श्रीमद्भागवत दशम स्कन्ध अध्याय 13
श्रीमद्भागवत दशम स्कन्ध अध्याय 13 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.13.1
साधु पृष्टं महाभाग त्वया भागवतोत्तम । यन् नूतनयसीशस्य शृण्वन्न् अपि कथां मुहुः ॥ 1 ॥
श्लोक 10.13.2
सताम् अयं सारभृतां निसर्गो यद्अर्थवाणीश्रुतिचेतसाम् अपि । प्रतिक्षणं नव्यवद् अच्युतस्य यत् स्त्रिया विटानाम् इव साधु वार्ता ॥ 2 ॥
श्लोक 10.13.3
शृणुष्वावहितो राजन्न् अपि गुह्यं वदामि ते । ब्रूयुः स्निग्धस्य शिष्यस्य गुरवो गुह्यम् अप्य् उत ॥ 3 ॥
श्लोक 10.13.4
तथाघवदनान् मृत्यो रक्षित्वा वत्सपालकान् । सरित्पुलिनम् आनीय भगवान् इदम् अब्रवीत् ॥ 4 ॥
श्लोक 10.13.5
अहो ऽतिरम्यं पुलिनं वयस्याः स्वकेलिसम्पन् मृदुलाच्छबालुकम् । स्फुटत्सरोगन्धहृतालिपत्रिकध्वनिप्रतिध्वानलसद्द्रुमाकुलम् ॥ 5 ॥
श्लोक 10.13.6
अत्र भोक्तव्यम् अस्माभिर् दिवारूढं क्षुधार्दिताः । वत्साः समीपे ऽपः पीत्वा चरन्तु शनकैस् तृणम् ॥ 6 ॥
श्लोक 10.13.7
तथेति पाययित्वार्भा वत्सान् आरुध्य शाद्वले । मुक्त्वा शिक्यानि बुभुजुः समं भगवता मुदा ॥ 7 ॥
श्लोक 10.13.8
कृष्णस्य विष्वक् पुरुराजिमण्डलैर् अभ्याननाः फुल्लदृशो व्रजार्भकाः &अम्प्; सहोपविष्टा विपिने विरेजुश् छदा यथाम्भोरुहकर्णिकायाः ॥ 8 ॥
श्लोक 10.13.9
केचित् पुष्पैर् दलैः केचित् पल्लवैर् अङ्कुरैः फलैः । शिग्भिस् त्वग्भिर् दृषद्भिश् च बुभुजुः कृतभाजनाः ॥ 9 ॥
श्लोक 10.13.10
सर्वे मिथो दर्शयन्तः स्वस्वभोज्यरुचिं पृथक् । हसन्तो हासयन्तश् चाभ्यवजह्रुः सहेश्वराः ॥ 10 ॥
श्लोक 10.13.11
बिभ्रद् वेणुं जठरपटयोः शृङ्गवेत्रे च कक्षे वामे पाणौ मसृणकवलं तत्फलान्य् अङ्गुलीषु &अम्प्; तिष्ठन् मध्ये स्वपरिसुहृदो हासयन् नर्मभिः स्वैः स्वर्गे लोके मिषति बुभुजे यज्ञभुग् बालकेलिः ॥ 11 ॥
श्लोक 10.13.12
भारतैवं वत्सपेषु भुञ्जानेष्व् अच्युतात्मसु । वत्सास् त्व् अन्तर्वने दूरं विविशुस् तृणलोभिताः ॥ 12 ॥
श्लोक 10.13.13
तान् दृष्ट्वा भयसन्त्रस्तान् ऊचे कृष्णो ऽस्य भीभयम् । मित्राण्य् आशान् मा विरमतेहानेष्ये वत्सकान् अहम् ॥ 13 ॥
श्लोक 10.13.14
इत्य् उक्त्वाद्रिदरीकुञ्जगह्वरेष्व् आत्मवत्सकान् । विचिन्वन् भगवान् कृष्णः सपाणिकवलो ययौ ॥ 14 ॥
श्लोक 10.13.15
अम्भोजन्मजनिस् तद्अन्तरगतो मायार्भकस्येशितुर् द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्वत्सान् इतो वत्सपान् &अम्प्; नीत्वान्यत्र कुरूद्वहान्तरदधात् खे ऽवस्थितो यः पुरा दृष्ट्वाघासुरमोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ 15 ॥
