श्रीमद्भागवत दशम स्कन्ध अध्याय 16
श्रीमद्भागवत दशम स्कन्ध अध्याय 16 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.16.1
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः । तस्या विशुद्धिम् अन्विच्छन् सर्पं तम् उदवासयत् ॥ 1 ॥
श्लोक 10.16.2
कथम् अन्तर्जले ऽगाधे न्यगृह्णाद् भगवान् अहिम् । स वै बहुयुगावासं यथासीद् विप्र कथ्यताम् ॥ 2 ॥
श्लोक 10.16.3
ब्रह्मन् भगवतस् तस्य भूम्नः स्वच्छन्दवर्तिनः । गोपालोदारचरितं कस् तृप्येतामृतं जुषन् ॥ 3 ॥
श्लोक 10.16.4
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना । श्रप्यमाणपया यस्मिन् पतन्त्य् उपरिगाः खगाः ॥ 4 ॥
श्लोक 10.16.5
विप्रुष्मता विषदोर्मिमारुतेनाभिमर्शिताः । म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः ॥ 5 ॥
श्लोक 10.16.6
तं चण्डवेगविषवीर्यम् अवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः &अम्प्; कृष्णः कदम्बम् अधिरुह्य ततो ऽतितुङ्गम् आस्फोट्य गाढरशनो न्यपतद् विषोदे ॥ 6 ॥
श्लोक 10.16.7
सर्पह्रदः पुरुषसारनिपातवेगसङ्क्षोभितोरगविषोच्छ्वसिताम्बुराशिः । पर्यक् प्लुतो विषकषायबिभीषणोर्मिर् धावन् धनुःशतम् अनन्तबलस्य किं तत् ॥ 7 ॥
श्लोक 10.16.8
तस्य ह्रदे विहरतो भुजदण्डघूर्णवार्घोषम् अङ्ग वरवारणविक्रमस्य । आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत् तद् अमृष्यमाणः ॥ 8 ॥
श्लोक 10.16.9
तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् । क्रीडन्तम् अप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद ॥ 9 ॥
श्लोक 10.16.10
तं नागभोगपरिवीतम् अदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः । कृष्णे ऽर्पितात्मसुहृद्अर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः ॥ 10 ॥
श्लोक 10.16.11
गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः । कृष्णे न्यस्तेक्षणा भीता रुदन्त्य इव तस्थिरे ॥ 11 ॥
श्लोक 10.16.12
अथ व्रजे महोत्पातास् त्रिविधा ह्य् अतिदारुणाः । उत्पेतुर् भुवि दिव्य् आत्मन्य् आसन्नभयशंसिनः ॥ 12 ॥
श्लोक 10.16.13
तान् आलक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः । विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम् ॥ 13 ॥
श्लोक 10.16.14
तैर् दुर्निमित्तैर् निधनं मत्वा प्राप्तम् अतद्विदः । तत्प्राणास् तन्मनस्कास् ते दुःखशोकभयातुराः ॥ 14 ॥
श्लोक 10.16.15
आबालवृद्धवनिताः सर्वे ऽङ्ग पशुवृत्तयः । निर्जग्मुर् गोकुलाद् दीनाः कृष्णदर्शनलालसाः ॥ 15 ॥
श्लोक 10.16.16
तांस् तथा कातरान् वीक्ष्य भगवान् माधवो बलः । प्रहस्य किञ्चिन् नोवाच प्रभावज्ञो ऽनुजस्य सः ॥ 16 ॥
श्लोक 10.16.17
ते ऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः । भगवल्लक्षणैर् जग्मुः पदव्या यमुनातटम् ॥ 17 ॥
श्लोक 10.16.18
ते तत्र तत्राब्जयवाङ्कुशाशनिध्वजोपपन्नानि पदानि विश्पतेः । मार्गे गवाम् अन्यपदान्तरान्तरे निरीक्षमाणा ययुर् अङ्ग सत्वराः ॥ 18 ॥
श्लोक 10.16.19
अन्तर् ह्रदे भुजगभोगपरीतम् आरात् कृष्णं निरीहम् उपलभ्य जलाशयान्ते &अम्प्; गोपांश् च मूढधिषणान् परितः पशूंश् च सङ्क्रन्दतः परमकश्मलम् आपुर् आर्ताः ॥ 19 ॥
श्लोक 10.16.20
गोप्यो ऽनुरक्तमनसो भगवत्य् अनन्ते तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः । ग्रस्ते ऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस् त्रिलोकम् ॥ 20 ॥
श्लोक 10.16.21
ताः कृष्णमातरम् अपत्यम् अनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः । तास् ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णानने ऽर्पितदृशो मृतकप्रतीकाः ॥ 21 ॥
श्लोक 10.16.22
कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् । प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित् ॥ 22 ॥
श्लोक 10.16.23
इत्थम् स्वगोकुलम् अनन्यगतिं निरीक्ष्य सस्त्रीकुमारम् अतिदुःखितम् आत्महेतोः &अम्प्; आज्ञाय मर्त्यपदवीम् अनुवर्तमानः स्थित्वा मुहूर्तम् उदतिष्ठद् उरङ्गबन्धात् ॥ 23 ॥
श्लोक 10.16.24
तत्प्रथ्यमानवपुषा व्यथितात्मभोगस् त्यक्त्वोन्नमय्य कुपितः स्वफणान् भुजङ्गः । तस्थौ श्वसञ् छ्वसनरन्ध्रविषाम्बरीषस्तब्धेक्षणोल्मुकमुखो हरिम् ईक्षमाणः ॥ 24 ॥
श्लोक 10.16.25
तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्वणी ह्य् अतिकरालविषाग्निदृष्टिम् । क्रीडन्न् अमुं परिससार यथा खगेन्द्रो बभ्राम सो ऽप्य् अवसरं प्रसमीक्षमाणः ॥ 25 ॥
श्लोक 10.16.26
एवं परिभ्रमहतौजसम् उन्नतांसम् आनम्य तत्पृथुशिरःस्व् अधिरूढ आद्यः । तन्मूर्धरत्ननिकरस्पर्शातिताम्रपादाम्बुजो ऽखिलकलादिगुरुर् ननर्त ॥ 26 ॥
श्लोक 10.16.27
तं नर्तुम् उद्यतम् अवेक्ष्य तदा तदीयगन्धर्वसिद्धमुनिचारणदेववध्वः । प्रीत्या मृदङ्गपणवानकवाद्यगीतपुष्पोपहारनुतिभिः सहसोपसेदुः ॥ 27 ॥
श्लोक 10.16.28
यद् यच् छिरो न नमते ऽङ्ग शतैकशीर्ष्णस् तत् तन् ममर्द खरदण्डधरो ऽङ्घ्रिपातैः । क्षीणायुषो भ्रमत उल्बणम् आस्यतो ऽसृङ् नस्तो वमन् परमकश्मलम् आप नागः ॥ 28 ॥
श्लोक 10.16.29
तस्याक्षिभिर् गरलम् उद्वमतः शिरःसु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः । नृत्यन् पदानुनमयन् दमयां बभूव पुष्पैः प्रपूजित इवेह पुमान् पुराणः ॥ 29 ॥
श्लोक 10.16.30
तच्चित्रताण्डवविरुग्नफणासहस्रो रक्तं मुखैर् उरु वमन् नृप भग्नगात्रः । स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तम् अरणं मनसा जगाम ॥ 30 ॥
श्लोक 10.16.31
कृष्णस्य गर्भजगतो ऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्नफणातपत्रम् । दृष्ट्वाहिम् आद्यम् उपसेदुर् अमुष्य पत्न्य आर्ताः श्लथद्वसनभूषणकेशबन्धाः ॥ 31 ॥
श्लोक 10.16.32
तास् तं सुविग्नमनसो ऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर् मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ॥ 32 ॥
श्लोक 10.16.33
न्याय्यो हि दण्डः कृतकिल्बिषे ऽस्मिंस् तवावतारः खलनिग्रहाय । रिपोः सुतानाम् अपि तुल्यदृष्टिर् धत्से दमं फलम् एवानुशंसन् ॥ 33 ॥
श्लोक 10.16.34
अनुग्रहो ऽयं भवतः कृतो हि नो दण्डो ऽसतां ते खलु कल्मषापहः । यद् दन्दशूकत्वम् अमुष्य देहिनः क्रोधो ऽपि ते ऽनुग्रह एव सम्मतः ॥ 34 ॥
श्लोक 10.16.35
तपः सुतप्तं किम् अनेन पूर्वं निरस्तमानेन च मानदेन । धर्मो ऽथ वा सर्वजनानुकम्पया यतो भवांस् तुष्यति सर्वजीवः ॥ 35 ॥
श्लोक 10.16.36
कस्यानुभावो ऽस्य न देव विद्महे तवाङ्घ्रिरेणुस्परशाधिकारः । यद्वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृतव्रता ॥ 36 ॥
श्लोक 10.16.37
न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् &अम्प्; न योगसिद्धीर् अपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः ॥ 37 ॥
श्लोक 10.16.38
तद् एष नाथाप दुरापम् अन्यैस् तमोजनिः क्रोधवशो ऽप्य् अहीशः । संसारचक्रे भ्रमतः शरीरिणो यद्इच्छतः स्याद् विभवः समक्षः ॥ 38 ॥
श्लोक 10.16.39
नमस् तुभ्यं भगवते पुरुषाय महात्मने । भूतावासाय भूताय पराय परमात्मने ॥ 39 ॥
श्लोक 10.16.40
ज्ञानविज्ञाननीधये ब्रह्मणे ऽनन्तशक्तये । अगुणायाविकाराय नमस् ते प्राकृताय च ॥ 40 ॥
श्लोक 10.16.41
कालाय कालनाभाय कालावयवसाक्षिणे । विश्वाय तद्उपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे ॥ 41 ॥
श्लोक 10.16.42
भूतमात्रेन्द्रियप्राणमनोबुद्ध्य्आशयात्मने । त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये ॥ 42 ॥
श्लोक 10.16.43
