मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 14

श्रीमद्भागवत दशम स्कन्ध अध्याय 14 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.14.1

नौमीड्य ते ऽभ्रवपुषे तडिद्अम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणुलक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ 1 ॥

श्लोक 10.14.2

अस्यापि देव वपुषो मद्अनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य को ऽपि । नेशे महि त्व् अवसितुं मनसान्तरेण साक्षात् तवैव किम् उतात्मसुखानुभूतेः ॥ 2 ॥

श्लोक 10.14.3

ज्ञाने प्रयासम् उदपास्य नमन्त एव जीवन्ति सन्मुखरितां भवदीयवार्ताम् &अम्प्; स्थाने स्थिताः श्रुतिगतां तनुवाङ्मनोभिर् ये प्रायशो ऽजित जितो ऽप्य् असि तैस् त्रिलोक्याम् ॥ 3 ॥

श्लोक 10.14.4

श्रेयःसृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवलबोधलब्धये । तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूलतुषावघातिनाम् ॥ 4 ॥

श्लोक 10.14.5

पुरेह भूमन् बहवो ऽपि योगिनस् त्वद्अर्पितेहा निजकर्मलब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरे ऽञ्जो ऽच्युत ते गतिं पराम् ॥ 5 ॥

श्लोक 10.14.6

तथापि भूमन् महिमागुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर्आत्मभिः । अविक्रियात् स्वानुभवाद् अरूपतो ह्य् अनन्यबोध्यात्मतया न चान्यथा ॥ 6 ॥

श्लोक 10.14.7

गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीऋनस्य क ईशिरे ऽस्य । कालेन यैर् वा विमिताः सुकल्पैर् भूपांशवः खे मिहिका द्युभासः ॥ 7 ॥

श्लोक 10.14.8

तत् ते ऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर् विदधन् नमस् ते जीवेत यो मुक्तिपदे स दायभाक् ॥ 8 ॥

श्लोक 10.14.9

पश्येश मे ऽनार्यम् अनन्त आद्ये परात्मनि त्वय्य् अपि मायिमायिनि । मायां वितत्येक्षितुम् आत्मवैभवं ह्य् अहं कियान् ऐच्छम् इवार्चिर् अग्नौ ॥ 9 ॥

श्लोक 10.14.10

अतः क्षमस्वाच्युत मे रजोभुवो ह्य् अजानतस् त्वत्पृथग्ईशमानिनः । अजावलेपान्धतमोऽन्धचक्षुष एषो ऽनुकम्प्यो मयि नाथवान् इति ॥ 10 ॥

श्लोक 10.14.11

क्वाहं तमोमहद्अहंखचराग्निवार्भूसंवेष्टिताण्डघटसप्तवितस्तिकायः &अम्प्; क्वेदृग्विधाविगणिताण्डपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वम् ॥ 11 ॥

श्लोक 10.14.12

उत्क्षेपणं गर्भगतस्य पादयोः किं कल्पते मातुर् अधोक्षजागसे । किम् अस्तिनास्तिव्यपदेशभूषितं तवास्ति कुक्षेः कियद् अप्य् अनन्तः ॥ 12 ॥

श्लोक 10.14.13

जगत्त्रयान्तोदधिसम्प्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतो ऽजस् त्व् इति वाङ् न वै मृषा किन्त्व् ईश्वर त्वन् न विनिर्गतो ऽस्मि ॥ 13 ॥

श्लोक 10.14.14

नारायणस् त्वं न हि सर्वदेहिनाम् आत्मास्य् अधीशाखिललोकसाक्षी । नारायणो ऽङ्गं नरभूजलायनात् तच् चापि सत्यं न तवैव माया ॥ 14 ॥

श्लोक 10.14.15

तच् चेज् जलस्थं तव सज् जगद्वपुः किं मे न दृष्टं भगवंस् तदैव &अम्प्; किं वा सुदृष्टं हृदि मे तदैव किं नो सपद्य् एव पुनर् व्यदर्शि ॥ 15 ॥

श्लोक 10.14.16

अत्रैव मायाधमनावतारे ह्य् अस्य प्रपञ्चस्य बहिः स्फुटस्य । कृत्स्नस्य चान्तर् जठरे जनन्या मायात्वम् एव प्रकटीकृतं ते ॥ 16 ॥

श्लोक 10.14.17

यस्य कुक्षाव् इदं सर्वं सात्मं भाति यथा तथा । तत् त्वय्य् अपीह तत् सर्वं किम् इदं मायया विना ॥ 17 ॥

श्लोक 10.14.18

अद्यैव त्वद् ऋते ऽस्य किं मम न ते मायात्वम् आदर्शितम् एको ऽसि प्रथमं ततो व्रजसुहृद्वत्साः समस्ता अपि &अम्प्; तावन्तो ऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास् तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥ 18 ॥

श्लोक 10.14.19

अजानतां त्वत्पदवीम् अनात्मन्य् आत्मात्मना भासि वितत्य मायाम् । सृष्टाव् इवाहं जगतो विधान इव त्वम् एषो ऽन्त इव त्रिनेत्रः ॥ 19 ॥

