मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 20

श्रीमद्भागवत दशम स्कन्ध अध्याय 20 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.20.1

तयोस् तद् अद्भुतं कर्म दावाग्नेर् मोक्षम् आत्मनः । गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधम् एव च ॥ 1 ॥

श्लोक 10.20.2

गोपवृद्धाश् च गोप्यश् च तद् उपाकर्ण्य विस्मिताः । मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ ॥ 2 ॥

श्लोक 10.20.3

ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा । विद्योतमानपरिधिर् विस्फूर्जितनभस्तला ॥ 3 ॥

श्लोक 10.20.4

सान्द्रनीलाम्बुदैर् व्योम सविद्युत्स्तनयित्नुभिः । अस्पष्टज्योतिर् आच्छन्नं ब्रह्मेव सगुणं बभौ ॥ 4 ॥

श्लोक 10.20.5

अष्टौ मासान् निपीतं यद् भूम्याश् चोदमयं वसु । स्वगोभिर् मोक्तुम् आरेभे पर्जन्यः काल आगते ॥ 5 ॥

श्लोक 10.20.6

तडिद्वन्तो महामेघाश् चण्ड -श्वसन -वेपिताः । प्रीणनं जीवनं ह्य् अस्य मुमुचुः करुणा इव ॥ 6 ॥

श्लोक 10.20.7

तपःकृशा देवमीढा आसीद् वर्षीयसी मही । यथैव काम्यतपसस् तनुः सम्प्राप्य तत्फलम् ॥ 7 ॥

श्लोक 10.20.8

निशामुखेषु खद्योतास् तमसा भान्ति न ग्रहाः । यथा पापेन पाषण्डा न हि वेदाः कलौ युगे ॥ 8 ॥

श्लोक 10.20.9

श्रुत्वा पर्जन्यनिनदं मण्डुकाः ससृजुर् गिरः । तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये ॥ 9 ॥

श्लोक 10.20.10

आसन्न् उत्पथगामिन्यः क्षुद्रनद्यो ऽनुशुष्यतीः । पुंसो यथास्वतन्त्रस्य देहद्रविण -सम्पदः ॥ 10 ॥

श्लोक 10.20.11

हरिता हरिभिः शष्पैर् इन्द्रगोपैश् च लोहिता । उच्छिलीन्ध्रकृतच्छाया नृणां श्रीर् इव भूर् अभूत् ॥ 11 ॥

श्लोक 10.20.12

क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः । मानिनाम् अनुतापं वै दैवाधीनम् अजानताम् ॥ 12 ॥

श्लोक 10.20.13

जलस्थलौकसः सर्वे नववारिनिषेवया । अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया ॥ 13 ॥

श्लोक 10.20.14

सरिद्भिः सङ्गतः सिन्धुश् चुक्षोभ श्वसनोर्मिमान् । अपक्वयोगिनश् चित्तं कामाक्तं गुणयुग् यथा ॥ 14 ॥

श्लोक 10.20.15

गिरयो वर्षधाराभिर् हन्यमाना न विव्यथुः । अभिभूयमाना व्यसनैर् यथाधोक्षजचेतसः ॥ 15 ॥

श्लोक 10.20.16

मार्गा बभूवुः सन्दिग्धास् तृणैश् छन्ना ह्य् असंस्कृताः । नाभ्यस्यमानाः श्रुतयो द्विजैः कालेन चाहताः ॥ 16 ॥

श्लोक 10.20.17

लोकबन्धुषु मेघेषु विद्युतश् चलसौहृदाः । स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्व् इव ॥ 17 ॥

श्लोक 10.20.18

धनुर् वियति माहेन्द्रं निर्गुणं च गुणिन्य् अभात् । व्यक्ते गुणव्यतिकरे ऽगुणवान् पुरुषो यथा ॥ 18 ॥

श्लोक 10.20.19

न रराजोडुपश् छन्नः स्वज्योत्स्नाराजितैर् घनैः । अहंमत्या भासितया स्वभासा पुरुषो यथा ॥ 19 ॥

श्लोक 10.20.20

मेघागमोत्सवा हृष्टाः प्रत्यनन्दञ् छिखण्डिनः । गृहेषु तप्तनिर्विण्णा यथाच्युतजनागमे ॥ 20 ॥

श्लोक 10.20.21

पीत्वापः पादपाः पद्भिर् आसन् नानात्ममूर्तयः । प्राक् क्षामास् तपसा श्रान्ता यथा कामानुसेवया ॥ 21 ॥

श्लोक 10.20.22

सरःस्व् अशान्तरोधःसु न्यूषुर् अङ्गापि सारसाः । गृहेष्व् अशान्तकृत्येषु ग्राम्या इव दुराशयाः ॥ 22 ॥

श्लोक 10.20.23

जलौघैर् निरभिद्यन्त सेतवो वर्षतीश्वरे । पाषण्डिनाम् असद्वादैर् वेदमार्गाः कलौ यथा ॥ 23 ॥

