मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 16

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.16.1

ततः परीक्षिद्द्विजवर्यशिक्षया महीं महाभागवतः शशास ह । यथा हि सूत्याम् अभिजातकोविदाः समादिशन् विप्र महद्गुणस्तथा ॥ 1 ॥

श्लोक 1.16.2

स उत्तरस्य तनयाम् उपयेम इरावतीम् । जनमेजयादींश्चतुरस्तस्याम् उत्पादयत् सुतान् ॥ 2 ॥

श्लोक 1.16.3

आजहाराश्वमेधांस्त्रीन् गङ्गायां भूरिदक्षिणान् । शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ 3 ॥

श्लोक 1.16.4

निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् । नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ 4 ॥

श्लोक 1.16.5

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः । नृदेवचिह्नधृक् शूद्र को ऽसौ गां यः पदाहनत् । तत् कथ्यतां महाभाग यदि कृष्णकथाश्रयम् ॥ 5 ॥

श्लोक 1.16.6

अथवास्य पदाम्भोज मकरन्दलिहां सताम् । किम् अन्यैरसदालापैरायुषो यदसद्व्ययः ॥ 6 ॥

श्लोक 1.16.7

क्षुद्रायुषां नृणाम् अङ्ग मर्त्यानाम् ऋतम् इच्छताम् । इहोपहूतो भगवान् मृत्युः शामित्रकर्मणि ॥ 7 ॥

श्लोक 1.16.8

न कश्चिन् म्रियते तावद्यावदास्त इहान्तकः । एतदर्थं हि भगवान् आहूतः परमर्षिभिः । अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ 8 ॥

श्लोक 1.16.9

मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै । निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः ॥ 9 ॥

श्लोक 1.16.10

यदा परीक्षित् कुरुजाङ्गले ऽवसत् कलिं प्रविष्टं निजचक्रवर्तिते । निशम्य वार्ताम् अनतिप्रियां ततः शरासनं संयुगशौण्डिराददे ॥ 10 ॥

श्लोक 1.16.11

स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजम् आश्रितः पुरात् । वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥ 11 ॥

श्लोक 1.16.12

भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून् । किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ॥ 12 ॥

श्लोक 1.16.13

नगरांश्च वनांश्चैव नदीश्च विमलोदकाः । पुरुषान् देवकल्पांश्च नारीश्च प्रियदर्शनाः ॥ 13 ॥

श्लोक 1.16.14

अदृष्टपूर्वान् सुभगान् स ददर्श धनञ्जयः । सदनानि च शुभ्राणि नारीश्चाप्सरसां निभाः ॥ 14 ॥

श्लोक 1.16.15

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् । प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम् ॥ 15 ॥

श्लोक 1.16.16

आत्मानं च परित्रातम् अश्वत्थाम्नो ऽस्त्रतेजसः । स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ॥ 16 ॥

श्लोक 1.16.17

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः । महाधनानि वासांसि ददौ हारान् महामनाः ॥ 17 ॥

श्लोक 1.16.18

सारथ्यपारषदसेवनसख्यदौत्य वीरासनानुगमनस्तवनप्रणामान् &अम्प्; स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर् भक्तिं करोति नृपतिश्चरणारविन्दे ॥ 18 ॥

श्लोक 1.16.19

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिम् अन्वहम् । नातिदूरे किलाश्चर्यं यदासीत् तन् निबोध मे ॥ 19 ॥

श्लोक 1.16.20

धर्मः पदैकेन चरन् विच्छायाम् उपलभ्य गाम् । पृच्छति स्माश्रुवदनां विवत्साम् इव मातरम् ॥ 20 ॥

श्लोक 1.16.21

कच्चिद्भद्रे ऽनामयम् आत्मनस्ते विच्छायासि म्लायतेषन् मुखेन । आलक्षये भवतीम् अन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब ॥ 21 ॥

श्लोक 1.16.22

पादैर्न्यूनं शोचसि मैकपादम् आत्मानं वा वृषलैर्भोक्ष्यमाणम् । आहो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन् मघवत्यवर्षति ॥ 22 ॥

श्लोक 1.16.23

अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान् । वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ॥ 23 ॥

श्लोक 1.16.24

किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि । इतस्ततो वाशनपानवासः स्नानव्यवायोन्मुखजीवलोकम् ॥ 24 ॥

श्लोक 1.16.25

यद्वाम्ब ते भूरिभरावतार कृतावतारस्य हरेर्धरित्रि । अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ॥ 25 ॥

श्लोक 1.16.26

इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि । कालेन वा ते बलिनां बलीयसा सुरार्चितं किं हृतम् अम्ब सौभगम् ॥ 26 ॥

श्लोक 1.16.27

भवान् हि वेद तत् सर्वं यन् मां धर्मानुपृच्छसि । चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः ॥ 27 ॥

श्लोक 1.16.28

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ 28 ॥

श्लोक 1.16.29

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवम् एव च ॥ 29 ॥

श्लोक 1.16.30

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यम् आस्तिक्यं कीर्तिर्मानो ऽनहङ्कृतिः ॥ 30 ॥

श्लोक 1.16.31

एते चान्ये च भगवन् नित्या यत्र महागुणाः । प्रार्थ्या महत्त्वम् इच्छद्भिर्न वियन्ति स्म कर्हिचित् ॥ 31 ॥

श्लोक 1.16.32

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् । शोचामि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ 32 ॥

श्लोक 1.16.33

आत्मानं चानुशोचामि भवन्तं चामरोत्तमम् । देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णांस्तथाश्रमान् ॥ 33 ॥

श्लोक 1.16.34

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष कामास्तपः समचरन् भगवत्प्रपन्नाः &अम्प्; सा श्रीः स्ववासम् अरविन्दवनं विहाय यत्पादसौभगम् अलं भजते ऽनुरक्ता ॥ 34 ॥

श्लोक 1.16.35

तस्याहम् अब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी । त्रीन् अत्यरोच उपलभ्य ततो विभूतिं लोकान् स मां व्यसृजदुत्स्मयतीं तदन्ते ॥ 35 ॥

श्लोक 1.16.36

यो वै ममातिभरम् आसुरवंशराज्ञाम् अक्षौहिणीशतम् अपानुददात्मतन्त्रः । त्वां दुःस्थम् ऊनपदम् आत्मनि पौरुषेण सम्पादयन् यदुषु रम्यम् अबिभ्रदङ्गम् ॥ 36 ॥

श्लोक 1.16.37

का वा सहेत विरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः । स्थैर्यं समानम् अहरन् मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ 37 ॥

श्लोक 1.16.38

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा । परीक्षिन् नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ 38 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