श्रीमद्भागवत प्रथम स्कन्ध अध्याय 5
श्रीमद्भागवत प्रथम स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 1.5.1
अथ तं सुखम् आसीन उपासीनं बृहच्छ्रवाः । देवर्षिः प्राह विप्रर्षिं वीणापाणिः स्मयन्न् इव ॥ 1 ॥
श्लोक 1.5.2
पाराशर्य महाभाग भवतः कच्चिदात्मना । परितुष्यति शारीर आत्मा मानस एव वा ॥ 2 ॥
श्लोक 1.5.3
जिज्ञासितं सुसम्पन्नम् अपि ते महदद्भुतम् । कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ 3 ॥
श्लोक 1.5.4
जिज्ञासितम् अधीतं च ब्रह्म यत् तत् सनातनम् । तथापि शोचस्यात्मानम् अकृतार्थ इव प्रभो ॥ 4 ॥
श्लोक 1.5.5
अस्त्येव मे सर्वम् इदं त्वयोक्तं तथापि नात्मा परितुष्यते मे । तन्मूलम् अव्यक्तम् अगाधबोधं पृच्छामहे त्वात्मभवात्मभूतम् ॥ 5 ॥
श्लोक 1.5.6
स वै भवान् वेद समस्तगुह्यम् उपासितो यत् पुरुषः पुराणः । परावरेशो मनसैव विश्वं सृजत्यवत्यत्ति गुणैरसङ्गः ॥ 6 ॥
श्लोक 1.5.7
त्वं पर्यटन्न् अर्क इव त्रिलोकीम् अन्तश्चरो वायुरिवात्मसाक्षी । परावरे ब्रह्मणि धर्मतो व्रतैः स्नातस्य मे न्यूनम् अलं विचक्ष्व ॥ 7 ॥
श्लोक 1.5.8
भवतानुदितप्रायं यशो भगवतो ऽमलम् । येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ 8 ॥
श्लोक 1.5.9
यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिताः । न तथा वासुदेवस्य महिमा ह्यनुवर्णितः ॥ 9 ॥
श्लोक 1.5.10
न यद्वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगृणीत कर्हिचित् । तद्वायसं तीर्थम् उशन्ति मानसा न यत्र हंसा निरमन्त्युशिक्क्षयाः ॥ 10 ॥
श्लोक 1.5.11
तद्वाग्विसर्गो जनताघविप्लवो यस्मिन् प्रतिश्लोकम् अबद्धवत्यपि । नामान्यनन्तस्य यशो ऽङ्कितानि यत् शृण्वन्ति गायन्ति गृणन्ति साधवः ॥ 11 ॥
श्लोक 1.5.12
नैष्कर्म्यम् अप्यच्युतभाववर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् । कुतः पुनः शश्वदभद्रम् ईश्वरे न चार्पितं कर्म यदप्यकारणम् ॥ 12 ॥
श्लोक 1.5.13
अथो महाभाग भवान् अमोघदृक् शुचिश्रवाः सत्यरतो धृतव्रतः । उरुक्रमस्याखिलबन्धमुक्तये समाधिनानुस्मर तद्विचेष्टितम् ॥ 13 ॥
श्लोक 1.5.14
ततो ऽन्यथा किञ्चन यद्विवक्षतः पृथग् दृशस्तत्कृतरूपनामभिः । न कर्हिचित् क्वापि च दुःस्थिता मतिर् लभेत वाताहतनौरिवास्पदम् ॥ 14 ॥
श्लोक 1.5.15
जुगुप्सितं धर्मकृते ऽनुशासतः स्वभावरक्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जनः ॥ 15 ॥
श्लोक 1.5.16
विचक्षणो ऽस्यार्हति वेदितुं विभोर् अनन्तपारस्य निवृत्तितः सुखम् । प्रवर्तमानस्य गुणैरनात्मनस् ततो भवान् दर्शय चेष्टितं विभोः ॥ 16 ॥
श्लोक 1.5.17
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वो ऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूदमुष्य किं को वार्थ आप्तो ऽभजतां स्वधर्मतः ॥ 17 ॥
श्लोक 1.5.18
तस्यैव हेतोः प्रयतेत कोविदो न लभ्यते यद्भ्रमताम् उपर्यधः । तल् लभ्यते दुःखवदन्यतः सुखं कालेन सर्वत्र गभीररंहसा ॥ 18 ॥
श्लोक 1.5.19
न वै जनो जातु कथञ्चनाव्रजेन् मुकुन्दसेव्यन्यवदङ्ग संसृतिम् । स्मरन् मुकुन्दाङ्घ्र्युपगूहनं पुनर् विहातुम् इच्छेन् न रसग्रहो जनः ॥ 19 ॥
श्लोक 1.5.20