नमो ऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते । नानावादानुरोधाय वाच्यवाचकशक्तये ॥ 43 ॥
श्लोक 10.16.44
नमः प्रमाणमूलाय कवये शास्त्रयोनये । प्रवृत्ताय निवृत्ताय निगमाय नमो नमः ॥ 44 ॥
श्लोक 10.16.45
नमः कृष्णाय रामाय वसुदेवसुताय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ 45 ॥
श्लोक 10.16.46
नमो गुणप्रदीपाय गुणात्मच्छादनाय च । गुणवृत्त्य्उपलक्ष्याय गुणद्रष्ट्रे स्वसंविदे ॥ 46 ॥
श्लोक 10.16.47
अव्याकृतविहाराय सर्वव्याकृतसिद्धये । हृषीकेश नमस् ते ऽस्तु मुनये मौनशीलिने ॥ 47 ॥
श्लोक 10.16.48
परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः । अविश्वाय च विश्वाय तद्द्रष्ट्रे ऽस्य च हेतवे ॥ 48 ॥
श्लोक 10.16.49
त्वं ह्य् अस्य जन्मस्थितिसंयमान् विभो गुणैर् अनीहो ऽकृतकालशक्तिधृक् &अम्प्; तत्तत्स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे ॥ 49 ॥
श्लोक 10.16.50
तस्यैव ते ऽमूस् तनवस् त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः । शान्ताः प्रियास् ते ह्य् अधुनावितुं सतां स्थातुश् च ते धर्मपरीप्सयेहतः ॥ 50 ॥
श्लोक 10.16.51
अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः । क्षन्तुम् अर्हसि शान्तात्मन् मूढस्य त्वाम् अजानतः ॥ 51 ॥
श्लोक 10.16.52
अनुगृह्णीष्व भगवन् प्राणांस् त्यजति पन्नगः । स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम् ॥ 52 ॥
श्लोक 10.16.53
विधेहि ते किङ्करीणाम् अनुष्ठेयं तवाज्ञया । यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात् ॥ 53 ॥
श्लोक 10.16.54
इत्थं स नागपत्नीभिर् भगवान् समभिष्टुतः । मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः ॥ 54 ॥
श्लोक 10.16.55
प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर् हरिम् । कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः ॥ 55 ॥
श्लोक 10.16.56
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः । स्वभावो दुस्त्यजो नाथ लोकानां यद् असद्ग्रहः ॥ 56 ॥
श्लोक 10.16.57
त्वया सृष्टम् इदं विश्वं धातर् गुणविसर्जनम् । नानास्वभाववीर्यौजोयोनिबीजाशयाकृति ॥ 57 ॥
श्लोक 10.16.58
वयं च तत्र भगवन् सर्पा जात्य्उरुमन्यवः । कथं त्यजामस् त्वन्मायां दुस्त्यजां मोहिताः स्वयम् ॥ 58 ॥
श्लोक 10.16.59
भवान् हि कारणं तत्र सर्वज्ञो जगद्ईश्वरः । अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः ॥ 59 ॥
श्लोक 10.16.60
इत्य् आकर्ण्य वचः प्राह भगवान् कार्यमानुषः । नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् । स्वज्ञात्य्अपत्यदाराढ्यो गोनृभिर् भुज्यते नदी ॥ 60 ॥
श्लोक 10.16.61
य एतत् संस्मरेन् मर्त्यस् तुभ्यं मद्अनुशासनम् । कीर्तयन्न् उभयोः सन्ध्योर् न युष्मद् भयम् आप्नुयात् ॥ 61 ॥
श्लोक 10.16.62
यो ऽस्मिन् स्नात्वा मद्आक्रीडे देवादींस् तर्पयेज् जलैः । उपोष्य मां स्मरन्न् अर्चेत् सर्वपापैः प्रमुच्यते ॥ 62 ॥
श्लोक 10.16.63
द्वीपं रमणकं हित्वा ह्रदम् एतम् उपाश्रितः । यद्भयात् स सुपर्णस् त्वां नाद्यान् मत्पादलाञ्छितम् ॥ 63 ॥
श्लोक 10.16.64
मुक्तो भगवता राजन् कृष्णेनाद्भुतकर्मणा । तं पूजयाम् आस मुदा नागपत्न्यश् च सादरम् ॥ 64 ॥
श्लोक 10.16.65
दिव्याम्बरस्रङ्मणिभिः परार्ध्यैर् अपि भूषणैः । दिव्यगन्धानुलेपैश् च महत्योत्पलमालया ॥ 65 ॥
श्लोक 10.16.66
पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् । ततः प्रीतो ऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम् ॥ 66 ॥
श्लोक 10.16.67
सकलत्रसुहृत्पुत्रो द्वीपम् अब्धेर् जगाम ह । तदैव सामृतजला यमुना निर्विषाभवत् । अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः ॥ 67 ॥