श्रीमद्भागवत दशम स्कन्ध अध्याय 21
श्रीमद्भागवत दशम स्कन्ध अध्याय 21 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.21.1
इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना । न्यविशद् वायुना वातं स -गोगोपालको ऽच्युतः ॥ 1 ॥
श्लोक 10.21.2
कुसुमितवनराजिशुष्मिभृङ्ग द्विजकुलघुष्टसरःसरिन्महीध्रम् । मधुपतिर् अवगाह्य चारयन् गाः सहपशुपालबलश् चुकूज वेणुम् ॥ 2 ॥
श्लोक 10.21.3
तद् व्रजस्त्रिय आश्रुत्य वेणुगीतं स्मरोदयम् । काश्चित् परोक्षं कृष्णस्य स्वसखीभ्यो ऽन्ववर्णयन् ॥ 3 ॥
श्लोक 10.21.4
तद् वर्णयितुम् आरब्धाः स्मरन्त्यः कृष्णचेष्टितम् । नाशकन् स्मरवेगेन विक्षिप्तमनसो नृप ॥ 4 ॥
श्लोक 10.21.5
बर्हापीडं नटवरवपुः कर्णयोः कर्णिकारं बिभ्रद् वासः कनककपिशं वैजयन्तीं च मालाम् &अम्प्; रन्ध्रान् वेणोर् अधरसुधयापूरयन् गोपवृन्दैर् वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः ॥ 5 ॥
श्लोक 10.21.6
इति वेणुरवं राजन् सर्वभूतमनोहरम् । श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्यो ऽभिरेभिरे ॥ 6 ॥
श्लोक 10.21.7
अक्षण्वतां फलम् इदं न परं विदामः सख्यः पशून् अनविवेशयतोर् वयस्यैः । वक्त्रं व्रजेशसुतयोर् अनवेणुजुष्टं यैर् वा निपीतम् अनुरक्तकटाक्षमोक्षम् ॥ 7 ॥
श्लोक 10.21.8
चूतप्रवालबर्हस्तबकोत्पलाब्ज मालानुपृक्तपरिधानविचित्रवेशौ । मध्ये विरेजतुर् अलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वच गायमानौ ॥ 8 ॥
श्लोक 10.21.9
गोप्यः किम् आचरद् अयं कुशलं स्म वेणुर् दामोदराधरसुधाम् अपि गोपिकानाम् &अम्प्; भुङ्क्ते स्वयं यद् अवशिष्टरसं ह्रदिन्यो हृष्यत्त्वचो ऽश्रु मुमुचुस् तरवो यथार्यः ॥ 9 ॥
श्लोक 10.21.10
वृन्दावनं सखि भुवो वितनोति कीऋतिं यद् देवकीसुतपदाम्बुजलब्धलक्ष्मि । गोविन्दवेणुम् अनु मत्तमयूरनृत्यं प्रेक्ष्याद्रिसान्व्अवरतान्यसमस्तसत्त्वम् ॥ 10 ॥
श्लोक 10.21.11
धन्याः स्म मूढगतयो ऽपि हरिण्य एता या नन्दनन्दनम् उपात्तविचित्रवेशम् । आकर्ण्य वेणुरणितं सहकृष्णसाराः पूजां दधुर् विरचितां प्रणयावलोकैः ॥ 11 ॥
श्लोक 10.21.12
कृष्णं निरीक्ष्य वनितोत्सवरूपशीलं श्रुत्वा च तत्क्वणितवेणुविविक्तगीतम् । देव्यो विमानगतयः स्मरनुन्नसारा भ्रश्यत्प्रसूनकबरा मुमुहुर् विनीव्यः ॥ 12 ॥
श्लोक 10.21.13
गावश् च कृष्णमुखनिर्गतवेणुगीत पीयूषम् उत्तभितकर्णपुटैः पिबन्त्यः । शावाः स्नुतस्तनपयःकवलाः स्म तस्थुर् गोविन्दम् आत्मनि दृशाश्रुकलाः स्पृशन्त्यः ॥ 13 ॥
श्लोक 10.21.14
प्रायो बताम्ब विहगा मुनयो वने ऽस्मिन् कृष्णेक्षितं तद्उदितं कलवेणुगीतम् । आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्ति मीलितदृशो विगतान्यवाचः ॥ 14 ॥
श्लोक 10.21.15
नद्यस् तदा तद् उपधार्य मुकुन्दगीतम् आवर्तलक्षितमनोभवभग्नवेगाः । आलिङ्गनस्थगितम् ऊर्मिभुजैर् मुरारेर् गृह्णन्ति पादयुगलं कमलोपहाराः ॥ 15 ॥
श्लोक 10.21.16
दृष्ट्वातपे व्रजपशून् सह रामगोपैः सञ्चारयन्तम् अनु वेणुम् उदीरयन्तम् । प्रेमप्रवृद्ध उदितः कुसुमावलीभिः सख्युर् व्यधात् स्ववपुषाम्बुद आतपत्रम् ॥ 16 ॥
श्लोक 10.21.17
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग श्रीकुङ्कुमेन दयितास्तनमण्डितेन । तद्दर्शनस्मररुजस् तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस् तद्आधिम् ॥ 17 ॥
श्लोक 10.21.18
हन्तायम् अद्रिर् अबला हरिदासवर्यो यद् रामकृष्णचरणस्परशप्रमोदः । मानं तनोति सहगोगणयोस् तयोर् यत् पानीयसूयवसकन्दरकन्दमूलैः ॥ 18 ॥
श्लोक 10.21.19
गा गोपकैर् अनुवनं नयतोर् उदार वेणुस्वनैः कलपदैस् तनुभृत्सु सख्यः । अस्पन्दनं गतिमतां पुलकस् तरुणां निर्योगपाशकृतलक्षणयोर् विचित्रम् ॥ 19 ॥
श्लोक 10.21.20
एवंविधा भगवतो या वृन्दावनचारिणः । वर्णयन्त्यो मिथो गोप्यः क्रीडास् तन्मयतां ययुः ॥ 20 ॥