श्लोक 10.14.20

सुरेष्व् ऋषिष्व् ईश तथैव नृष्व् अपि तिर्यक्षु यादःस्व् अपि ते ऽजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधातः सद्अनुग्रहाय च ॥ 20 ॥

श्लोक 10.14.21

को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर् भवतस् त्रिलोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ 21 ॥

श्लोक 10.14.22

तस्माद् इदं जगद् अशेषम् असत्स्वरूपं स्वप्नाभम् अस्तधिषणं पुरुदुःखदुःखम् &अम्प्; त्वय्य् एव नित्यसुखबोधतनाव् अनन्ते मायात उद्यद् अपि यत् सद् इवावभाति ॥ 22 ॥

श्लोक 10.14.23

एकस् त्वम् आत्मा पुरुषः पुराणः सत्यः स्वयंज्योतिर् अनन्त आद्यः । नित्यो ऽक्षरो ऽजस्रसुखो निरञ्जनः पूर्णाद्वयो मुक्त उपाधितो ऽमृतः ॥ 23 ॥

श्लोक 10.14.24

एवंविधं त्वां सकलात्मनाम् अपि स्वात्मानम् आत्मात्मतया विचक्षते । गुर्व्अर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ 24 ॥

श्लोक 10.14.25

आत्मानम् एवात्मतयाविजानतां तेनैव जातं निखिलं प्रपञ्चितम् । ज्ञानेन भूयो ऽपि च तत् प्रलीयते रज्ज्वाम् अहेर् भोगभवाभवौ यथा ॥ 25 ॥

श्लोक 10.14.26

अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् । अजस्रचित्य् आत्मनि केवले परे विचार्यमाणे तरणाव् इवाहनी ॥ 26 ॥

श्लोक 10.14.27

त्वाम् आत्मानं परं मत्वा परम् आत्मानम् एव च । आत्मा पुनर् बहिर् मृग्य अहो ऽज्ञजनताज्ञता ॥ 27 ॥

श्लोक 10.14.28

अन्तर्भवे ऽनन्त भवन्तम् एव ह्य् अतत् त्यजन्तो मृगयन्ति सन्तः । असन्तम् अप्य् अन्त्य् अहिम् अन्तरेण सन्तं गुणं तं किम् उ यन्ति सन्तः ॥ 28 ॥

श्लोक 10.14.29

अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन्महिम्नो न चान्य एको ऽपि चिरं विचिन्वन् ॥ 29 ॥

श्लोक 10.14.30

तद् अस्तु मे नाथ स भूरिभागो भवे ऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहम् एको ऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥ 30 ॥

श्लोक 10.14.31

अहो ऽतिधन्या व्रजगोरमण्यः स्तन्यामृतं पीतम् अतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तृप्तये ऽद्यापि न चालम् अध्वराः ॥ 31 ॥

श्लोक 10.14.32

अहो भाग्यम् अहो भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ 32 ॥

श्लोक 10.14.33

एषां तु भाग्यमहिमाच्युत तावद् आस्ताम् एकादशैव हि वयं बत भूरिभागाः &अम्प्; एतद्धृषीकचषकैर् असकृत् पिबामः शर्वादयो ऽङ्घ्र्य्उदजमध्व्अमृतासवं ते ॥ 33 ॥

श्लोक 10.14.34

तद् भूरिभाग्यम् इह जन्म किम् अप्य् अटव्यां यद् गोकुले ऽपि कतमाङ्घ्रिरजोऽभिषेकम् । यज्जीवितं तु निखिलं भगवान् मुकुन्दस् त्व् अद्यापि यत्पदरजः श्रुतिमृग्यम् एव ॥ 34 ॥

श्लोक 10.14.35

एषां घोषनिवासिनाम् उत भवान् किं देव रातेति नश् चेतो विश्वफलात् फलं त्वद्अपरं कुत्राप्य् अयन् मुह्यति । सद्वेषाद् इव पूतनापि सकुला त्वाम् एव देवापिता यद्धामार्थसुहृत्प्रियात्मतनयप्राणाशयास् त्वत्कृते ॥ 35 ॥

श्लोक 10.14.36

तावद् रागादयः स्तेनास् तावत् कारागृहं गृहम् । तावन् मोहो ऽङ्घ्रिनिगडो यावत् कृष्ण न ते जनाः ॥ 36 ॥

श्लोक 10.14.37

प्रपञ्चं निष्प्रपञ्चो ऽपि विडम्बयसि भूतले । प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ 37 ॥

श्लोक 10.14.38

जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचरः ॥ 38 ॥

श्लोक 10.14.39

अनुजानीहि मां कृष्ण सर्वं त्वं वेत्सि सर्वदृक् । त्वम् एव जगतां नाथो जगद् एतत् तवार्पितम् ॥ 39 ॥

श्लोक 10.14.40

श्रीकृष्ण वृष्णिकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् &अम्प्; उद्धर्मशार्वरहर क्षितिराक्षसध्रुग् आकल्पम् आर्कम् अर्हन् भगवन् नमस् ते ॥ 40 ॥

