मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 15

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.15.1

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः । नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ 1 ॥

श्लोक 1.15.2

शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः । विभुं तम् एवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ॥ 2 ॥

श्लोक 1.15.3

कृच्छ्रेण संस्तभ्य शुचः पाणिनामृज्य नेत्रयोः । परोक्षेण समुन्नद्ध प्रणयौत्कण्ठ्यकातरः ॥ 3 ॥

श्लोक 1.15.4

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् । नृपम् अग्रजम् इत्याह बाष्पगद्गदया गिरा ॥ 4 ॥

श्लोक 1.15.5

वञ्चितो ऽहं महाराज हरिणा बन्धुरूपिणा । येन मे ऽपहृतं तेजो देवविस्मापनं महत् ॥ 5 ॥

श्लोक 1.15.6

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ 6 ॥

श्लोक 1.15.7

यत्संश्रयाद्द्रुपदगेहम् उपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा ॥ 7 ॥

श्लोक 1.15.8

यत्सन्निधावहम् उ खाण्डवम् अग्नये ऽदाम् इन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्यो ऽहरन् नृपतयो बलिम् अध्वरे ते ॥ 8 ॥

श्लोक 1.15.9

यत्तेजसा नृपशिरोऽङ्घ्रिम् अहन् मखार्थम् आर्यो ऽनुजस्तव गजायुतसत्त्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिम् अध्वरे ते ॥ 9 ॥

श्लोक 1.15.10

पत्न्यास्तवाधिमखकॢप्तमहाभिषेक श्लाघिष्ठचारुकबरं कितवैः सभायाम् । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियो ऽकृतहतेशविमुक्तकेशाः ॥ 10 ॥

श्लोक 1.15.11

यो नो जुगोप वन एत्य दुरन्तकृच्छ्राद् दुर्वाससो ऽरिरचितादयुताग्रभुग् यः । शाकान्नशिष्टम् उपयुज्य यतस्त्रिलोकीं तृप्ताम् अमंस्त सलिले विनिमग्नसङ्घः ॥ 11 ॥

श्लोक 1.15.12

यत्तेजसाथ भगवान् युधि शूलपाणिर् विस्मापितः सगिरिजो ऽस्त्रम् अदान् निजं मे । अन्ये ऽपि चाहम् अमुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ॥ 12 ॥

श्लोक 1.15.13

तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणम् अरातिवधाय देवाः । सेन्द्राः श्रिता यदनुभावितम् आजमीढ तेनाहम् अद्य मुषितः पुरुषेण भूम्ना ॥ 13 ॥

श्लोक 1.15.14

यद्बान्धवः कुरुबलाब्धिम् अनन्तपारम् एको रथेन ततरे ऽहम् अतीर्यसत्त्वम् । प्रत्याहृतं बहु धनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः ॥ 14 ॥

श्लोक 1.15.15

यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र राजन्यवर्यरथमण्डलमण्डितासु । अग्रेचरो मम विभो रथयूथपानाम् आयुर्मनांसि च दृशा सह ओज आर्च्छत् ॥ 15 ॥

श्लोक 1.15.16

यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः । अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासम् इवासुराणि ॥ 16 ॥

श्लोक 1.15.17

सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्मम् अभवाय भजन्ति भव्याः । मां श्रान्तवाहम् अरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः ॥ 17 ॥

श्लोक 1.15.18

नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हे ऽर्जुन सखे कुरुनन्दनेति । सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ 18 ॥

श्लोक 1.15.19

शय्यासनाटनविकत्थनभोजनादिष्व् ऐक्याद्वयस्य ऋतवान् इति विप्रलब्धः । सख्युः सखेव पितृवत् तनयस्य सर्वं सेहे महान् महितया कुमतेरघं मे ॥ 19 ॥

श्लोक 1.15.20

सो ऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः । अध्वन्युरुक्रमपरिग्रहम् अङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितो ऽस्मि ॥ 20 ॥

श्लोक 1.15.21

तद्वै धनुस्त इषवः स रथो हयास्ते सो ऽहं रथी नृपतयो यत आनमन्ति । सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धम् इवोप्तम् ऊष्याम् ॥ 21 ॥

श्लोक 1.15.22

राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे । विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ॥ 22 ॥

श्लोक 1.15.23

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् । अजानताम् इवान्योन्यं चतुःपञ्चावशेषिताः ॥ 23 ॥

श्लोक 1.15.24

प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम् । मिथो निघ्नन्ति भूतानि भावयन्ति च यन् मिथः ॥ 24 ॥

श्लोक 1.15.25

जलौकसां जले यद्वन् महान्तो ऽदन्त्यणीयसः । दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ॥ 25 ॥

