मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 8

श्रीमद्भागवत प्रथम स्कन्ध अध्याय 8 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 1.8.1

अथ ते सम्परेतानां स्वानाम् उदकम् इच्छताम् । दातुं सकृष्णा गङ्गायां पुरस्कृत्य ययुः स्त्रियः ॥ 1 ॥

श्लोक 1.8.2

ते निनीयोदकं सर्वे विलप्य च भृशं पुनः । आप्लुता हरिपादाब्जरजःपूतसरिज्जले ॥ 2 ॥

श्लोक 1.8.3

तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजम् । गान्धारीं पुत्रशोकार्तां पृथां कृष्णां च माधवः ॥ 3 ॥

श्लोक 1.8.4

सान्त्वयाम् आस मुनिभिर्हतबन्धूञ् शुचार्पितान् । भूतेषु कालस्य गतिं दर्शयन् न प्रतिक्रियाम् ॥ 4 ॥

श्लोक 1.8.5

साधयित्वाजातशत्रोः स्वं राज्यं कितवैर्हृतम् । घातयित्वासतो राज्ञः कचस्पर्शक्षतायुषः ॥ 5 ॥

श्लोक 1.8.6

याजयित्वाश्वमेधैस्तं त्रिभिरुत्तमकल्पकैः । तद्यशः पावनं दिक्षु शतमन्योरिवातनोत् ॥ 6 ॥

श्लोक 1.8.7

आमन्त्र्य पाण्डुपुत्रांश्च शैनेयोद्धवसंयुतः । द्वैपायनादिभिर्विप्रैः पूजितैः प्रतिपूजितः ॥ 7 ॥

श्लोक 1.8.8

गन्तुं कृतमतिर्ब्रह्मन् द्वारकां रथम् आस्थितः । उपलेभे ऽभिधावन्तीम् उत्तरां भयविह्वलाम् ॥ 8 ॥

श्लोक 1.8.9

पाहि पाहि महायोगिन् देवदेव जगत्पते । नान्यं त्वदभयं पश्ये यत्र मृत्युः परस्परम् ॥ 9 ॥

श्लोक 1.8.10

अभिद्रवति माम् ईश शरस्तप्तायसो विभो । कामं दहतु मां नाथ मा मे गर्भो निपात्यताम् ॥ 10 ॥

श्लोक 1.8.11

उपधार्य वचस्तस्या भगवान् भक्तवत्सलः । अपाण्डवम् इदं कर्तुं द्रौणेरस्त्रम् अबुध्यत ॥ 11 ॥

श्लोक 1.8.12

तर्ह्येवाथ मुनिश्रेष्ठ पाण्डवाः पञ्च सायकान् । आत्मनो ऽभिमुखान् दीप्तान् आलक्ष्यास्त्राण्युपाददुः ॥ 12 ॥

श्लोक 1.8.13

व्यसनं वीक्ष्य तत् तेषाम् अनन्यविषयात्मनाम् । सुदर्शनेन स्वास्त्रेण स्वानां रक्षां व्यधाद्विभुः ॥ 13 ॥

श्लोक 1.8.14

अन्तःस्थः सर्वभूतानाम् आत्मा योगेश्वरो हरिः । स्वमाययावृणोद्गर्भं वैराट्याः कुरुतन्तवे ॥ 14 ॥

श्लोक 1.8.15

यद्यप्यस्त्रं ब्रह्मशिरस्त्वमोघं चाप्रतिक्रियम् । वैष्णवं तेज आसाद्य समशाम्यद्भृगूद्वह ॥ 15 ॥

श्लोक 1.8.16

मा मंस्था ह्येतदाश्चर्यं सर्वाश्चर्यमये ञ्च्युते । य इदं मायया देव्या सृजत्यवति हन्त्यजः ॥ 16 ॥

श्लोक 1.8.17

ब्रह्मतेजोविनिर्मुक्तैरात्मजैः सह कृष्णया । प्रयाणाभिमुखं कृष्णम् इदम् आह पृथा सती ॥ 17 ॥

श्लोक 1.8.18

नमस्ये पुरुषं त्वाद्यम् ईश्वरं प्रकृतेः परम् । अलक्ष्यं सर्वभूतानाम् अन्तर्बहिरवस्थितम् ॥ 18 ॥

श्लोक 1.8.19

मायाजवनिकाच्छन्नम् अज्ञाधोक्षजम् अव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ 19 ॥

श्लोक 1.8.20

तथा परमहंसानां मुनीनाम् अमलात्मनाम् । भक्तियोगविधानार्थं कथं पश्येम हि स्त्रियः ॥ 20 ॥

श्लोक 1.8.21

कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नमः ॥ 21 ॥

श्लोक 1.8.22

नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ 22 ॥

श्लोक 1.8.23

यथा हृषीकेश खलेन देवकी कंसेन रुद्धातिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपद्गणात् ॥ 23 ॥

श्लोक 1.8.24

विषान् महाग्नेः पुरुषाददर्शनाद् असत्सभाया वनवासकृच्छ्रतः । मृधे मृधे ऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरे ऽभिरक्षिताः ॥ 24 ॥

श्लोक 1.8.25

विपदः सन्तु ताः शश्वत् तत्र तत्र जगद्गुरो । भवतो दर्शनं यत् स्यादपुनर्भवदर्शनम् ॥ 25 ॥