श्लोक 10.20.24

व्यमुञ्चन् वायुभिर् नुन्ना भूतेभ्यश् चामृतं घनाः । यथाशिषो विश्पतयः काले काले द्विजेरिताः ॥ 24 ॥

श्लोक 10.20.25

एवं वनं तद् वर्षिष्ठं पक्वखर्जुरजम्बुमत् । गोगोपालैर् वृतो रन्तुं सबलः प्राविशद् धरिः ॥ 25 ॥

श्लोक 10.20.26

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा । ययुर् भगवताहूता द्रुतं प्रीत्या स्नुतस्तनाः ॥ 26 ॥

श्लोक 10.20.27

वनौकसः प्रमुदिता वनराजीर् मधुच्युतः । जलधारा गिरेर् नादाद् आसन्ना ददृशे गुहाः ॥ 27 ॥

श्लोक 10.20.28

क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति । निर्विश्य भगवान् रेमे कन्दमूलफलाशनः ॥ 28 ॥

श्लोक 10.20.29

दध्य्ओदनं समानीतं शिलायां सलिलान्तिके । सम्भोजनीयैर् बुभुजे गोपैः सङ्कर्षणान्वितः ॥ 29 ॥

श्लोक 10.20.30

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् । तृप्तान् वृषान् वत्सतरान् गाश् च स्वोधोभरश्रमाः ॥ 30 ॥

श्लोक 10.20.31

प्रावृट्श्रियं च तां वीक्ष्य सर्वकालसुखावहाम् । भगवान् पूजयां चक्रे आत्मशक्त्य्उपबृंहिताम् ॥ 31 ॥

श्लोक 10.20.32

एवं निवसतोस् तस्मिन् रामकेशवयोर् व्रजे । शरत् समभवद् व्यभ्रा स्वच्छाम्ब्व्अपरुषानिला ॥ 32 ॥

श्लोक 10.20.33

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः । भ्रष्टानाम् इव चेतांसि पुनर् योगनिषेवया ॥ 33 ॥

श्लोक 10.20.34

व्योम्नो ऽब्भ्रं भूतशाबल्यं भुवः पङ्कम् अपां मलम् । शरज् जहाराश्रमिणां कृष्णे भक्तिर् यथाशुभम् ॥ 34 ॥

श्लोक 10.20.35

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः । यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः ॥ 35 ॥

श्लोक 10.20.36

गिरयो मुमुचुस् तोयं क्वचिन् न मुमुचुः शिवम् । यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा ॥ 36 ॥

श्लोक 10.20.37

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः । यथायुर् अन्व्अहं क्षय्यं नरा मूढाः कुटुम्बिनः ॥ 37 ॥

श्लोक 10.20.38

गाधवारिचरास् तापम् अविन्दञ् छरद्अर्कजम् । यथा दरिद्रः कृपणः कुटुम्ब्य् अविजितेन्द्रियः ॥ 38 ॥

श्लोक 10.20.39

शनैः शनैर् जहुः पङ्कं स्थलान्य् आमं च वीरुधः । यथाहंममतां धीराः शरीरादिष्व् अनात्मसु ॥ 39 ॥

श्लोक 10.20.40

निश्चलाम्बुर् अभूत् तूष्णीं समुद्रः शरद्आगमे । आत्मन्य् उपरते सम्यङ् मुनिर् व्युपरतागमः ॥ 40 ॥

श्लोक 10.20.41

केदारेभ्यस् त्व् अपो ऽगृह्णन् कर्षका दृढसेतुभिः । यथा प्राणैः स्रवज् ज्ञानं तन्निरोधेन योगिनः ॥ 41 ॥

श्लोक 10.20.42

शरद्अर्कांशुजांस् तापान् भूतानाम् उडुपो ऽहरत् । देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम् ॥ 42 ॥

श्लोक 10.20.43

खम् अशोभत निर्मेघं शरद्विमलतारकम् । सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम् ॥ 43 ॥

श्लोक 10.20.44

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी । यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि ॥ 44 ॥

श्लोक 10.20.45

आश्लिष्य समशीतोष्णं प्रसूनवनमारुतम् । जनास् तापं जहुर् गोप्यो न कृष्णहृतचेतसः ॥ 45 ॥

श्लोक 10.20.46

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् । अन्वीयमानाः स्ववृषैः फलैर् ईशक्रिया इव ॥ 46 ॥

श्लोक 10.20.47

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना । राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप ॥ 47 ॥

श्लोक 10.20.48

पुरग्रामेष्व् आग्रयणैर् इन्द्रियैश् च महोत्सवैः । बभौ भूः पक्वशष्याढ्या कलाभ्यां नितरां हरेः ॥ 48 ॥

श्लोक 10.20.49

वणिङ्मुनिनृपस्नाता निर्गम्यार्थान् प्रपेदिरे । वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते ॥ 49 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