श्लोक 10.13.16
ततो वत्सान् अदृष्ट्वैत्य पुलिने ऽपि च वत्सपान् । उभाव् अपि वने कृष्णो विचिकाय समन्ततः ॥ 16 ॥
श्लोक 10.13.17
क्वाप्य् अदृष्ट्वान्तर्विपिने वत्सान् पालांश् च विश्ववित् । सर्वं विधिकृतं कृष्णः सहसावजगाम ह ॥ 17 ॥
श्लोक 10.13.18
ततः कृष्णो मुदं कर्तुं तन्मातॄणां च कस्य च । उभयायितम् आत्मानं चक्रे विश्वकृद् ईश्वरः ॥ 18 ॥
श्लोक 10.13.19
यावद् वत्सपवत्सकाल्पकवपुर् यावत् कराङ्घ्र्य्आदिकं यावद् यष्टिविषाणवेणुदलशिग् यावद् विभूषाम्बरम् &अम्प्; यावच् छीलगुणाभिधाकृतिवयो यावद् विहारादिकं सर्वं विष्णुमयं गिरो ऽङ्गवद् अजः सर्वस्वरूपो बभौ ॥ 19 ॥
श्लोक 10.13.20
स्वयम् आत्मात्मगोवत्सान् प्रतिवार्यात्मवत्सपैः । क्रीडन्न् आत्मविहारैश् च सर्वात्मा प्राविशद् व्रजम् ॥ 20 ॥
श्लोक 10.13.21
तत्तद्वत्सान् पृथङ् नीत्वा तत्तद्गोष्ठे निवेश्य सः । तत्तद्आत्माभवद् राजंस् तत्तत्सद्म प्रविष्टवान् ॥ 21 ॥
श्लोक 10.13.22
तन्मातरो वेणुरवत्वरोत्थिता उत्थाप्य दोर्भिः परिरभ्य निर्भरम् । स्नेहस्नुतस्तन्यपयःसुधासवं मत्वा परं ब्रह्म सुतान् अपाययन् ॥ 22 ॥
श्लोक 10.13.23
ततो नृपोन्मर्दनमज्जलेपनालङ्काररक्षातिलकाशनादिभिः । संलालितः स्वाचरितैः प्रहर्षयन् सायं गतो यामयमेन माधवः ॥ 23 ॥
श्लोक 10.13.24
गावस् ततो गोष्ठम् उपेत्य सत्वरं हुङ्कारघोषैः परिहूतसङ्गतान् । स्वकान् स्वकान् वत्सतरान् अपाययन् मुहुर् लिहन्त्यः स्रवद् औधसं पयः ॥ 24 ॥
श्लोक 10.13.25
गोगोपीनां मातृतास्मिन्न् आसीत् स्नेहर्धिकां विना । पुरोवद् आस्व् अपि हरेस् तोकता मायया विना ॥ 25 ॥
श्लोक 10.13.26
व्रजौकसां स्वतोकेषु स्नेहवल्ल्य् आब्दम् अन्वहम् । शनैर् निःसीम ववृधे यथा कृष्णे त्व् अपूर्ववत् ॥ 26 ॥
श्लोक 10.13.27
इत्थम् आत्मात्मनात्मानं वत्सपालमिषेण सः । पालयन् वत्सपो वर्षं चिक्रीडे वनगोष्ठयोः ॥ 27 ॥
श्लोक 10.13.28
एकदा चारयन् वत्सान् सरामो वनम् आविशत् । पञ्चषासु त्रियामासु हायनापूरणीष्व् अजः ॥ 28 ॥
श्लोक 10.13.29
ततो विदूराच् चरतो गावो वत्सान् उपव्रजम् । गोवर्धनाद्रिशिरसि चरन्त्यो ददृशुस् तृणम् ॥ 29 ॥
श्लोक 10.13.30
दृष्ट्वाथ तत्स्नेहवशो ऽस्मृतात्मा स गोव्रजो ऽत्यात्मपदुर्गमार्गः । द्विपात् ककुद्ग्रीव उदास्यपुच्छो ऽगाद् धुङ्कृतैर् आस्रुपया जवेन ॥ 30 ॥
