मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 15

श्रीमद्भागवत दशम स्कन्ध अध्याय 15 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.15.1

ततश् च पौगण्डवयःश्रीतौ व्रजे बभूवतुस् तौ पशुपालसम्मतौ । गाश् चारयन्तौ सखिभिः समं पदैर् वृन्दावनं पुण्यम् अतीव चक्रतुः ॥ 1 ॥

श्लोक 10.15.2

तन् माधवो वेणुम् उदीरयन् वृतो गोपैर् गृणद्भिः स्वयशो बलान्वितः । पशून् पुरस्कृत्य पशव्यम् आविशद् विहर्तुकामः कुसुमाकरं वनम् ॥ 2 ॥

श्लोक 10.15.3

तन् मञ्जुघोषालिमृगद्विजाकुलं महन्मनःप्रख्यपयःसरस्वता । वातेन जुष्टं शतपत्रगन्धिना निरीक्ष्य रन्तुं भगवान् मनो दधे ॥ 3 ॥

श्लोक 10.15.4

स तत्र तत्रारुणपल्लवश्रिया फलप्रसूनोरुभरेण पादयोः । स्पृशच् छिखान् वीक्ष्य वनस्पतीन् मुदा स्मयन्न् इवाहाग्रजम् आदिपूरुषः ॥ 4 ॥

श्लोक 10.15.5

अहो अमी देववरामरार्चितं पादाम्बुजं ते सुमनःफलार्हणम् । नमन्त्य् उपादाय शिखाभिर् आत्मनस् तमोऽपहत्यै तरुजन्म यत्कृतम् ॥ 5 ॥

श्लोक 10.15.6

एते ऽलिनस् तव यशो ऽखिललोकतीर्थं गायन्त आदिपुरुषानुपथं भजन्ते &अम्प्; प्रायो अमी मुनिगणा भवदीयमुख्या गूढं वने ऽपि न जहत्य् अनघात्मदैवम् ॥ 6 ॥

श्लोक 10.15.7

नृत्यन्त्य् अमी शिखिन ईड्य मुदा हरिण्यः कुर्वन्ति गोप्य इव ते प्रियम् ईक्षणेन । सूक्तैश् च कोकिलगणा गृहम् आगताय धन्या वनौकस इयान् हि सतां निसर्गः ॥ 7 ॥

श्लोक 10.15.8

धन्येयम् अद्य धरणी तृणवीरुधस् त्वत्पादस्पृशो द्रुमलताः करजाभिमृष्टाः । नद्यो ऽद्रयः खगमृगाः सदयावलोकैर् गोप्यो ऽन्तरेण भुजयोर् अपि यत्स्पृहा श्रीः ॥ 8 ॥

श्लोक 10.15.9

एवं वृन्दावनं श्रीमत् कृष्णः प्रीतमनाः पशून् । रेमे सञ्चारयन्न् अद्रेः सरिद्रोधःसु सानुगः ॥ 9 ॥

श्लोक 10.15.10

क्वचिद् गायति गायत्सु मदान्धालिष्व् अनुव्रतैः । उपगीयमानचरितः पथि सङ्कर्षणान्वितः ॥ 10 ॥

श्लोक 10.15.11

अनुजल्पति जल्पन्तं कलवाक्यैः शुकं क्वचित् । क्वचित् सवल्गु कूजन्तम् अनुकूजति कोकिलम् क्वचिच् च कालहंसानाम् अनुकूजति कूजितम् । अभिनृत्यति नृत्यन्तं बर्हिणं हासयन् क्वचित् ॥ 11 ॥

श्लोक 10.15.12

मेघगम्भीरया वाचा नामभिर् दूरगान् पशून् । क्वचिद् आह्वयति प्रीत्या गोगोपालमनोज्ञया ॥ 12 ॥

श्लोक 10.15.13

चकोरक्रौञ्चचक्राह्वभारद्वाजांश् च बर्हिणः । अनुरौति स्म सत्त्वानां भीतवद् व्याघ्रसिंहयोः ॥ 13 ॥

श्लोक 10.15.14

क्वचित् क्रीडापरिश्रान्तं गोपोत्सङ्गोपबर्हणम् । स्वयं विश्रमयत्य् आर्यं पादसंवाहनादिभिः ॥ 14 ॥

श्लोक 10.15.15

नृत्यतो गायतः क्वापि वल्गतो युध्यतो मिथः । गृहीतहस्तौ गोपालान् हसन्तौ प्रशशंसतुः ॥ 15 ॥

