श्रीमद्भागवत दशम स्कन्ध अध्याय 19
श्रीमद्भागवत दशम स्कन्ध अध्याय 19 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.19.1
क्रीडासक्तेषु गोपेषु तद्गावो दूरचारिणीः । स्वैरं चरन्त्यो विविशुस् तृणलोभेन गह्वरम् ॥ 1 ॥
श्लोक 10.19.2
अजा गावो महिष्यश् च निर्विशन्त्यो वनाद् वनम् । ईषीकाटवीं निर्विविशुः क्रन्दन्त्यो दावतर्षिताः ॥ 2 ॥
श्लोक 10.19.3
ते ऽपश्यन्तः पशून् गोपाः कृष्णरामादयस् तदा । जातानुतापा न विदुर् विचिन्वन्तो गवां गतिम् ॥ 3 ॥
श्लोक 10.19.4
तृणैस् तत्खुरदच्छिन्नैर् गोष्पदैर् अङ्कितैर् गवाम् । मार्गम् अन्वगमन् सर्वे नष्टाजीव्या विचेतसः ॥ 4 ॥
श्लोक 10.19.5
मुञ्जाटव्यां भ्रष्टमार्गं क्रन्दमानं स्वगोधनम् । सम्प्राप्य तृषिताः श्रान्तास् ततस् ते सन्न्यवर्तयन् ॥ 5 ॥
श्लोक 10.19.6
ता आहूता भगवता मेघगम्भीरया गिरा । स्वनाम्नां निनदं श्रुत्वा प्रतिनेदुः प्रहर्षिताः ॥ 6 ॥
श्लोक 10.19.7
ततः समन्ताद् दवधूमकेतुर् यदृच्छयाभूत् क्षयकृद् वनौकसाम् । समीरितः सारथिनोल्बणोल्मुकैर् विलेलिहानः स्थिरजङ्गमान् महान् ॥ 7 ॥
श्लोक 10.19.8
तम् आपतन्तं परितो दवाग्निं गोपाश् च गावः प्रसमीक्ष्य भीताः । ऊचुश् च कृष्णं सबलं प्रपन्ना यथा हरिं मृत्युभयार्दिता जनाः ॥ 8 ॥
श्लोक 10.19.9
कृष्ण कृष्ण महावीर हे रामामोघ विक्रम । दावाग्निना दह्यमानान् प्रपन्नांस् त्रातुम् अर्हथः ॥ 9 ॥
श्लोक 10.19.10
नूनं त्वद्बान्धवाः कृष्ण न चार्हन्त्य् अवसादितुम् । वयं हि सर्वधर्मज्ञ त्वन्नाथास् त्वत्परायणाः ॥ 10 ॥
श्लोक 10.19.11
वचो निशम्य कृपणं बन्धूनां भगवान् हरिः । निमीलयत मा भैष्ट लोचनानीत्य् अभाषत ॥ 11 ॥
श्लोक 10.19.12
तथेति मीलिताक्षेषु भगवान् अग्निम् उल्बणम् । पीत्वा मुखेन तान् कृच्छ्राद् योगाधीशो व्यमोचयत् ॥ 12 ॥
श्लोक 10.19.13
ततश् च ते ऽक्षीण्य् उन्मील्य पुनर् भाण्डीरम् आपिताः । निशम्य विस्मिता आसन्न् आत्मानं गाश् च मोचिताः ॥ 13 ॥
श्लोक 10.19.14
कृष्णस्य योगवीर्यं तद् योगमायानुभावितम् । दावाग्नेर् आत्मनः क्षेमं वीक्ष्य ते मेनिरे ऽमरम् ॥ 14 ॥
श्लोक 10.19.15
गाः सन्निवर्त्य सायाह्ने सहरामो जनार्दनः । वेणुं विरणयन् गोष्ठम् अगाद् गोपैर् अभिष्टुतः ॥ 15 ॥
श्लोक 10.19.16
गोपीनां परमानन्द आसीद् गोविन्ददर्शने । क्षणं युगशतम् इव यासां येन विनाभवत् ॥ 16 ॥