मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 4

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.4.1

इति ब्रुवाणं संस्तूय मुनीनां दीर्घसत्रिणाम् । वृद्धः कुलपतिः सूतं बह्वृचः शौनको ऽब्रवीत् ॥ 1 ॥

श्लोक 1.4.2

सूत सूत महाभाग वद नो वदतां वर । कथां भागवतीं पुण्यां यदाह भगवाञ् छुकः ॥ 2 ॥

श्लोक 1.4.3

कस्मिन् युगे प्रवृत्तेयं स्थाने वा केन हेतुना । कुतः सञ्चोदितः कृष्णः कृतवान् संहितां मुनिः ॥ 3 ॥

श्लोक 1.4.4

तस्य पुत्रो महायोगी समदृङ् निर्विकल्पकः । एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते ॥ 4 ॥

श्लोक 1.4.5

दृष्ट्वानुयान्तम् ऋषिम् आत्मजम् अप्यनग्नं देव्यो ह्रिया परिदधुर्न सुतस्य चित्रम् । तद्वीक्ष्य पृच्छति मुनौ जगदुस्तवास्ति स्त्रीपुम्भिदा न तु सुतस्य विविक्तदृष्टेः ॥ 5 ॥

श्लोक 1.4.6

कथम् आलक्षितः पौरैः सम्प्राप्तः कुरुजाङ्गलान् । उन्मत्तमूकजडवद्विचरन् गजसाह्वये ॥ 6 ॥

श्लोक 1.4.7

कथं वा पाण्डवेयस्य राजर्षेर्मुनिना सह । संवादः समभूत् तात यत्रैषा सात्वती श्रुतिः ॥ 7 ॥

श्लोक 1.4.8

स गोदोहनमात्रं हि गृहेषु गृहमेधिनाम् । अवेक्षते महाभागस्तीर्थीकुर्वंस्तदाश्रमम् ॥ 8 ॥

श्लोक 1.4.9

अभिमन्युसुतं सूत प्राहुर्भागवतोत्तमम् । तस्य जन्म महाश्चर्यं कर्माणि च गृणीहि नः ॥ 9 ॥

श्लोक 1.4.10

स सम्राट् कस्य वा हेतोः पाण्डूनां मानवर्धनः । प्रायोपविष्टो गङ्गायाम् अनादृत्याधिराट्श्रियम् ॥ 10 ॥

श्लोक 1.4.11

नमन्ति यत्पादनिकेतम् आत्मनः शिवाय हानीय धनानि शत्रवः । कथं स वीरः श्रियम् अङ्ग दुस्त्यजां युवैषतोत्स्रष्टुम् अहो सहासुभिः ॥ 11 ॥

श्लोक 1.4.12

शिवाय लोकस्य भवाय भूतये य उत्तमश्लोकपरायणा जनाः । जीवन्ति नात्मार्थम् असौ पराश्रयं मुमोच निर्विद्य कुतः कलेवरम् ॥ 12 ॥

श्लोक 1.4.13

तत् सर्वं नः समाचक्ष्व पृष्टो यदिह किञ्चन । मन्ये त्वां विषये वाचां स्नातम् अन्यत्र छान्दसात् ॥ 13 ॥

श्लोक 1.4.14

द्वापरे समनुप्राप्ते तृतीये युगपर्यये । जातः पराशराद्योगी वासव्यां कलया हरेः ॥ 14 ॥

श्लोक 1.4.15

स कदाचित् सरस्वत्या उपस्पृश्य जलं शुचिः । विविक्त एक आसीन उदिते रविमण्डले ॥ 15 ॥

श्लोक 1.4.16

परावरज्ञः स ऋषिः कालेनाव्यक्तरंहसा । युगधर्मव्यतिकरं प्राप्तं भुवि युगे युगे ॥ 16 ॥

श्लोक 1.4.17

भौतिकानां च भावानां शक्तिह्रासं च तत्कृतम् । अश्रद्दधानान् निःसत्त्वान् दुर्मेधान् ह्रसितायुषः ॥ 17 ॥

श्लोक 1.4.18

दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुषा । सर्ववर्णाश्रमाणां यद्दध्यौ हितम् अमोघदृक् ॥ 18 ॥

श्लोक 1.4.19

चातुर्होत्रं कर्म शुद्धं प्रजानां वीक्ष्य वैदिकम् । व्यदधाद्यज्ञसन्तत्यै वेदम् एकं चतुर्विधम् ॥ 19 ॥

श्लोक 1.4.20

ऋग्यजुःसामाथर्वाख्या वेदाश्चत्वार उद्धृताः । इतिहासपुराणं च पञ्चमो वेद उच्यते ॥ 20 ॥

श्लोक 1.4.21

तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एवैको निष्णातो यजुषाम् उत ॥ 21 ॥

श्लोक 1.4.22

अथर्वाङ्गिरसाम् आसीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥ 22 ॥

श्लोक 1.4.23

त एत ऋषयो वेदं स्वं स्वं व्यस्यन्न् अनेकधा । शिष्यैः प्रशिष्यैस्तच्छिष्यैर्वेदास्ते शाखिनो ऽभवन् ॥ 23 ॥

श्लोक 1.4.24

त एव वेदा दुर्मेधैर्धार्यन्ते पुरुषैर्यथा । एवं चकार भगवान् व्यासः कृपणवत्सलः ॥ 24 ॥

श्लोक 1.4.25

स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतम् आख्यानं कृपया मुनिना कृतम् ॥ 25 ॥

श्लोक 1.4.26

एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः । सर्वात्मकेनापि यदा नातुष्यद्धृदयं ततः ॥ 26 ॥

श्लोक 1.4.27

नातिप्रसीदद्धृदयः सरस्वत्यास्तटे शुचौ । वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ 27 ॥

श्लोक 1.4.28

धृतव्रतेन हि मया छन्दांसि गुरवो ऽग्नयः । मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ 28 ॥

श्लोक 1.4.29

भारतव्यपदेशेन ह्याम्नायार्थश्च प्रदर्शितः । दृश्यते यत्र धर्मादि स्त्रीशूद्रादिभिरप्युत ॥ 29 ॥

श्लोक 1.4.30

तथापि बत मे दैह्यो ह्यात्मा चैवात्मना विभुः । असम्पन्न इवाभाति ब्रह्मवर्चस्य सत्तमः ॥ 30 ॥

श्लोक 1.4.31

किं वा भागवता धर्मा न प्रायेण निरूपिताः । प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ 31 ॥

श्लोक 1.4.32

तस्यैवं खिलम् आत्मानं मन्यमानस्य खिद्यतः । कृष्णस्य नारदो ऽभ्यागादाश्रमं प्राग् उदाहृतम् ॥ 32 ॥

श्लोक 1.4.33

तम् अभिज्ञाय सहसा प्रत्युत्थायागतं मुनिः । पूजयाम् आस विधिवन् नारदं सुरपूजितम् ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