श्लोक 1.15.26

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः । यदून् यदुभिरन्योन्यं भूभारान् सञ्जहार ह ॥ 26 ॥

श्लोक 1.15.27

देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ 27 ॥

श्लोक 1.15.28

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् । सौहार्देनातिगाढेन शान्तासीद्विमला मतिः ॥ 28 ॥

श्लोक 1.15.29

वासुदेवाङ्घ्र्यनुध्यान परिबृंहितरंहसा । भक्त्या निर्मथिताशेष कषायधिषणो ऽर्जुनः ॥ 29 ॥

श्लोक 1.15.30

गीतं भगवता ज्ञानं यत् तत् सङ्ग्राममूर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमत् प्रभुः ॥ 30 ॥

श्लोक 1.15.31

विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ॥ 31 ॥

श्लोक 1.15.32

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभृतात्मा युधिष्ठिरः ॥ 32 ॥

श्लोक 1.15.33

पृथाप्यनुश्रुत्य धनञ्जयोदितं नाशं यदूनां भगवद्गतिं च ताम् । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपरराम संसृतेः ॥ 33 ॥

श्लोक 1.15.34

ययाहरद्भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितुः समम् ॥ 34 ॥

श्लोक 1.15.35

यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः । भूभारः क्षपितो येनजहौ तच् च कलेवरम् ॥ 35 ॥

श्लोक 1.15.36

यदा मुकुन्दो भगवान् इमां महीं जहौ स्वतन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसाम् अभद्रहेतुः कलिरन्ववर्तत ॥ 36 ॥

श्लोक 1.15.37

युधिष्ठिरस्तत् परिसर्पणं बुधः पुरे च राष्ट्रे च गृहे तथात्मनि । विभाव्य लोभानृतजिह्महिंसनाद्यधर्मचक्रं गमनाय पर्यधात् ॥ 37 ॥

श्लोक 1.15.38

स्वराट् पौत्रं विनयिनम् आत्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिञ्चद्गजाह्वये ॥ 38 ॥

श्लोक 1.15.39

मथुरायां तथा वज्रं शूरसेनपतिं ततः । प्राजापत्यां निरूप्येष्टिम् अग्नीन् अपिबदीश्वरः ॥ 39 ॥

श्लोक 1.15.40

विसृज्य तत्र तत् सर्वं दुकूलवलयादिकम् । निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः ॥ 40 ॥

श्लोक 1.15.41

वाचं जुहाव मनसि तत् प्राण इतरे च तम् । मृत्यावपानं सोत्सर्गं तं पञ्चत्वे ह्यजोहवीत् ॥ 41 ॥

श्लोक 1.15.42

त्रित्वे हुत्वा च पञ्चत्वं तच् चैकत्वे ञ्जुहोन् मुनिः । सर्वम् आत्मन्यजुहवीद्ब्रह्मण्यात्मानम् अव्यये ॥ 42 ॥

श्लोक 1.15.43

चीरवासा निराहारो बद्धवाङ् मुक्तमूर्धजः । दर्शयन्न् आत्मनो रूपं जडोन्मत्तपिशाचवत् ॥ 43 ॥

श्लोक 1.15.44

अनवेक्षमाणो निरगादशृण्वन् बधिरो यथा । उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः । हृदि ब्रह्म परं ध्यायन् नावर्तेत यतो गतः ॥ 44 ॥

श्लोक 1.15.45

सर्वे तम् अनुनिर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ 45 ॥

श्लोक 1.15.46

ते साधुकृतसर्वार्था ज्ञात्वात्यन्तिकम् आत्मनः । मनसा धारयाम् आसुर्वैकुण्ठचरणाम्बुजम् ॥ 46 ॥

श्लोक 1.15.47

तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे । तस्मिन् नारायणपदे एकान्तमतयो गतिम् ॥ 47 ॥

श्लोक 1.15.48

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विधूतकल्मषा स्थानं विरजेनात्मनैव हि ॥ 48 ॥

श्लोक 1.15.49

विदुरो ऽपि परित्यज्य प्रभासे देहम् आत्मनः । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥ 49 ॥

श्लोक 1.15.50

द्रौपदी च तदाज्ञाय पतीनाम् अनपेक्षताम् । वासुदेवे भगवति ह्येकान्तमतिराप तम् ॥ 50 ॥

श्लोक 1.15.51

यः श्रद्धयैतद्भगवत्प्रियाणां पाण्डोः सुतानाम् इति सम्प्रयाणम् । शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिम् उपैति सिद्धिम् ॥ 51 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