मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 3

श्रीमद्भागवत दशम स्कन्ध अध्याय 3 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.3.1

अथ सर्वगुणोपेतः कालः परमशोभनः । यर्ह्य् एवाजनजन्मर्क्षं शान्तर्क्षग्रहतारकम् ॥ 1 ॥

श्लोक 10.3.2

दिशः प्रसेदुर् गगनं निर्मलोडुगणोदयम् । मही मङ्गलभूयिष्ठपुरग्रामव्रजाकरा ॥ 2 ॥

श्लोक 10.3.3

नद्यः प्रसन्नसलिला ह्रदा जलरुहश्रियः । द्विजालिकुलसन्नादस्तवका वनराजयः ॥ 3 ॥

श्लोक 10.3.4

ववौ वायुः सुखस्पर्शः पुण्यगन्धवहः शुचिः । अग्नयश् च द्विजातीनां शान्तास् तत्र समिन्धत ॥ 4 ॥

श्लोक 10.3.5

मनांस्य् आसन् प्रसन्नानि साधूनाम् असुरद्रुहाम् । जायमाने ऽजने तस्मिन् नेदुर् दुन्दुभयः समम् ॥ 5 ॥

श्लोक 10.3.6

जगुः किन्नरगन्धर्वास् तुष्टुवुः सिद्धचारणाः । विद्याधर्यश् च ननृतुर् अप्सरोभिः समं मुदा ॥ 6 ॥

श्लोक 10.3.7

मुमुचुर् मुनयो देवाः सुमनांसि मुदान्विताः । मन्दं मन्दं जलधरा जगर्जुर् अनुसागरम् ॥ 7 ॥

श्लोक 10.3.8

निशीथे तमउद्भूते जायमाने जनार्दने । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥ 8 ॥

श्लोक 10.3.9

तम् अद्भुतं बालकम् अम्बुजेक्षणं चतुर्भुजं शङ्खगदाद्य्उदायुधम् । श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभगम् ॥ 9 ॥

श्लोक 10.3.10

महार्हवैदूर्यकिरीटकुण्डलत्विषा परिष्वक्तसहस्रकुन्तलम् । उद्दामकाञ्च्य्अङ्गदकङ्कणादिभिर् विरोचमानं वसुदेव ऐक्षत ॥ 10 ॥

श्लोक 10.3.11

स विस्मयोत्फुल्लविलोचनो हरिं सुतं विलोक्यानकदुन्दुभिस् तदा । कृष्णावतारोत्सवसम्भ्रमो ऽस्पृशन् मुदा द्विजेभ्यो ऽयुतम् आप्लुतो गवाम् ॥ 11 ॥

श्लोक 10.3.12

अथैनम् अस्तौद् अवधार्य पूरुषं परं नताङ्गः कृतधीः कृताञ्जलिः । स्वरोचिषा भारत सूतिकागृहं विरोचयन्तं गतभीः प्रभाववित् ॥ 12 ॥

श्लोक 10.3.13

विदितो ऽसि भवान् साक्षात् पुरुषः प्रकृतेः परः । केवलानुभवानन्दस्वरूपः सर्वबुद्धिदृक् ॥ 13 ॥

श्लोक 10.3.14

स एव स्वप्रकृत्येदं सृष्ट्वाग्रे त्रिगुणात्मकम् । तद् अनु त्वं ह्य् अप्रविष्टः प्रविष्ट इव भाव्यसे ॥ 14 ॥

श्लोक 10.3.15

यथेमे ऽविकृता भावास् तथा ते विकृतैः सह । नानावीर्याः पृथग्भूता विराजं जनयन्ति हि ॥ 15 ॥

श्लोक 10.3.16

सन्निपत्य समुत्पाद्य दृश्यन्ते ऽनुगता इव । प्राग् एव विद्यमानत्वान् न तेषाम् इह सम्भवः ॥ 16 ॥

श्लोक 10.3.17

एवं भवान् बुद्ध्य्अनुमेयलक्षणैर् ग्राह्यैर् गुणैः सन्न् अपि तद्गुणाग्रहः । अनावृतत्वाद् बहिर् अन्तरं न ते सर्वस्य सर्वात्मन आत्मवस्तुनः ॥ 17 ॥

श्लोक 10.3.18

य आत्मनो दृश्यगुणेषु सन्न् इति व्यवस्यते स्वव्यतिरेकतो ऽबुधः । विनानुवादं न च तन् मनीषितं सम्यग् यतस् त्यक्तम् उपाददत् पुमान् ॥ 18 ॥

