श्रीमद्भागवत प्रथम स्कन्ध अध्याय 17
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.17.1
तत्र गोमिथुनं राजा हन्यमानम् अनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ 1 ॥
श्लोक 1.17.2
वृषं मृणालधवलं मेहन्तम् इव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ 2 ॥
श्लोक 1.17.3
गां च धर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्साम् आश्रुवदनां क्षामां यवसम् इच्छतीम् ॥ 3 ॥
श्लोक 1.17.4
पप्रच्छ रथम् आरूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ 4 ॥
श्लोक 1.17.5
कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवो ऽसि वेषेण नटवत् कर्मणाद्विजः ॥ 5 ॥
श्लोक 1.17.6
यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्यो ऽस्यशोच्यान् रहसि प्रहरन् वधम् अर्हसि ॥ 6 ॥
श्लोक 1.17.7
त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् । वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ 7 ॥
श्लोक 1.17.8
न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतले ऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ 8 ॥
श्लोक 1.17.9
मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ 9 ॥
श्लोक 1.17.10
यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ 10 ॥
श्लोक 1.17.11
एष राज्ञां परो धर्मो ह्यार्तानाम् आर्तिनिग्रहः । अत एनं वधिष्यामि भूतद्रुहम् असत्तमम् ॥ 11 ॥
श्लोक 1.17.12
को ऽवृश्चत् तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ 12 ॥
श्लोक 1.17.13
आख्याहि वृष भद्रं वः साधूनाम् अकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ 13 ॥
श्लोक 1.17.14
जने ऽनागस्यघं युञ्जन् सर्वतो ऽस्य च मद्भयम् । साधूनां भद्रम् एव स्यादसाधुदमने कृते ॥ 14 ॥
श्लोक 1.17.15
अनागःस्विह भूतेषु य आगस्कृन् निरङ्कुशः । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ 15 ॥
श्लोक 1.17.16
राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् । शासतो ऽन्यान् यथाशास्त्रम् अनापद्युत्पथान् इह ॥ 16 ॥
श्लोक 1.17.17
एतद्वः पाण्डवेयानां युक्तम् आर्ताभयं वचः । येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ 17 ॥
श्लोक 1.17.18
न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ 18 ॥
श्लोक 1.17.19
केचिद्विकल्पवसना आहुरात्मानम् आत्मनः । दैवम् अन्ये ऽपरे कर्म स्वभावम् अपरे प्रभुम् ॥ 19 ॥
श्लोक 1.17.20
अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ 20 ॥
श्लोक 1.17.21
एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः । समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ 21 ॥
श्लोक 1.17.22
धर्मं ब्रवीषि धर्मज्ञ धर्मो ऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ 22 ॥
श्लोक 1.17.23
अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानाम् इति निश्चयः ॥ 23 ॥
श्लोक 1.17.24
तपः शौचं दया सत्यम् इति पादाः कृते कृताः । अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ 24 ॥
श्लोक 1.17.25
इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः । तं जिघृक्षत्यधर्मो ऽयम् अनृतेनैधितः कलिः ॥ 25 ॥
श्लोक 1.17.26
इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ 26 ॥
श्लोक 1.17.27
शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति माम् इति ॥ 27 ॥
श्लोक 1.17.28
इति धर्मं महीं चैव सान्त्वयित्वा महारथः । निशातम् आददे खड्गं कलये ऽधर्महेतवे ॥ 28 ॥
श्लोक 1.17.29
तं जिघांसुम् अभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ 29 ॥
श्लोक 1.17.30
पतितं पादयोर्वीरः कृपया दीनवत्सलः । शरण्यो नावधीच् छ्लोक्य आह चेदं हसन्न् इव ॥ 30 ॥
श्लोक 1.17.31
न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयम् अस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वम् अधर्मबन्धुः ॥ 31 ॥
श्लोक 1.17.32
त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तो ऽयम् अधर्मपूगः । लोभो ऽनृतं चौर्यम् अनार्यम् अंहो ज्येष्ठा च माया कलहश्च दम्भः ॥ 32 ॥
श्लोक 1.17.33
न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ 33 ॥
श्लोक 1.17.34
यस्मिन् हरिर्भगवान् इज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामान् अमोघान् स्थिरजङ्गमानाम् अन्तर्बहिर्वायुरिवैष आत्मा ॥ 34 ॥
श्लोक 1.17.35
परीक्षितैवम् आदिष्टः स कलिर्जातवेपथुः । तम् उद्यतासिम् आहेदं दण्डपाणिम् इवोद्यतम् ॥ 35 ॥
श्लोक 1.17.36
यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वाम् आत्तेषुशरासनम् ॥ 36 ॥
श्लोक 1.17.37
तन् मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुम् अर्हसि । यत्रैव नियतो वत्स्य आतिष्ठंस्ते ऽनुशासनम् ॥ 37 ॥
श्लोक 1.17.38
अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ 38 ॥
श्लोक 1.17.39
पुनश्च याचमानाय जातरूपम् अदात् प्रभुः । ततो ऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ 39 ॥
श्लोक 1.17.40
अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत् तन्निदेशकृत् ॥ 40 ॥
श्लोक 1.17.41
अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ 41 ॥
श्लोक 1.17.42
वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयाम् इति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ 42 ॥
श्लोक 1.17.43
स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ 43 ॥
श्लोक 1.17.44
आस्ते ऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ 44 ॥
श्लोक 1.17.45
इत्थम्भूतानुभावो ऽयम् अभिमन्युसुतो नृपः । यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥ 45 ॥