श्लोक 10.13.31
समेत्य गावो ऽधो वत्सान् वत्सवत्यो ऽप्य् अपाययन् । गिलन्त्य इव चाङ्गानि लिहन्त्यः स्वौधसं पयः ॥ 31 ॥
श्लोक 10.13.32
गोपास् तद्रोधनायासमौघ्यलज्जोरुमन्युना । दुर्गाध्वकृच्छ्रतो ऽभ्येत्य गोवत्सैर् ददृशुः सुतान् ॥ 32 ॥
श्लोक 10.13.33
तद्ईक्षणोत्प्रेमरसाप्लुताशया जातानुरागा गतमन्यवो ऽर्भकान् । उदुह्य दोर्भिः परिरभ्य मूर्धनि घ्राणैर् अवापुः परमां मुदं ते ॥ 33 ॥
श्लोक 10.13.34
ततः प्रवयसो गोपास् तोकाश्लेषसुनिर्वृताः । कृच्छ्राच् छनैर् अपगतास् तद्अनुस्मृत्य्उदश्रवः ॥ 34 ॥
श्लोक 10.13.35
व्रजस्य रामः प्रेमर्धेर् वीक्ष्यौत्कण्ठ्यम् अनुक्षणम् । मुक्तस्तनेष्व् अपत्येष्व् अप्य् अहेतुविद् अचिन्तयत् ॥ 35 ॥
श्लोक 10.13.36
किम् एतद् अद्भुतम् इव वासुदेवे ऽखिलात्मनि । व्रजस्य सात्मनस् तोकेष्व् अपूर्वं प्रेम वर्धते ॥ 36 ॥
श्लोक 10.13.37
केयं वा कुत आयाता दैवी वा नार्य् उतासुरी । प्रायो मायास्तु मे भर्तुर् नान्या मे ऽपि विमोहिनी ॥ 37 ॥
श्लोक 10.13.38
इति सञ्चिन्त्य दाशार्हो वत्सान् सवयसान् अपि । सर्वान् आचष्ट वैकुण्ठं चक्षुषा वयुनेन सः ॥ 38 ॥
श्लोक 10.13.39
नैते सुरेशा ऋषयो न चैते त्वम् एव भासीश भिद्आश्रये ऽपि । सर्वं पृथक् त्वं निगमात् कथं वदेत्य् उक्तेन वृत्तं प्रभुणा बलो ऽवैत् ॥ 39 ॥
श्लोक 10.13.40
तावद् एत्यात्मभूर् आत्ममानेन त्रुट्य्अनेहसा । पुरोवद् आब्दं क्रीडन्तं ददृशे सकलं हरिम् ॥ 40 ॥
श्लोक 10.13.41
यावन्तो गोकुले बालाः सवत्साः सर्व एव हि । मायाशये शयाना मे नाद्यापि पुनर् उत्थिताः ॥ 41 ॥
श्लोक 10.13.42
इत एते ऽत्र कुत्रत्या मन्मायामोहितेतरे । तावन्त एव तत्राब्दं क्रीडन्तो विष्णुना समम् ॥ 42 ॥
श्लोक 10.13.43
एवम् एतेषु भेदेषु चिरं ध्यात्वा स आत्मभूः । सत्याः के कतरे नेति ज्ञातुं नेष्टे कथञ्चन ॥ 43 ॥
श्लोक 10.13.44
एवं सम्मोहयन् विष्णुं विमोहं विश्वमोहनम् । स्वयैव माययाजो ऽपि स्वयम् एव विमोहितः ॥ 44 ॥
श्लोक 10.13.45
तम्यां तमोवन् नैहारं खद्योतार्चिर् इवाहनि । महतीतरमायैश्यं निहन्त्य् आत्मनि युञ्जतः ॥ 45 ॥
श्लोक 10.13.46
तावत् सर्वे वत्सपालाः पश्यतो ऽजस्य तत्क्षणात् । व्यदृश्यन्त घनश्यामाः पीतकौशेयवाससः ॥ 46 ॥
श्लोक 10.13.47
चतुर्भुजाः शङ्खचक्रगदाराजीवपाणयः । किरीटिनः कुण्डलिनो हारिणो वनमालिनः ॥ 47 ॥
श्लोक 10.13.48
श्रीवत्साङ्गददोरत्नकम्बुकङ्कणपाणयः । नूपुरैः कटकैर् भाताः कटिसूत्राङ्गुलीयकैः ॥ 48 ॥