श्लोक 10.3.19

त्वत्तो ऽस्य जन्मस्थितिसंयमान् विभो वदन्त्य् अनीहाद् अगुणाद् अविक्रियात् &अम्प्; त्वयीश्वरे ब्रह्मणि नो विरुध्यते त्वद्आश्रयत्वाद् उपचर्यते गुणैः ॥ 19 ॥

श्लोक 10.3.20

स त्वं त्रिलोकस्थितये स्वमायया बिभर्षि शुक्लं खलु वर्णम् आत्मनः । सर्गाय रक्तं रजसोपबृंहितं कृष्णं च वर्णं तमसा जनात्यये ॥ 20 ॥

श्लोक 10.3.21

त्वम् अस्य लोकस्य विभो रिरक्षिषुर् गृहे ऽवतीर्णो ऽसि ममाखिलेश्वर । राजन्यसंज्ञासुरकोटियूथपैर् निर्व्यूह्यमाना निहनिष्यसे चमूः ॥ 21 ॥

श्लोक 10.3.22

अयं त्व् असभ्यस् तव जन्म नौ गृहे श्रुत्वाग्रजांस् ते न्यवधीत् सुरेश्वर &अम्प्; स ते ऽवतारं पुरुषैः समर्पितं श्रुत्वाधुनैवाभिसरत्य् उदायुधः ॥ 22 ॥

श्लोक 10.3.23

अथैनम् आत्मजं वीक्ष्य महापुरुषलक्षणम् । देवकी तम् उपाधावत् कंसाद् भीता सुविस्मिता ॥ 23 ॥

श्लोक 10.3.24

रूपं यत् तत् प्राहुर् अव्यक्तम् आद्यं ब्रह्म ज्योतिर् निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुर् अध्यात्मदीपः ॥ 24 ॥

श्लोक 10.3.25

नष्टे लोके द्विपरार्धावसाने महाभूतेष्व् आदिभूतं गतेषु । व्यक्ते ऽव्यक्तं कालवेगेन याते भवान् एकः शिष्यते ऽशेषसंज्ञः ॥ 25 ॥

श्लोक 10.3.26

यो ऽयं कालस् तस्य ते ऽव्यक्तबन्धो चेष्टाम् आहुश् चेष्टते येन विश्वम् &अम्प्; निमेषादिर् वत्सरान्तो महीयांस् तं त्वेशानं क्षेमधाम प्रपद्ये ॥ 26 ॥

श्लोक 10.3.27

मर्त्यो मृत्युव्यालभीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ 27 ॥

श्लोक 10.3.28

स त्वं घोराद् उग्रसेनात्मजान् नस् त्राहि त्रस्तान् भृत्यवित्रासहासि । रूपं चेदं पौरुषं ध्यानधिष्ण्यं मा प्रत्यक्षं मांसदृशां कृषीष्ठाः ॥ 28 ॥

श्लोक 10.3.29

जन्म ते मय्य् असौ पापो मा विद्यान् मधुसूदन । समुद्विजे भवद्धेतोः कंसाद् अहम् अधीरधीः ॥ 29 ॥

श्लोक 10.3.30

उपसंहर विश्वात्मन्न् अदो रूपम् अलौकिकम् । शङ्खचक्रगदापद्मश्रिया जुष्टं चतुर्भुजम् ॥ 30 ॥

श्लोक 10.3.31

विश्वं यद् एतत् स्वतनौ निशान्ते यथावकाशं पुरुषः परो भवान् । बिभर्ति सो ऽयं मम गर्भगो ऽभूद् अहो नृलोकस्य विडम्बनं हि तत् ॥ 31 ॥

श्लोक 10.3.32

त्वम् एव पूर्वसर्गे ऽभूः पृश्निः स्वायम्भुवे सति । तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥ 32 ॥

श्लोक 10.3.33

युवां वै ब्रह्मणादिष्टौ प्रजासर्गे यदा ततः । सन्नियम्येन्द्रियग्रामं तेपाथे परमं तपः ॥ 33 ॥

श्लोक 10.3.34

वर्षवातातपहिमघर्मकालगुणान् अनु । सहमानौ श्वासरोधविनिर्धूतमनोमलौ ॥ 34 ॥

श्लोक 10.3.35

शीर्णपर्णानिलाहाराव् उपशान्तेन चेतसा । मत्तः कामान् अभीप्सन्तौ मद्आराधनम् ईहतुः ॥ 35 ॥

