श्रीमद्भागवत दशम स्कन्ध अध्याय 18
श्रीमद्भागवत दशम स्कन्ध अध्याय 18 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.18.1
अथ कृष्णः परिवृतो ज्ञातिभिर् मुदितात्मभिः । अनुगीयमानो न्यविशद् व्रजं गोकुलमण्डितम् ॥ 1 ॥
श्लोक 10.18.2
व्रजे विक्रीडतोर् एवं गोपालच्छद्ममायया । ग्रीष्मो नामर्तुर् अभवन् नातिप्रेयाञ् छरीरिणाम् ॥ 2 ॥
श्लोक 10.18.3
स च वृन्दावनगुणैर् वसन्त इव लक्षितः । यत्रास्ते भगवान् साक्षाद् रामेण सह केशवः ॥ 3 ॥
श्लोक 10.18.4
यत्र निर्झरनिर्ह्रादनिवृत्तस्वनझिल्लिकम् । शश्वत् तच्छीकरर्जीषद्रुममण्डलमण्डितम् ॥ 4 ॥
श्लोक 10.18.5
सरित्सरःप्रस्रवणोर्मिवायुना कह्लारकञ्जोत्पलरेणुहारिणा । न विद्यते यत्र वनौकसां दवो निदाघवह्न्य्अर्कभवो ऽतिशाद्वले ॥ 5 ॥
श्लोक 10.18.6
अगाधतोयह्रदिनीतटोर्मिभिर् द्रवत्पुरीष्याः पुलिनैः समन्ततः । न यत्र चण्डांशुकरा विषोल्बणा भुवो रसं शाद्वलितं च गृह्णते ॥ 6 ॥
श्लोक 10.18.7
वनं कुसुमितं श्रीमन् नदच्चित्रमृगद्विजम् । गायन् मयूरभ्रमरं कूजत्कोकिलसारसम् ॥ 7 ॥
श्लोक 10.18.8
क्रीडिष्यमाणस् तत् क्र्ष्णो भगवान् बलसंयुतः । वेणुं विरणयन् गोपैर् गोधनैः संवृतो ऽविशत् ॥ 8 ॥
श्लोक 10.18.9
प्रवालबर्हस्तबकस्रग्धातुकृतभूषणाः । रामकृष्णादयो गोपा ननृतुर् युयुधुर् जगुः ॥ 9 ॥
श्लोक 10.18.10
कृष्णस्य नृत्यतः केचिज् जगुः केचिद् अवादयन् । वेणुपाणितलैः शृङ्गैः प्रशशंसुर् अथापरे ॥ 10 ॥
श्लोक 10.18.11
गोपजातिप्रतिच्छन्ना देवा गोपालरूपिणौ । ईडिरे कृष्णरामौ च नटा इव नटं नृप ॥ 11 ॥
श्लोक 10.18.12
भ्रमणैर् लङ्घनैः क्षेपैर् आस्फोटनविकर्षणैः । चिक्रीडतुर् नियुद्धेन काकपक्षधरौ क्वचित् ॥ 12 ॥
श्लोक 10.18.13
क्वचिन् नृत्यत्सु चान्येषु गायकौ वादकौ स्वयम् । शशंसतुर् महाराज साधु साध्व् इति वादिनौ ॥ 13 ॥
श्लोक 10.18.14
क्वचिद् बिल्वैः क्वचित् कुम्भैः क्वचामलकमुष्टिभिः । अस्पृश्यनेत्रबन्धाद्यैः क्वचिन् मृगखगेहया ॥ 14 ॥
श्लोक 10.18.15
क्वचिच् च दर्दुरप्लावैर् विविधैर् उपहासकैः । कदाचित् स्यन्दोलिकया कर्हिचिन् नृपचेष्टया ॥ 15 ॥
श्लोक 10.18.16
एवं तौ लोकसिद्धाभिः क्रीडाभिश् चेरतुर् वने । नद्य्अद्रिद्रोणिकुञ्जेषु काननेषु सरःसु च ॥ 16 ॥
श्लोक 10.18.17
