मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 7

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.7.1

निर्गते नारदे सूत भगवान् बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किम् अकरोद्विभुः ॥ 1 ॥

श्लोक 1.7.2

ब्रह्मनद्यां सरस्वत्याम् आश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ॥ 2 ॥

श्लोक 1.7.3

तस्मिन् स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनो ऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ॥ 3 ॥

श्लोक 1.7.4

भक्तियोगेन मनसि सम्यक् प्रणिहिते ऽमले । अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम् ॥ 4 ॥

श्लोक 1.7.5

यया सम्मोहितो जीव आत्मानं त्रिगुणात्मकम् । परो ऽपि मनुते ऽनर्थं तत्कृतं चाभिपद्यते ॥ 5 ॥

श्लोक 1.7.6

अनर्थोपशमं साक्षाद्भक्तियोगम् अधोक्षजे । लोकस्याजानतो विद्वांश्चक्रे सात्वतसंहिताम् ॥ 6 ॥

श्लोक 1.7.7

यस्यां वै श्रूयमाणायां कृष्णे परमपूरुषे । भक्तिरुत्पद्यते पुंसः शोकमोहभयापहा ॥ 7 ॥

श्लोक 1.7.8

स संहितां भागवतीं कृत्वानुक्रम्य चात्मजम् । शुकम् अध्यापयाम् आस निवृत्तिनिरतं मुनिः ॥ 8 ॥

श्लोक 1.7.9

स वै निवृत्तिनिरतः सर्वत्रोपेक्षको मुनिः । कस्य वा बृहतीम् एताम् आत्मारामः समभ्यसत् ॥ 9 ॥

श्लोक 1.7.10

आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे । कुर्वन्त्यहैतुकीं भक्तिम् इत्थम्भूतगुणो हरिः ॥ 10 ॥

श्लोक 1.7.11

हरेर्गुणाक्षिप्तमतिर्भगवान् बादरायणिः । अध्यगान् महदाख्यानं नित्यं विष्णुजनप्रियः ॥ 11 ॥

श्लोक 1.7.12

परीक्षितो ऽथ राजर्षेर्जन्मकर्मविलापनम् । संस्थां च पाण्डुपुत्राणां वक्ष्ये कृष्णकथोदयम् ॥ 12 ॥

श्लोक 1.7.13

यदा मृधे कौरवसृञ्जयानां वीरेष्वथो वीरगतिं गतेषु । वृकोदराविद्धगदाभिमर्श भग्नोरुदण्डे धृतराष्ट्रपुत्रे ॥ 13 ॥

श्लोक 1.7.14

भर्तुः प्रियं द्रौणिरिति स्म पश्यन् कृष्णासुतानां स्वपतां शिरांसि । उपाहरद्विप्रियम् एव तस्य जुगुप्सितं कर्म विगर्हयन्ति ॥ 14 ॥

श्लोक 1.7.15

माता शिशूनां निधनं सुतानां निशम्य घोरं परितप्यमाना । तदारुदद्वाष्पकलाकुलाक्षी तां सान्त्वयन्न् आह किरीटमाली ॥ 15 ॥

श्लोक 1.7.16

तदा शुचस्ते प्रमृजामि भद्रे यद्ब्रह्मबन्धोः शिर आततायिनः । गाण्डीवमुक्तैर्विशिखैरुपाहरे त्वाक्रम्य यत् स्नास्यसि दग्धपुत्रा ॥ 16 ॥

श्लोक 1.7.17

इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः । अन्वाद्रवद्दंशित उग्रधन्वा कपिध्वजो गुरुपुत्रं रथेन ॥ 17 ॥

श्लोक 1.7.18

तम् आपतन्तं स विलक्ष्य दूरात् कुमारहोद्विग्नमना रथेन । पराद्रवत् प्राणपरीप्सुरुर्व्यां यावद्गमं रुद्रभयाद्यथा कः ॥ 18 ॥

श्लोक 1.7.19

यदाशरणम् आत्मानम् ऐक्षत श्रान्तवाजिनम् । अस्त्रं ब्रह्मशिरो मेने आत्मत्राणं द्विजात्मजः ॥ 19 ॥

श्लोक 1.7.20

अथोपस्पृश्य सलिलं सन्दधे तत् समाहितः । अजानन्न् अपि संहारं प्राणकृच्छ्र उपस्थिते ॥ 20 ॥

