

श्लोक 1.14.8

अपि देवर्षिणादिष्टः स कालो ऽयम् उपस्थितः । यदात्मनो ऽङ्गम् आक्रीडं भगवान् उत्सिसृक्षति ॥ 8 ॥

श्लोक 1.14.9

यस्मान् नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ 9 ॥

श्लोक 1.14.10

पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान् शंसतो ऽदूराद्भयं नो बुद्धिमोहनम् ॥ 10 ॥

श्लोक 1.14.11

ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः । वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ 11 ॥

श्लोक 1.14.12

शिवैषोद्यन्तम् आदित्यम् अभिरौत्यनलानना । माम् अङ्ग सारमेयो ऽयम् अभिरेभत्यभीरुवत् ॥ 12 ॥

श्लोक 1.14.13

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवो ऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ 13 ॥

श्लोक 1.14.14

मृत्युदूतः कपोतो ऽयम् उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैर्विश्वं वै शून्यम् इच्छतः ॥ 14 ॥

श्लोक 1.14.15

धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ॥ 15 ॥

श्लोक 1.14.16

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सम् इव सर्वतः ॥ 16 ॥

श्लोक 1.14.17

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्कुलैर्भूतगणैर्ज्वलिते इव रोदसी ॥ 17 ॥

श्लोक 1.14.18

नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालो ऽयं किं विधास्यति ॥ 18 ॥

श्लोक 1.14.19

न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ॥ 19 ॥

श्लोक 1.14.20

दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किम् अघं दर्शयन्ति नः ॥ 20 ॥

श्लोक 1.14.21

मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिर्हीना भूर्हतसौभगा ॥ 21 ॥

श्लोक 1.14.22

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद्ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ 22 ॥

श्लोक 1.14.23

तं पादयोर्निपतितम् अयथापूर्वम् आतुरम् । अधोवदनम् अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ 23 ॥

श्लोक 1.14.24

विलोक्योद्विग्नहृदयो विच्छायम् अनुजं नृपः । पृच्छति स्म सुहृन् मध्ये संस्मरन् नारदेरितम् ॥ 24 ॥

श्लोक 1.14.25

कच्चिदानर्तपुर्यां नः स्वजनाः सुखम् आसते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ 25 ॥

श्लोक 1.14.26

शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ 26 ॥

श्लोक 1.14.27

सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः । आसते सस्नुषाः क्षेमंदेवकीप्रमुखाः स्वयम् ॥ 27 ॥

श्लोक 1.14.28

कच्चिद्राजाहुको जीवत्यसत्पुत्रो ऽस्य चानुजः । हृदीकः ससुतो ऽक्रूरो जयन्तगदसारणाः ॥ 28 ॥

श्लोक 1.14.29

आसते कुशलं कच्चिद्ये च शत्रुजिदादयः । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ 29 ॥

श्लोक 1.14.30

प्रद्युम्नः सर्ववृष्णीनां सुखम् आस्ते महारथः । गम्भीररयो ऽनिरुद्धो वर्धते भगवान् उत ॥ 30 ॥

श्लोक 1.14.31

सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ 31 ॥

श्लोक 1.14.32

तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ 32 ॥

श्लोक 1.14.33

अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः । अपि स्मरन्ति कुशलम् अस्माकं बद्धसौहृदाः ॥ 33 ॥

श्लोक 1.14.34

भगवान् अपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित् पुरे सुधर्मायां सुखम् आस्ते सुहृद्वृतः ॥ 34 ॥

श्लोक 1.14.35

मङ्गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधावाद्यो ऽनन्तसखः पुमान् ॥ 35 ॥

श्लोक 1.14.36

यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवो ऽर्चिताः । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ 36 ॥

श्लोक 1.14.37

यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः । निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥ 37 ॥

श्लोक 1.14.38

यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः । अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ 38 ॥

श्लोक 1.14.39

कच्चित् ते ऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानो ऽवज्ञातः किं वा तात चिरोषितः ॥ 39 ॥

श्लोक 1.14.40

कच्चिन् नाभिहतो ऽभावैः शब्दादिभिरमङ्गलैः । न दत्तम् उक्तम् अर्थिभ्य आशया यत् प्रतिश्रुतम् ॥ 40 ॥

श्लोक 1.14.41

कच्चित् त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ 41 ॥

श्लोक 1.14.42

कच्चित् त्वं नागमो ऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ 42 ॥

श्लोक 1.14.43

अपि स्वित् पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित् कृतवान् न यदक्षमम् ॥ 43 ॥

श्लोक 1.14.44

कच्चित् प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्यो ऽस्मि रहितो नित्यं मन्यसे ते ऽन्यथा न रुक् ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