मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 17

श्रीमद्भागवत दशम स्कन्ध अध्याय 17 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.17.1

नागालयं रमणकं कथं तत्याज कालियः । कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम् ॥ 1 ॥

श्लोक 10.17.2

उपहार्यैः सर्पजनैर् मासि मासीह यो बलिः । वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः ॥ 2 ॥

श्लोक 10.17.3

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि । गोपीथायात्मनः सर्वे सुपर्णाय महात्मने ॥ 3 ॥

श्लोक 10.17.4

विषवीर्यमदाविष्टः काद्रवेयस् तु कालियः । कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम् ॥ 4 ॥

श्लोक 10.17.5

तच् छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः । विजिघांसुर् महावेगः कालियं समपाद्रवत् ॥ 5 ॥

श्लोक 10.17.6

तम् आपतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उत्थितनैकमस्तकः । दद्भिः सुपर्णं व्यदशद् दद्आयुधः करालजिह्रोच्छ्वसितोग्रलोचनः ॥ 6 ॥

श्लोक 10.17.7

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः &अम्प्; पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रुसुतम् उग्रविक्रमः ॥ 7 ॥

श्लोक 10.17.8

सुपर्णपक्षाभिहतः कालियो ऽतीव विह्वलः । ह्रदं विवेश कालिन्द्यास् तद्अगम्यं दुरासदम् ॥ 8 ॥

श्लोक 10.17.9

तत्रैकदा जलचरं गरुडो भक्ष्यम् ईप्सितम् । निवारितः सौभरिणा प्रसह्य क्षुधितो ऽहरत् ॥ 9 ॥

श्लोक 10.17.10

मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते । कृपया सौभरिः प्राह तत्रत्यक्षेमम् आचरन् ॥ 10 ॥

श्लोक 10.17.11

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति । सद्यः प्राणैर् वियुज्येत सत्यम् एतद् ब्रवीम्य् अहम् ॥ 11 ॥

श्लोक 10.17.12

तत् कालियः परं वेद नान्यः कश्चन लेलिहः । अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः ॥ 12 ॥

श्लोक 10.17.13

कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग्गन्धवाससम् । महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम् ॥ 13 ॥

श्लोक 10.17.14

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः । प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे ॥ 14 ॥

श्लोक 10.17.15

यशोदा रोहिणी नन्दो गोप्यो गोपाश् च कौरव । कृष्णं समेत्य लब्धेहा आसन् शुष्का नगा अपि ॥ 15 ॥

श्लोक 10.17.16

रामश् चाच्युतम् आलिङ्ग्य जहासास्यानुभाववित् । प्रेम्णा तम् अङ्कम् आरोप्य पुनः पुनर् उदैक्षत । गावो वृषा वत्सतर्यो लेभिरे परमां मुदम् ॥ 16 ॥

श्लोक 10.17.17

नन्दं विप्राः समागत्य गुरवः सकलत्रकाः । ऊचुस् ते कालियग्रस्तो दिष्ट्या मुक्तस् तवात्मजः ॥ 17 ॥

श्लोक 10.17.18

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे । नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत् ॥ 18 ॥

श्लोक 10.17.19

यशोदापि महाभागा नष्टलब्धप्रजा सती । परिष्वज्याङ्कम् आरोप्य मुमोचाश्रुकलां मुहुः ॥ 19 ॥

श्लोक 10.17.20

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः । ऊषुर् व्रयौकसो गावः कालिन्द्या उपकूलतः ॥ 20 ॥

श्लोक 10.17.21

तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् । सुप्तं निशीथ आवृत्य प्रदग्धुम् उपचक्रमे ॥ 21 ॥

श्लोक 10.17.22

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः । कृष्णं ययुस् ते शरणं मायामनुजम् ईश्वरम् ॥ 22 ॥

श्लोक 10.17.23

कृष्ण कृष्ण महाभग हे रामामितविक्रम । एष घोरतमो वह्निस् तावकान् ग्रसते हि नः ॥ 23 ॥

श्लोक 10.17.24

सुदुस्तरान् नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो । न शक्नुमस् त्वच्चरणं सन्त्यक्तुम् अकुतोभयम् ॥ 24 ॥

श्लोक 10.17.25

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगद्ईश्वरः । तम् अग्निम् अपिबत् तीव्रम् अनन्तो ऽनन्तशक्तिधृक् ॥ 25 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