श्लोक 10.13.49
आङ्घ्रिमस्तकम् आपूर्णास् तुलसीनवदामभिः । कोमलैः सर्वगात्रेषु भूरिपुण्यवद्अर्पितैः ॥ 49 ॥
श्लोक 10.13.50
चन्द्रिकाविशदस्मेरैः सारुणापाङ्गवीक्षितैः । स्वकार्थानाम् इव रजःसत्त्वाभ्यां स्रष्टृपालकाः ॥ 50 ॥
श्लोक 10.13.51
आत्मादिस्तम्बपर्यन्तैर् मूर्तिमद्भिश् चराचरैः । नृत्यगीताद्य्अनेकार्हैः पृथक् पृथग् उपासिताः ॥ 51 ॥
श्लोक 10.13.52
अणिमाद्यैर् महिमभिर् अजाद्याभिर् विभूतिभिः । चतुर्विंशतिभिस् तत्त्वैः परीता महद्आदिभिः ॥ 52 ॥
श्लोक 10.13.53
कालस्वभावसंस्कारकामकर्मगुणादिभिः । स्वमहिध्वस्तमहिभिर् मूर्तिमद्भिर् उपासिताः ॥ 53 ॥
श्लोक 10.13.54
सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तयः । अस्पृष्टभूरिमाहात्म्या अपि ह्य् उपनिषद्दृशाम् ॥ 54 ॥
श्लोक 10.13.55
एवं सकृद् ददर्शाजः परब्रह्मात्मनो ऽखिलान् । यस्य भासा सर्वम् इदं विभाति सचराचरम् ॥ 55 ॥
श्लोक 10.13.56
ततो ऽतिकुतुकोद्वृत्यस्तिमितैकादशेन्द्रियः । तद्धाम्नाभूद् अजस् तूष्णीं पूर्देव्य्अन्तीव पुत्रिका ॥ 56 ॥
श्लोक 10.13.57
इतीरेशे ऽतर्क्ये निजमहिमनि स्वप्रमितिके परत्राजातो ऽतन्निरसनमुखब्रह्मकमितौ &अम्प्; अनीशे ऽपि द्रष्टुं किम् इदम् इति वा मुह्यति सति चच्छादाजो ज्ञात्वा सपदि परमो ऽजाजवनिकाम् ॥ 57 ॥
श्लोक 10.13.58
ततो ऽर्वाक् प्रतिलब्धाक्षः कः परेतवद् उत्थितः । कृच्छ्राद् उन्मील्य वै दृष्टीर् आचष्टेदं सहात्मना ॥ 58 ॥
श्लोक 10.13.59
सपद्य् एवाभितः पश्यन् दिशो ऽपश्यत् पुरःस्थितम् । वृन्दावनं जनाजीव्यद्रुमाकीर्णं समाप्रियम् ॥ 59 ॥
श्लोक 10.13.60
यत्र नैसर्गदुर्वैराः सहासन् नृमृगादयः । मित्राणीवाजितावासद्रुतरुट्तर्षकादिकम् ॥ 60 ॥
श्लोक 10.13.61
तत्रोद्वहत् पशुपवंशशिशुत्वनाट्यं ब्रह्माद्वयं परम् अनन्तम् अगाधबोधम् &अम्प्; वत्सान् सखीन् इव पुरा परितो विचिन्वद् एकं सपाणिकवलं परमेष्ठ्य् अचष्ट ॥ 61 ॥
श्लोक 10.13.62
दृष्ट्वा त्वरेण निजधोरणतो ऽवतीर्य पृथ्व्यां वपुः कनकदण्डम् इवाभिपात्य । स्पृष्ट्वा चतुर्मुकुटकोटिभिर् अङ्घ्रियुग्मं नत्वा मुद्अश्रुसुजलैर् अकृताभिषेकम् ॥ 62 ॥
श्लोक 10.13.63
उत्थायोत्थाय कृष्णस्य चिरस्य पादयोः पतन् । आस्ते महित्वं प्राग्दृष्टं स्मृत्वा स्मृत्वा पुनः पुनः ॥ 63 ॥
श्लोक 10.13.64
शनैर् अथोत्थाय विमृज्य लोचने मुकुन्दम् उद्वीक्ष्य विनम्रकन्धरः । कृताञ्जलिः प्रश्रयवान् समाहितः सवेपथुर् गद्गदयैलतेलया ॥ 64 ॥