श्लोक 10.15.16

क्वचित् पल्लवतल्पेषु नियुद्धश्रमकर्शितः । वृक्षमूलाश्रयः शेते गोपोत्सङ्गोपबर्हणः ॥ 16 ॥

श्लोक 10.15.17

पादसंवाहनं चक्रुः केचित् तस्य महात्मनः । अपरे हतपाप्मानो व्यजनैः समवीजयन् ॥ 17 ॥

श्लोक 10.15.18

अन्ये तद्अनुरूपाणि मनोज्ञानि महात्मनः । गायन्ति स्म महाराज स्नेहक्लिन्नधियः शनैः ॥ 18 ॥

श्लोक 10.15.19

एवं निगूढात्मगतिः स्वमायया गोपात्मजत्वं चरितैर् विडम्बयन् । रेमे रमालालितपादपल्लवो ग्राम्यैः समं ग्राम्यवद् ईशचेष्टितः ॥ 19 ॥

श्लोक 10.15.20

श्रीदामा नाम गोपालो रामकेशवयोः सखा । सुबलस्तोककृष्णाद्या गोपाः प्रेम्णेदम् अब्रुवन् ॥ 20 ॥

श्लोक 10.15.21

राम राम महाबाहो कृष्ण दुष्टनिबर्हण । इतो ऽविदूरे सुमहद् वनं तालालिसङ्कुलम् ॥ 21 ॥

श्लोक 10.15.22

फलानि तत्र भूरीणि पतन्ति पतितानि च । सन्ति किन्त्व् अवरुद्धानि धेनुकेन दुरात्मना ॥ 22 ॥

श्लोक 10.15.23

सो ऽतिवीर्यो ऽसुरो राम हे कृष्ण खररूपधृक् । आत्मतुल्यबलैर् अन्यैर् ज्ञातिभिर् बहुभिर् वृतः ॥ 23 ॥

श्लोक 10.15.24

तस्मात् कृतनराहाराद् भीतैर् नृभिर् अमित्रहन् । न सेव्यते पशुगणैः पक्षिसङ्घैर् विवर्जितम् ॥ 24 ॥

श्लोक 10.15.25

विद्यन्ते ऽभुक्तपूर्वाणि फलानि सुरभीणि च । एष वै सुरभिर् गन्धो विषूचीनो ऽवगृह्यते ॥ 25 ॥

श्लोक 10.15.26

प्रयच्छ तानि नः कृष्ण गन्धलोभितचेतसाम् । वाञ्छास्ति महती राम गम्यतां यदि रोचते ॥ 26 ॥

श्लोक 10.15.27

एवं सुहृद्वचः श्रुत्वा सुहृत्प्रियचिकीर्षया । प्रहस्य जग्मतुर् गोपैर् वृतौ तालवनं प्रभू ॥ 27 ॥

श्लोक 10.15.28

बलः प्रविश्य बाहुभ्यां तालान् सम्परिकम्पयन् । फलानि पातयाम् आस मतङ्गज इवौजसा ॥ 28 ॥

श्लोक 10.15.29

फलानां पततां शब्दं निशम्यासुररासभः । अभ्यधावत् क्षितितलं सनगं परिकम्पयन् ॥ 29 ॥

श्लोक 10.15.30

समेत्य तरसा प्रत्यग् द्वाभ्यां पद्भ्यां बलं बली । निहत्योरसि काशब्दं मुञ्चन् पर्यसरत् खलः ॥ 30 ॥

श्लोक 10.15.31

पुनर् आसाद्य संरब्ध उपक्रोष्टा पराक् स्थितः । चरणाव् अपरौ राजन् बलाय प्राक्षिपद् रुषा ॥ 31 ॥

श्लोक 10.15.32

स तं गृहीत्वा प्रपदोर् भ्रामयित्वैकपाणिना । चिक्षेप तृणराजाग्रे भ्रामणत्यक्तजीवितम् ॥ 32 ॥

श्लोक 10.15.33

तेनाहतो महातालो वेपमानो बृहच्छिराः । पार्श्वस्थं कम्पयन् भग्नः स चान्यं सो ऽपि चापरम् ॥ 33 ॥

