मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 22

श्रीमद्भागवत दशम स्कन्ध अध्याय 22 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.22.1

हेमन्ते प्रथमे मासि नन्दव्रजकमारिकाः । चेरुर् हविष्यं भुञ्जानाः कात्यायन्य्अर्चनव्रतम् ॥ 1 ॥

श्लोक 10.22.2

आप्लुत्याम्भसि कालिन्द्या जलान्ते चोदिते ऽरुणे । कृत्वा प्रतिकृतिं देवीम् आनर्चुर् नृप सैकतीम् ॥ 2 ॥

श्लोक 10.22.3

गन्धैर् माल्यैः सुरभिभिर् बलिभिर् धूपदीपकैः । उच्चावचैश् चोपहारैः प्रवालफलतण्डुलैः ॥ 3 ॥

श्लोक 10.22.4

कात्यायनि महामाये महायोगिन्य् अधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः । इति मन्त्रं जपन्त्यस् ताः पूजां चक्रुः कमारिकाः ॥ 4 ॥

श्लोक 10.22.5

एवं मासं व्रतं चेरुः कुमार्यः कृष्णचेतसः । भद्रकालीं समानर्चुर् भूयान् नन्दसुतः पतिः ॥ 5 ॥

श्लोक 10.22.6

ऊषस्य् उत्थाय गोत्रैः स्वैर् अन्योन्याबद्धबाहवः । कृष्णम् उच्चैर् जगुर् यान्त्यः कालिन्द्यां स्नातुम् अन्वहम् ॥ 6 ॥

श्लोक 10.22.7

नद्याः कदाचिद् आगत्य तीरे निक्षिप्य पूर्ववत् । वासांसि कृष्णं गायन्त्यो विजह्रुः सलिले मुदा ॥ 7 ॥

श्लोक 10.22.8

भगवांस् तद् अभिप्रेत्य कृष्नो योगेश्वरेश्वरः । वयस्यैर् आवृतस् तत्र गतस् तत्कर्मसिद्धये ॥ 8 ॥

श्लोक 10.22.9

तासां वासांस्य् उपादाय नीपम् आरुह्य सत्वरः । हसद्भिः प्रहसन् बालैः परिहासम् उवाच ह ॥ 9 ॥

श्लोक 10.22.10

अत्रागत्याबलाः कामं स्वं स्वं वासः प्रगृह्यताम् । सत्यं ब्रवाणि नो नर्म यद् यूयं व्रतकर्शिताः ॥ 10 ॥

श्लोक 10.22.11

न मयोदितपूर्वं वा अनृतं तद् इमे विदुः । एकैकशः प्रतीच्छध्वं सहैवेति सुमध्यमाः ॥ 11 ॥

श्लोक 10.22.12

तस्य तत् क्ष्वेलितं दृष्ट्वा गोप्यः प्रेमपरिप्लुताः । व्रीडिताः प्रेक्ष्य चान्योन्यं जातहासा न निर्ययुः ॥ 12 ॥

श्लोक 10.22.13

एवं ब्रुवति गोविन्दे नर्मणाक्षिप्तचेतसः । आकण्ठमग्नाः शीतोदे वेपमानास् तम् अब्रुवन् ॥ 13 ॥

श्लोक 10.22.14

मानयं भोः कृथास् त्वां तु नन्दगोपसुतं प्रियम् । जानीमो ऽङ्ग व्रजश्लाघ्यं देहि वासांसि वेपिताः ॥ 14 ॥

श्लोक 10.22.15

श्यामसुन्दर ते दास्यः करवाम तवोदितम् । देहि वासांसि धर्मज्ञ नो चेद् राज्ञे ब्रुवाम हे ॥ 15 ॥

श्लोक 10.22.16

भवत्यो यदि मे दास्यो मयोक्तं वा करिष्यथ । अत्रागत्य स्ववासांसि प्रतीच्छत शुचिस्मिताः । नो चेन् नाहं प्रदास्ये किं क्रुद्धो राजा करिष्यति ॥ 16 ॥