श्लोक 10.3.36

एवं वां तप्यतोस् तीव्रं तपः परमदुष्करम् । दिव्यवर्षसहस्राणि द्वादशेयुर् मद्आत्मनोः ॥ 36 ॥

श्लोक 10.3.37

तदा वां परितुष्टो ऽहम् अमुना वपुषानघे । तपसा श्रद्धया नित्यं भक्त्या च हृदि भावितः ॥ 37 ॥

श्लोक 10.3.38

प्रादुरासं वरदराड् युवयोः कामदित्सया । व्रियतां वर इत्य् उक्ते मादृशो वां वृतः सुतः ॥ 38 ॥

श्लोक 10.3.39

अजुष्टग्राम्यविषयाव् अनपत्यौ च दम्पती । न वव्राथे ऽपवर्गं मे मोहितौ देवमायया ॥ 39 ॥

श्लोक 10.3.40

गते मयि युवां लब्ध्वा वरं मत्सदृशं सुतम् । ग्राम्यान् भोगान् अभुञ्जाथां युवां प्राप्तमनोरथौ ॥ 40 ॥

श्लोक 10.3.41

अदृष्ट्वान्यतमं लोके शीलौदार्यगुणैः समम् । अहं सुतो वाम् अभवं पृश्निगर्भ इति श्रुतः ॥ 41 ॥

श्लोक 10.3.42

तयोर् वां पुनर् एवाहम् अदित्याम् आस कश्यपात् । उपेन्द्र इति विख्यातो वामनत्वाच् च वामनः ॥ 42 ॥

श्लोक 10.3.43

तृतीये ऽस्मिन् भवे ऽहं वै तेनैव वपुषाथ वाम् । जातो भूयस् तयोर् एव सत्यं मे व्याहृतं सति ॥ 43 ॥

श्लोक 10.3.44

एतद् वां दर्शितं रूपं प्राग्जन्मस्मरणाय मे । नान्यथा मद्भवं ज्ञानं मर्त्यलिङ्गेन जायते ॥ 44 ॥

श्लोक 10.3.45

युवां मां पुत्रभावेन ब्रह्मभावेन चासकृत् । चिन्तयन्तौ कृतस्नेहौ यास्येथे मद्गतिं पराम् ॥ 45 ॥

श्लोक 10.3.46

इत्य् उक्त्वासीद् धरिस् तूष्णीं भगवान् आत्ममायया । पित्रोः सम्पश्यतोः सद्यो बभूव प्राकृतः शिशुः ॥ 46 ॥

श्लोक 10.3.47

ततश् च शौरिर् भगवत्प्रचोदितः सुतं समादाय स सूतिकागृहात् &अम्प्; यदा बहिर् गन्तुम् इयेष तर्ह्य् अजा या योगमायाजनि नन्दजायया ॥ 47 ॥

श्लोक 10.3.48

तया हृतप्रत्ययसर्ववृत्तिषु द्वाःस्थेषु पौरेष्व् अपि शायितेष्व् अथ । द्वारश् च सर्वाः पिहिता दुरत्यया बृहत्कपाटायसकीलशृङ्खलैः ॥ 48 ॥

श्लोक 10.3.49

ताः कृष्णवाहे वसुदेव आगते स्वयं व्यवर्यन्त यथा तमो रवेः । ववर्ष पर्जन्य उपांशुगर्जितः शेषो ऽन्वगाद् वारि निवारयन् फणैः ॥ 49 ॥

श्लोक 10.3.50

मघोनि वर्षत्य् असकृद् यमानुजा गम्भीरतोयौघजवोर्मिफेनिला । भयानकावर्तशताकुला नदी मार्गं ददौ सिन्धुर् इव श्रियः पतेः ॥ 50 ॥

श्लोक 10.3.51

नन्दव्रजं शौरिर् उपेत्य तत्र तान् गोपान् प्रसुप्तान् उपलभ्य निद्रया &अम्प्; सुतं यशोदाशयने निधाय तत्सुताम् उपादाय पुनर् गृहान् अगात् ॥ 51 ॥

श्लोक 10.3.52

देवक्याः शयने न्यस्य वसुदेवो ऽथ दारिकाम् । प्रतिमुच्य पदोर् लोहम् आस्ते पूर्ववद् आवृतः ॥ 52 ॥

श्लोक 10.3.53

यशोदा नन्दपत्नी च जातं परम् अबुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृतिः ॥ 53 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