श्लोक 10.14.41

इत्य् अभिष्टूय भूमानं त्रिः परिक्रम्य पादयोः । नत्वाभीष्टं जगद्धाता स्वधाम प्रत्यपद्यत ॥ 41 ॥

श्लोक 10.14.42

ततो ऽनुज्ञाप्य भगवान् स्वभुवं प्राग् अवस्थितान् । वत्सान् पुलिनम् आनिन्ये यथापूर्वसखं स्वकम् ॥ 42 ॥

श्लोक 10.14.43

एकस्मिन्न् अपि याते ऽब्दे प्राणेशं चान्तरात्मनः । कृष्णमायाहता राजन् क्षणार्धं मेनिरे ऽर्भकाः ॥ 43 ॥

श्लोक 10.14.44

किं किं न विस्मरन्तीह मायामोहितचेतसः । यन्मोहितं जगत् सर्वम् अभीक्ष्णं विस्मृतात्मकम् ॥ 44 ॥

श्लोक 10.14.45

ऊचुश् च सुहृदः कृष्णं स्व्आगतं ते ऽतिरंहसा । नैको ऽप्य् अभोजि कवल एहीतः साधु भुज्यताम् ॥ 45 ॥

श्लोक 10.14.46

ततो हसन् हृषीकेशो ऽभ्यवहृत्य सहार्भकैः । दर्शयंश् चर्माजगरं न्यवर्तत वनाद् व्रजम् ॥ 46 ॥

श्लोक 10.14.47

बर्हप्रसूनवनधातुविचित्रिताङ्गः प्रोद्दामवेणुदलशृङ्गरवोत्सवाढ्यः &अम्प्; वत्सान् गृणन्न् अनुगगीतपवित्रकीर्तिर् गोपीदृग्उत्सवदृशिः प्रविवेश गोष्ठम् ॥ 47 ॥

श्लोक 10.14.48

अद्यानेन महाव्यालो यशोदानन्दसूनुना । हतो ऽविता वयं चास्माद् इति बाला व्रजे जगुः ॥ 48 ॥

श्लोक 10.14.49

ब्रह्मन् परोद्भवे कृष्णे इयान् प्रेमा कथं भवेत् । यो ऽभूतपूर्वस् तोकेषु स्वोद्भवेष्व् अपि कथ्यताम् ॥ 49 ॥

श्लोक 10.14.50

सर्वेषाम् अपि भूतानां नृप स्वात्मैव वल्लभः । इतरे ऽपत्यवित्ताद्यास् तद्वल्लभतयैव हि ॥ 50 ॥

श्लोक 10.14.51

तद् राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् । न तथा ममतालम्बिपुत्रवित्तगृहादिषु ॥ 51 ॥

श्लोक 10.14.52

देहात्मवादिनां पुंसाम् अपि राजन्यसत्तम । यथा देहः प्रियतमस् तथा न ह्य् अनु ये च तम् ॥ 52 ॥

श्लोक 10.14.53

देहो ऽपि ममताभाक् चेत् तर्ह्य् असौ नात्मवत् प्रियः । यज् जीर्यत्य् अपि देहे ऽस्मिन् जीविताशा बलीयसी ॥ 53 ॥

श्लोक 10.14.54

तस्मात् प्रियतमः स्वात्मा सर्वेषाम् अपि देहिनाम् । तद्अर्थम् एव सकलं जगद् एतच् चराचरम् ॥ 54 ॥

श्लोक 10.14.55

कृष्णम् एनम् अवेहि त्वम् आत्मानम् अखिलात्मनाम् । जगद्धिताय सो ऽप्य् अत्र देहीवाभाति मायया ॥ 55 ॥

श्लोक 10.14.56

वस्तुतो जानताम् अत्र कृष्णं स्थास्नु चरिष्णु च । भगवद्रूपम् अखिलं नान्यद् वस्त्व् इह किञ्चन ॥ 56 ॥

श्लोक 10.14.57

सर्वेषाम् अपि वस्तूनां भावार्थो भवति स्थितः । तस्यापि भगवान् कृष्णः किम् अतद् वस्तु रूप्यताम् ॥ 57 ॥

श्लोक 10.14.58

समाश्रिता ये पदपल्लवप्लवं महत्पदं पुण्ययशो मुरारेः । भवाम्बुधिर् वत्सपदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ 58 ॥

श्लोक 10.14.59

एतत् ते सर्वम् आख्यातं यत् पृष्टो ऽहम् इह त्वया । तत् कौमारे हरिकृतं पौगण्डे परिकीर्तितम् ॥ 59 ॥

श्लोक 10.14.60

एतत् सुहृद्भिश् चरितं मुरारेर् अघार्दनं शाद्वलजेमनं च । व्यक्तेतरद् रूपम् अजोर्व्अभिष्टवं शृण्वन् गृणन्न् एति नरो ऽखिलार्थान् ॥ 60 ॥

श्लोक 10.14.61

एवं विहारैः कौमारैः कौमारं जहतुर् व्रजे । निलायनैः सेतुबन्धैर् मर्कटोत्प्लवनादिभिः ॥ 61 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