श्लोक 1.7.21

ततः प्रादुष्कृतं तेजः प्रचण्डं सर्वतो दिशम् । प्राणापदम् अभिप्रेक्ष्य विष्णुं जिष्णुरुवाच ह ॥ 21 ॥

श्लोक 1.7.22

कृष्ण कृष्ण महाबाहो भक्तानाम् अभयङ्कर । त्वम् एको दह्यमानानाम् अपवर्गो ऽसि संसृतेः ॥ 22 ॥

श्लोक 1.7.23

त्वम् आद्यः पुरुषः साक्षादीश्वरः प्रकृतेः परः । मायां व्युदस्य चिच्छक्त्या कैवल्ये स्थित आत्मनि ॥ 23 ॥

श्लोक 1.7.24

स एव जीवलोकस्य मायामोहितचेतसः । विधत्से स्वेन वीर्येण श्रेयो धर्मादिलक्षणम् ॥ 24 ॥

श्लोक 1.7.25

तथायं चावतारस्ते भुवो भारजिहीर्षया । स्वानां चानन्यभावानाम् अनुध्यानाय चासकृत् ॥ 25 ॥

श्लोक 1.7.26

किम् इदं स्वित् कुतो वेति देवदेव न वेद्म्यहम् । सर्वतो मुखम् आयाति तेजः परमदारुणम् ॥ 26 ॥

श्लोक 1.7.27

वेत्थेदं द्रोणपुत्रस्य ब्राह्मम् अस्त्रं प्रदर्शितम् । नैवासौ वेद संहारं प्राणबाध उपस्थिते ॥ 27 ॥

श्लोक 1.7.28

न ह्यस्यान्यतमं किञ्चिदस्त्रं प्रत्यवकर्शनम् । जह्यस्त्रतेज उन्नद्धम् अस्त्रज्ञो ह्यस्त्रतेजसा ॥ 28 ॥

श्लोक 1.7.29

श्रुत्वा भगवता प्रोक्तं फाल्गुनः परवीरहा । स्पृष्ट्वापस्तं परिक्रम्य ब्राह्मं ब्राह्मास्त्रं सन्दधे ॥ 29 ॥

श्लोक 1.7.30

संहत्यान्योन्यम् उभयोस्तेजसी शरसंवृते । आवृत्य रोदसी खं च ववृधाते ऽर्कवह्निवत् ॥ 30 ॥

श्लोक 1.7.31

दृष्ट्वास्त्रतेजस्तु तयोस्त्रील् लोकान् प्रदहन् महत् । दह्यमानाः प्रजाः सर्वाः सांवर्तकम् अमंसत ॥ 31 ॥

श्लोक 1.7.32

प्रजोपद्रवम् आलक्ष्य लोकव्यतिकरं च तम् । मतं च वासुदेवस्य सञ्जहारार्जुनो द्वयम् ॥ 32 ॥

श्लोक 1.7.33

तत आसाद्य तरसा दारुणं गौतमीसुतम् । बबन्धामर्षताम्राक्षः पशुं रशनया यथा ॥ 33 ॥

श्लोक 1.7.34

शिबिराय निनीषन्तं रज्ज्वा बद्ध्वा रिपुं बलात् । प्राहार्जुनं प्रकुपितो भगवान् अम्बुजेक्षणः ॥ 34 ॥

श्लोक 1.7.35

मैनं पार्थार्हसि त्रातुं ब्रह्मबन्धुम् इमं जहि । यो ऽसावनागसः सुप्तान् अवधीन् निशि बालकान् ॥ 35 ॥

श्लोक 1.7.36

मत्तं प्रमत्तम् उन्मत्तं सुप्तं बालं स्त्रियं जडम् । प्रपन्नं विरथं भीतं न रिपुं हन्ति धर्मवित् ॥ 36 ॥

श्लोक 1.7.37

स्वप्राणान् यः परप्राणैः प्रपुष्णात्यघृणः खलः । तद्वधस्तस्य हि श्रेयो यद्दोषाद्यात्यधः पुमान् ॥ 37 ॥

श्लोक 1.7.38

प्रतिश्रुतं च भवता पाञ्चाल्यै शृण्वतो मम । आहरिष्ये शिरस्तस्य यस्ते मानिनि पुत्रहा ॥ 38 ॥

श्लोक 1.7.39

तदसौ वध्यतां पाप आतताय्यात्मबन्धुहा । भर्तुश्च विप्रियं वीर कृतवान् कुलपांसनः ॥ 39 ॥