पशूंश् चारयतोर् गोपैस् तद्वने रामकृष्णयोः । गोपरूपी प्रलम्बो ऽगाद् असुरस् तज्जिहीर्षया ॥ 17 ॥
श्लोक 10.18.18
तं विद्वान् अपि दाशार्हो भगवान् सर्वदर्शनः । अन्वमोदत तत्सख्यं वधं तस्य विचिन्तयन् ॥ 18 ॥
श्लोक 10.18.19
तत्रोपाहूय गोपालान् कृष्णः प्राह विहारवित् । हे गोपा विहरिष्यामो द्वन्द्वीभूय यथायथम् ॥ 19 ॥
श्लोक 10.18.20
तत्र चक्रुः परिवृढौ गोपा रामजनार्दनौ । कृष्णसङ्घट्टिनः केचिद् आसन् रामस्य चापरे ॥ 20 ॥
श्लोक 10.18.21
आचेरुर् विविधाः क्रीडा वाह्यवाहकलक्षणाः । यत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ 21 ॥
श्लोक 10.18.22
वहन्तो वाह्यमानाश् च चारयन्तश् च गोधनम् । भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥ 22 ॥
श्लोक 10.18.23
रामसङ्घट्टिनो यर्हि श्रीदामवृषभादयः । क्रीडायां जयिनस् तांस् तान् ऊहुः कृष्णादयो नृप ॥ 23 ॥
श्लोक 10.18.24
उवाह कृष्णो भगवान् श्रीदामानं पराजितः । वृषभं भद्रसेनस् तु प्रलम्बो रोहिणीसुतम् ॥ 24 ॥
श्लोक 10.18.25
अविषह्यं मन्यमानः कृष्णं दानवपुङ्गवः । वहन् द्रुततरं प्रागाद् अवरोहणतः परम् ॥ 25 ॥
श्लोक 10.18.26
तम् उद्वहन् धरणिधरेन्द्रगौरवं महासुरो विगतरयो निजं वपुः &अम्प्; स आस्थितः पुरटपरिच्छदो बभौ तडिद्द्युमान् उडुपतिवाड् इवाम्बुदः ॥ 26 ॥
श्लोक 10.18.27
निरीक्ष्य तद्वपुर् अलम् अम्बरे चरत् प्रदीप्तदृग् भ्रुकुटितटोग्रदंष्ट्रकम् । ज्वलच्छिखं कटककिरीटकुण्डलत्विषाद्भुतं हलधर ईषद् अत्रसत् ॥ 27 ॥
श्लोक 10.18.28
अथागतस्मृतिर् अभयो रिपुं बलो विहाय सार्थम् इव हरन्तम् आत्मनः । रुषाहनच् छिरसि दृढेन मुष्टिना सुराधिपो गिरिम् इव वज्ररंहसा ॥ 28 ॥
श्लोक 10.18.29
स आहतः सपदि विशीर्णमस्तको मुखाद् वमन् रुधिरम् अपस्मृतो ऽसुरः । महारवं व्यसुर् अपतत् समीरयन् गिरिर् यथा मघवत आयुधाहतः ॥ 29 ॥
श्लोक 10.18.30
दृष्ट्वा प्रलम्बं निहतं बलेन बलशालिना । गोपाः सुविस्मिता आसन् साधु साध्व् इति वादिनः ॥ 30 ॥
श्लोक 10.18.31
आशिषो ऽभिगृणन्तस् तं प्रशशंसुस् तद्अर्हणम् । प्रेत्यागतम् इवालिङ्ग्य प्रेमविह्वलचेतसः ॥ 31 ॥
श्लोक 10.18.32
पापे प्रलम्बे निहते देवाः परमनिर्वृताः । अभ्यवर्षन् बलं माल्यैः शशंसुः साधु साध्व् इति ॥ 32 ॥