श्लोक 10.15.34

बलस्य लीलयोत्सृष्टखरदेहहताहताः । तालाश् चकम्पिरे सर्वे महावातेरिता इव ॥ 34 ॥

श्लोक 10.15.35

नैतच् चित्रं भगवति ह्य् अनन्ते जगद्ईश्वरे । ओतप्रोतम् इदं यस्मिंस् तन्तुष्व् अङ्ग यथा पटः ॥ 35 ॥

श्लोक 10.15.36

ततः कृष्णं च रामं च ज्ञातयो धेनुकस्य ये । क्रोष्टारो ऽभ्यद्रवन् सर्वे संरब्धा हतबान्धवाः ॥ 36 ॥

श्लोक 10.15.37

तांस् तान् आपततः कृष्णो रामश् च नृप लीलया । गृहीतपश्चाच्चरणान् प्राहिणोत् तृणराजसु ॥ 37 ॥

श्लोक 10.15.38

फलप्रकरसङ्कीर्णं दैत्यदेहैर् गतासुभिः । रराज भूः सतालाग्रैर् घनैर् इव नभस्तलम् ॥ 38 ॥

श्लोक 10.15.39

तयोस् तत् सुमहत् कर्म निशम्य विबुधादयः । मुमुचुः पुष्पवर्षाणि चक्रुर् वाद्यानि तुष्टुवुः ॥ 39 ॥

श्लोक 10.15.40

अथ तालफलान्य् आदन् मनुष्या गतसाध्वसाः । तृणं च पशवश् चेरुर् हतधेनुककानने ॥ 40 ॥

श्लोक 10.15.41

कृष्णः कमलपत्राक्षः पुण्यश्रवणकीर्तनः । स्तूयमानो ऽनुगैर् गोपैः साग्रजो व्रजम् आव्रजत् ॥ 41 ॥

श्लोक 10.15.42

तं गोरजश्छुरितकुन्तलबद्धबर्हवन्यप्रसूनरुचिरेक्षणचारुहासम् &अम्प्; वेणुम् क्वणन्तम् अनुगैर् उपगीतकीर्तिं गोप्यो दिदृक्षितदृशो ऽभ्यगमन् समेताः ॥ 42 ॥

श्लोक 10.15.43

पीत्वा मुकुन्दमुखसारघम् अक्षिभृङ्गैस् तापं जहुर् विरहजं व्रजयोषितो ऽह्नि । तत् सत्कृतिं समधिगम्य विवेश गोष्ठं सव्रीडहासविनयं यद् अपाङ्गमोक्षम् ॥ 43 ॥

श्लोक 10.15.44

तयोर् यशोदारोहिण्यौ पुत्रयोः पुत्रवत्सले । यथाकामं यथाकालं व्यधत्तां परमाशिषः ॥ 44 ॥

श्लोक 10.15.45

गताध्वानश्रमौ तत्र मज्जनोन्मर्दनादिभिः । नीवीं वसित्वा रुचिरां दिव्यस्रग्गन्धमण्डितौ ॥ 45 ॥

श्लोक 10.15.46

जनन्य्उपहृतं प्राश्य स्वाद्य् अन्नम् उपलालितौ । संविश्य वरशय्यायां सुखं सुषुपतुर् व्रजे ॥ 46 ॥

श्लोक 10.15.47

एवं स भगवान् कृष्णो वृन्दावनचरः क्वचित् । ययौ रामम् ऋते राजन् कालिन्दीं सखिभिर् वृतः ॥ 47 ॥

श्लोक 10.15.48

अथ गावश् च गोपाश् च निदाघातपपीडिताः । दुष्टं जलं पपुस् तस्यास् तृष्णार्ता विषदूषितम् ॥ 48 ॥

श्लोक 10.15.49

विषाम्भस् तद् उपस्पृश्य दैवोपहतचेतसः । निपेतुर् व्यसवः सर्वे सलिलान्ते कुरूद्वह ॥ 49 ॥

श्लोक 10.15.50

वीक्ष्य तान् वै तथाभूतान् कृष्णो योगेश्वरेश्वरः । ईक्षयामृतवर्षिण्या स्वनाथान् समजीवयत् ॥ 50 ॥

श्लोक 10.15.51

ते सम्प्रतीतस्मृतयः समुत्थाय जलान्तिकात् । आसन् सुविस्मिताः सर्वे वीक्षमाणाः परस्परम् ॥ 51 ॥

श्लोक 10.15.52

अन्वमंसत तद् राजन् गोविन्दानुग्रहेक्षितम् । पीत्वा विषं परेतस्य पुनर् उत्थानम् आत्मनः ॥ 52 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