मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 6

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.6.1

एवं निशम्य भगवान् देवर्षेर्जन्म कर्म च । भूयः पप्रच्छ तं ब्रह्मन् व्यासः सत्यवतीसुतः ॥ 1 ॥

श्लोक 1.6.2

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव । वर्तमानो वयस्याद्ये ततः किम् अकरोद्भवान् ॥ 2 ॥

श्लोक 1.6.3

स्वायम्भुव कया वृत्त्या वर्तितं ते परं वयः । कथं चेदम् उदस्राक्षीः काले प्राप्ते कलेवरम् ॥ 3 ॥

श्लोक 1.6.4

प्राक्कल्पविषयाम् एतां स्मृतिं ते मुनिसत्तम । न ह्येष व्यवधात् काल एष सर्वनिराकृतिः ॥ 4 ॥

श्लोक 1.6.5

भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम । वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ 5 ॥

श्लोक 1.6.6

एकात्मजा मे जननी योषिन् मूढा च किङ्करी । मय्यात्मजे ऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ 6 ॥

श्लोक 1.6.7

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ 7 ॥

श्लोक 1.6.8

अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ॥ 8 ॥

श्लोक 1.6.9

एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि । सर्पो ऽदशत् पदा स्पृष्टः कृपणां कालचोदितः ॥ 9 ॥

श्लोक 1.6.10

तदा तदहम् ईशस्य भक्तानां शम् अभीप्सतः । अनुग्रहं मन्यमानः प्रातिष्ठं दिशम् उत्तराम् ॥ 10 ॥

श्लोक 1.6.11

स्फीताञ् जनपदांस्तत्र पुरग्रामव्रजाकरान् । खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ 11 ॥

श्लोक 1.6.12

चित्रधातुविचित्राद्रीन् इभभग्नभुजद्रुमान् । जलाशयाञ् छिवजलान् नलिनीः सुरसेविताः ॥ 12 ॥

श्लोक 1.6.13

चित्रस्वनैः पत्ररथैर्विभ्रमद्भ्रमरश्रियः । नलवेणुशरस्तन्ब कुशकीचकगह्वरम् ॥ 13 ॥

श्लोक 1.6.14

एक एवातियातो ऽहम् अद्राक्षं विपिनं महत् । घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ 14 ॥

श्लोक 1.6.15

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः । स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रमः ॥ 15 ॥

श्लोक 1.6.16

तस्मिन् निर्मनुजे ऽरण्ये पिप्पलोपस्थ आश्रितः । आत्मनात्मानम् आत्मस्थं यथाश्रुतम् अचिन्तयम् ॥ 16 ॥

श्लोक 1.6.17

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा । औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन् मे शनैर्हरिः ॥ 17 ॥

श्लोक 1.6.18

प्रेमातिभरनिर्भिन्न पुलकाङ्गो ऽतिनिर्वृतः । आनन्दसम्प्लवे लीनो नापश्यम् उभयं मुने ॥ 18 ॥

श्लोक 1.6.19

रूपं भगवतो यत् तन् मनःकान्तं शुचापहम् । अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ 19 ॥

श्लोक 1.6.20

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणो ऽपि नापश्यम् अवितृप्त इवातुरः ॥ 20 ॥

श्लोक 1.6.21

एवं यतन्तं विजने माम् आहागोचरो गिराम् । गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्न् इव ॥ 21 ॥

श्लोक 1.6.22

हन्तास्मिञ् जन्मनि भवान् मा मां द्रष्टुम् इहार्हति । अविपक्वकषायाणां दुर्दर्शो ऽहं कुयोगिनाम् ॥ 22 ॥

श्लोक 1.6.23

सकृद्यद्दर्शितं रूपम् एतत् कामाय ते ऽनघ । मत्कामः शनकैः साधु सर्वान् मुञ्चति हृच्छयान् ॥ 23 ॥

श्लोक 1.6.24

सत्सेवयादीर्घयापि जाता मयि दृढा मतिः । हित्वावद्यम् इमं लोकं गन्ता मज्जनताम् असि ॥ 24 ॥

श्लोक 1.6.25

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् । प्रजासर्गनिरोधे ऽपि स्मृतिश्च मदनुग्रहात् ॥ 25 ॥

श्लोक 1.6.26

एतावदुक्त्वोपरराम तन् महद् भूतं नभोलिङ्गम् अलिङ्गम् ईश्वरम् । अहं च तस्मै महतां महीयसे शीर्ष्णावनामं विदधे ऽनुकम्पितः ॥ 26 ॥

श्लोक 1.6.27

नामान्यनन्तस्य हतत्रपः पठन् गुह्यानि भद्राणि कृतानि च स्मरन् । गां पर्यटंस्तुष्टमना गतस्पृहः कालं प्रतीक्षन् विमदो विमत्सरः ॥ 27 ॥

श्लोक 1.6.28

एवं कृष्णमतेर्ब्रह्मन् नासक्तस्यामलात्मनः । कालः प्रादुरभूत् काले तडित् सौदामनी यथा ॥ 28 ॥

श्लोक 1.6.29

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिकः ॥ 29 ॥

श्लोक 1.6.30

कल्पान्त इदम् आदाय शयाने ऽम्भस्युदन्वतः । शिशयिषोरनुप्राणं विविशे ऽन्तरहं विभोः ॥ 30 ॥

श्लोक 1.6.31

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षतः । मरीचिमिश्रा ऋषयः प्राणेभ्यो ऽहं च जज्ञिरे ॥ 31 ॥

श्लोक 1.6.32

अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रतः । अनुग्रहान् महाविष्णोरविघातगतिः क्वचित् ॥ 32 ॥

श्लोक 1.6.33

देवदत्ताम् इमां वीणां स्वरब्रह्मविभूषिताम् । मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ 33 ॥

श्लोक 1.6.34

प्रगायतः स्ववीर्याणि तीर्थपादः प्रियश्रवाः । आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ 34 ॥

श्लोक 1.6.35

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहुः । भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ 35 ॥

श्लोक 1.6.36

यमादिभिर्योगपथैः कामलोभहतो मुहुः । मुकुन्दसेवया यद्वत् तथात्माद्धा न शाम्यति ॥ 36 ॥

श्लोक 1.6.37

सर्वं तदिदम् आख्यातं यत् पृष्टो ऽहं त्वयानघ । जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ 37 ॥

श्लोक 1.6.38

एवं सम्भाष्य भगवान् नारदो वासवीसुतम् । आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनिः ॥ 38 ॥

श्लोक 1.6.39

अहो देवर्षिर्धन्यो ऽयं यत्कीर्तिं शार्ङ्गधन्वनः । गायन् माद्यन्न् इदं तन्त्र्या रमयत्यातुरं जगत् ॥ 39 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