इदं हि विश्वं भगवान् इवेतरो यतो जगत्स्थाननिरोधसम्भवाः । तद्धि स्वयं वेद भवांस्तथापि ते प्रादेशमात्रं भवतः प्रदर्शितम् ॥ 20 ॥
श्लोक 1.5.21
त्वम् आत्मनात्मानम् अवेह्यमोघदृक् परस्य पुंसः परमात्मनः कलाम् । अजं प्रजातं जगतः शिवाय तन् महानुभावाभ्युदयो ऽधिगण्यताम् ॥ 21 ॥
श्लोक 1.5.22
इदं हि पुंसस्तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोः । अविच्युतो ऽर्थः कविभिर्निरूपितो यदुत्तमश्लोकगुणानुवर्णनम् ॥ 22 ॥
श्लोक 1.5.23
अहं पुरातीतभवे ऽभवं मुने दास्यास्तु कस्याश्चन वेदवादिनाम् । निरूपितो बालक एव योगिनां शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ 23 ॥
श्लोक 1.5.24
ते मय्यपेताखिलचापले ऽर्भके दान्ते ऽधृतक्रीडनके ऽनुवर्तिनि । चक्रुः कृपां यद्यपि तुल्यदर्शनाः शुश्रूषमाणे मुनयो ऽल्पभाषिणि ॥ 24 ॥
श्लोक 1.5.25
उच्छिष्टलेपान् अनुमोदितो द्विजैः सकृत् स्म भुञ्जे तदपास्तकिल्बिषः । एवं प्रवृत्तस्य विशुद्धचेतसस् तद्धर्म एवात्मरुचिः प्रजायते ॥ 25 ॥
श्लोक 1.5.26
तत्रान्वहं कृष्णकथाः प्रगायताम् अनुग्रहेणाशृणवं मनोहराः । ताः श्रद्धया मे ऽनुपदं विशृण्वतः प्रियश्रवस्यङ्ग ममाभवद्रुचिः ॥ 26 ॥
श्लोक 1.5.27
तस्मिंस्तदा लब्धरुचेर्महामते प्रियश्रवस्यस्खलिता मतिर्मम । ययाहम् एतत् सदसत् स्वमायया पश्ये मयि ब्रह्मणि कल्पितं परे ॥ 27 ॥
श्लोक 1.5.28
इत्थं शरत्प्रावृषिकावृतू हरेर् विशृण्वतो मे ऽनुसवं यशो ऽमलम् । सङ्कीर्त्यमानं मुनिभिर्महात्मभिर् भक्तिः प्रवृत्तात्मरजस्तमोपहा ॥ 28 ॥
श्लोक 1.5.29
तस्यैवं मे ऽनुरक्तस्य प्रश्रितस्य हतैनसः । श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ 29 ॥
श्लोक 1.5.30
ज्ञानं गुह्यतमं यत् तत् साक्षाद्भगवतोदितम् । अन्ववोचन् गमिष्यन्तः कृपया दीनवत्सलाः ॥ 30 ॥
श्लोक 1.5.31
येनैवाहं भगवतो वासुदेवस्य वेधसः । मायानुभावम् अविदं येन गच्छन्ति तत्पदम् ॥ 31 ॥
श्लोक 1.5.32
एतत् संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् । यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ 32 ॥
श्लोक 1.5.33
आमयो यश्च भूतानां जायते येन सुव्रत । तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ 33 ॥
श्लोक 1.5.34
एवं नृणां क्रियायोगाः सर्वे संसृतिहेतवः । त एवात्मविनाशाय कल्पन्ते कल्पिताः परे ॥ 34 ॥
श्लोक 1.5.35
यदत्र क्रियते कर्म भगवत्परितोषणम् । ज्ञानं यत् तदधीनं हि भक्तियोगसमन्वितम् ॥ 35 ॥
श्लोक 1.5.36
कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् । गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ 36 ॥
श्लोक 1.5.37
ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्कर्षणाय च ॥ 37 ॥
श्लोक 1.5.38
इति मूर्त्यभिधानेन मन्त्रमूर्तिम् अमूर्तिकम् । यजते यज्ञपुरुषं स सम्यग् दर्शनः पुमान् ॥ 38 ॥
श्लोक 1.5.39
इमं स्वनिगमं ब्रह्मन्न् अवेत्य मदनुष्ठितम् । अदान् मे ज्ञानम् ऐश्वर्यं स्वस्मिन् भावं च केशवः ॥ 39 ॥
श्लोक 1.5.40
त्वम् अप्यदभ्रश्रुत विश्रुतं विभोः समाप्यते येन विदां बुभुत्सितम् । प्राख्याहि दुःखैर्मुहुरर्दितात्मनां सङ्क्लेशनिर्वाणम् उशन्ति नान्यथा ॥ 40 ॥