श्लोक 1.7.40

एवं परीक्षता धर्मं पार्थः कृष्णेन चोदितः । नैच्छद्धन्तुं गुरुसुतं यद्यप्यात्महनं महान् ॥ 40 ॥

श्लोक 1.7.41

अथोपेत्य स्वशिबिरं गोविन्दप्रियसारथिः । न्यवेदयत् तं प्रियायै शोचन्त्या आत्मजान् हतान् ॥ 41 ॥

श्लोक 1.7.42

तथाहृतं पशुवत् पाशबद्धम् अवाङ्मुखं कर्मजुगुप्सितेन । निरीक्ष्य कृष्णापकृतं गुरोः सुतं वामस्वभावा कृपया ननाम च ॥ 42 ॥

श्लोक 1.7.43

उवाच चासहन्त्यस्य बन्धनानयनं सती । मुच्यतां मुच्यताम् एष ब्राह्मणो नितरां गुरुः ॥ 43 ॥

श्लोक 1.7.44

सरहस्यो धनुर्वेदः सविसर्गोपसंयमः । अस्त्रग्रामश्च भवता शिक्षितो यदनुग्रहात् ॥ 44 ॥

श्लोक 1.7.45

स एष भगवान् द्रोणः प्रजारूपेण वर्तते । तस्यात्मनो ऽर्धं पत्न्यास्ते नान्वगाद्वीरसूः कृपी ॥ 45 ॥

श्लोक 1.7.46

तद्धर्मज्ञ महाभाग भवद्भिर्गौरवं कुलम् । वृजिनं नार्हति प्राप्तुं पूज्यं वन्द्यम् अभीक्ष्णशः ॥ 46 ॥

श्लोक 1.7.47

मा रोदीदस्य जननी गौतमी पतिदेवता । यथाहं मृतवत्सार्ता रोदिम्यश्रुमुखी मुहुः ॥ 47 ॥

श्लोक 1.7.48

यैः कोपितं ब्रह्मकुलं राजन्यैरजितात्मभिः । तत् कुलं प्रदहत्याशु सानुबन्धं शुचार्पितम् ॥ 48 ॥

श्लोक 1.7.49

धर्म्यं न्याय्यं सकरुणं निर्व्यलीकं समं महत् । राजा धर्मसुतो राज्ञ्याःप्रत्यनन्दद्वचो द्विजाः ॥ 49 ॥

श्लोक 1.7.50

नकुलः सहदेवश्च युयुधानो धनञ्जयः । भगवान् देवकीपुत्रो ये चान्ये याश्च योषितः ॥ 50 ॥

श्लोक 1.7.51

तत्राहामर्षितो भीमस्तस्य श्रेयान् वधः स्मृतः । न भर्तुर्नात्मनश्चार्थे यो ऽहन् सुप्तान् शिशून् वृथा ॥ 51 ॥

श्लोक 1.7.52

निशम्य भीमगदितं द्रौपद्याश्च चतुर्भुजः । आलोक्य वदनं सख्युरिदम् आह हसन्न् इव ॥ 52 ॥

श्लोक 1.7.53

ब्रह्मबन्धुर्न हन्तव्य आततायी वधार्हणः । मयैवोभयम् आम्नातं परिपाह्यनुशासनम् ॥ 53 ॥

श्लोक 1.7.54

कुरु प्रतिश्रुतं सत्यं यत् तत् सान्त्वयता प्रियाम् । प्रियं च भीमसेनस्य पाञ्चाल्या मह्यम् एव च ॥ 54 ॥

श्लोक 1.7.55

अर्जुनः सहसाज्ञाय हरेर्हार्दम् अथासिना । मणिं जहार मूर्धन्यं द्विजस्य सहमूर्धजम् ॥ 55 ॥

श्लोक 1.7.56

विमुच्य रशनाबद्धं बालहत्याहतप्रभम् । तेजसा मणिना हीनं शिबिरान् निरयापयत् ॥ 56 ॥

श्लोक 1.7.57

वपनं द्रविणादानं स्थानान् निर्यापणं तथा । एष हि ब्रह्मबन्धूनां वधो नान्यो ऽस्ति दैहिकः ॥ 57 ॥

श्लोक 1.7.58

पुत्रशोकातुराः सर्वे पाण्डवाः सह कृष्णया । स्वानां मृतानां यत् कृत्यं चक्रुर्निर्हरणादिकम् ॥ 58 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