श्लोक 1.8.26

जन्मैश्वर्यश्रुतश्रीभिरेधमानमदः पुमान् । नैवार्हत्यभिधातुं वै त्वाम् अकिञ्चनगोचरम् ॥ 26 ॥

श्लोक 1.8.27

नमो ऽकिञ्चनवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नमः ॥ 27 ॥

श्लोक 1.8.28

मन्ये त्वां कालम् ईशानम् अनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां यन् मिथः कलिः ॥ 28 ॥

श्लोक 1.8.29

न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिद्दयितो ऽस्ति कर्हिचिद् द्वेष्यश्च यस्मिन् विषमा मतिर्नृणाम् ॥ 29 ॥

श्लोक 1.8.30

जन्म कर्म च विश्वात्मन्न् अजस्याकर्तुरात्मनः । तिर्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥ 30 ॥

श्लोक 1.8.31

गोप्याददे त्वयि कृतागसि दाम तावद् या ते दशाश्रुकलिलाञ्जनसम्भ्रमाक्षम् । वक्त्रं निनीय भयभावनया स्थितस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ 31 ॥

श्लोक 1.8.32

केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये । यदोः प्रियस्यान्ववाये मलयस्येव चन्दनम् ॥ 32 ॥

श्लोक 1.8.33

अपरे वसुदेवस्य देवक्यां याचितो ऽभ्यगात् । अजस्त्वम् अस्य क्षेमाय वधाय च सुरद्विषाम् ॥ 33 ॥

श्लोक 1.8.34

भारावतारणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थितः ॥ 34 ॥

श्लोक 1.8.35

भवे ऽस्मिन् क्लिश्यमानानाम् अविद्याकामकर्मभिः । श्रवणस्मरणार्हाणि करिष्यन्न् इति केचन ॥ 35 ॥

श्लोक 1.8.36

शृण्वन्ति गायन्ति गृणन्त्यभीक्ष्णशः स्मरन्ति नन्दन्ति तवेहितं जनाः । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ 36 ॥

श्लोक 1.8.37

अप्यद्य नस्त्वं स्वकृतेहित प्रभो जिहाससि स्वित् सुहृदो ऽनुजीविनः । येषां न चान्यद्भवतः पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ 37 ॥

श्लोक 1.8.38

के वयं नामरूपाभ्यां यदुभिः सह पाण्डवाः । भवतो ऽदर्शनं यर्हि हृषीकाणाम् इवेशितुः ॥ 38 ॥

श्लोक 1.8.39

नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैरङ्किता भाति स्वलक्षणविलक्षितैः ॥ 39 ॥

श्लोक 1.8.40

इमे जनपदाः स्वृद्धाः सुपक्वौषधिवीरुधः । वनाद्रिनद्युदन्वन्तो ह्येधन्ते तव वीक्षितैः ॥ 40 ॥

श्लोक 1.8.41

अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशम् इमं छिन्धि दृढं पाण्डुषु वृष्णिषु ॥ 41 ॥

श्लोक 1.8.42

त्वयि मे ऽनन्यविषया मतिर्मधुपते ऽसकृत् । रतिम् उद्वहतादद्धा गङ्गेवौघम् उदन्वति ॥ 42 ॥

श्लोक 1.8.43

श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ 43 ॥

श्लोक 1.8.44

पृथयेत्थं कलपदैः परिणूताखिलोदयः । मन्दं जहास वैकुण्ठो मोहयन्न् इव मायया ॥ 44 ॥

श्लोक 1.8.45

तां बाढम् इत्युपामन्त्र्य प्रविश्य गजसाह्वयम् । स्त्रियश्च स्वपुरं यास्यन् प्रेम्णा राज्ञा निवारितः ॥ 45 ॥

श्लोक 1.8.46

व्यासाद्यैरीश्वरेहाज्ञैः कृष्णेनाद्भुतकर्मणा । प्रबोधितो ऽपीतिहासैर्नाबुध्यत शुचार्पितः ॥ 46 ॥

श्लोक 1.8.47

आह राजा धर्मसुतश्चिन्तयन् सुहृदां वधम् । प्राकृतेनात्मना विप्राः स्नेहमोहवशं गतः ॥ 47 ॥

श्लोक 1.8.48

अहो मे पश्यताज्ञानं हृदि रूढं दुरात्मनः । पारक्यस्यैव देहस्य बह्व्यो मे ऽक्षौहिणीर्हताः ॥ 48 ॥

श्लोक 1.8.49

बालद्विजसुहृन्मित्र पितृभ्रातृगुरुद्रुहः । न मे स्यान् निरयान् मोक्षो ह्यपि वर्षायुतायुतैः ॥ 49 ॥

श्लोक 1.8.50

नैनो राज्ञः प्रजाभर्तुर्धर्मयुद्धे वधो द्विषाम् । इति मे न तु बोधाय कल्पते शासनं वचः ॥ 50 ॥

श्लोक 1.8.51

स्त्रीणां मद्धतबन्धूनां द्रोहो यो ऽसाविहोत्थितः । कर्मभिर्गृहमेधीयैर्नाहं कल्पो व्यपोहितुम् ॥ 51 ॥

श्लोक 1.8.52

यथा पङ्केन पङ्काम्भः सुरया वा सुराकृतम् । भूतहत्यां तथैवैकां न यज्ञैर्मार्ष्टुम् अर्हति ॥ 52 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