श्लोक 10.22.17

ततो जलाशयात् सर्वा दारिकाः शीतवेपिताः । पाणिभ्यां योनिम् आच्छाद्य प्रोत्तेरुः शीतकर्शिताः ॥ 17 ॥

श्लोक 10.22.18

भगवान् आहता वीक्ष्य शुद्ध -भावप्रसादितः । स्कन्धे निधाय वासांसि प्रीतः प्रोवाच सस्मितम् ॥ 18 ॥

श्लोक 10.22.19

यूयं विवस्त्रा यद् अपो धृतव्रता व्यगाहतैतत् तद् उ देवहेलनम् । बद्ध्वाञ्जलिं मूर्ध्न्य् अपनुत्तये ऽंहसः कृत्वा नमो ऽधोवसनं प्रगृह्यताम् ॥ 19 ॥

श्लोक 10.22.20

इत्य् अच्युतेनाभिहितं व्रजाबला मत्वा विवस्त्राप्लवनं व्रतच्युतिम् । तत्पूर्तिकामास् तद्अशेषकर्मणां साक्षात्कृतं नेमुर् अवद्यमृग् यतः ॥ 20 ॥

श्लोक 10.22.21

तास् तथावनता दृष्ट्वा भगवान् देवकीसुतः । वासांसि ताभ्यः प्रायच्छत् करुणस् तेन तोषितः ॥ 21 ॥

श्लोक 10.22.22

दृढं प्रलब्धास् त्रपया च हापिताः प्रस्तोभिताः क्रीडनवच् च कारिताः &अम्प्; वस्त्राणि चैवापहृतान्य् अथाप्य् अमुं ता नाभ्यसूयन् प्रियसङ्गनिर्वृताः ॥ 22 ॥

श्लोक 10.22.23

परिधाय स्ववासांसि प्रेष्ठसङ्गमसज्जिताः । गृहीतचित्ता नो चेलुस् तस्मिन् लज्जायितेक्षणाः ॥ 23 ॥

श्लोक 10.22.24

तासां विज्ञाय भगवान् स्वपादस्पर्शकाम्यया । धृतव्रतानां सङ्कल्पम् आह दामोदरो ऽबलाः ॥ 24 ॥

श्लोक 10.22.25

सङ्कल्पो विदितः साध्व्यो भवतीनां मद्अर्चनम् । मयानुमोदितः सो ऽसौ सत्यो भवितुम् अर्हति ॥ 25 ॥

श्लोक 10.22.26

न मय्य् आवेशितधियां कामः कामाय कल्पते । भर्जिता क्वथिता धानाः प्रायो बीजाय नेशते ॥ 26 ॥

श्लोक 10.22.27

याताबला व्रजं सिद्धा मयेमा रंस्यथा क्षपाः । यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः ॥ 27 ॥

श्लोक 10.22.28

इत्य् आदिष्टा भगवता लब्धकामाः कुमारिकाः । ध्यायन्त्यस् तत्पदाम्भोजम् कृच्छ्रान् निर्विविशुर् व्रजम् ॥ 28 ॥

श्लोक 10.22.29

अथ गोपैः परिवृतो भगवान् देवकीसुतः । वृन्दावनाद् गतो दूरं चारयन् गाः सहाग्रजः ॥ 29 ॥

श्लोक 10.22.30

निदघार्कातपे तिग्मे छायाभिः स्वाभिर् आत्मनः । आतपत्रायितान् वीक्ष्य द्रुमान् आह व्रजौकसः ॥ 30 ॥

श्लोक 10.22.31

हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल वृषभौजस्विन् देवप्रस्थ वरूथप ॥ 31 ॥

श्लोक 10.22.32

पश्यतैतान् महाभागान् परार्थैकान्तजीवितान् । वातवर्षातपहिमान् सहन्तो वारयन्ति नः ॥ 32 ॥

श्लोक 10.22.33

अहो एषां वरं जन्म सर्व -प्राण्य्उपजीवनम् । सुजनस्येव येषां वै विमुखा यान्ति नार्थिनः ॥ 33 ॥

श्लोक 10.22.34

पत्रपुष्पफलच्छायामूलवल्कलदारुभिः । गन्धनिर्यासभस्मास्थितोक्मैः कामान् वितन्वते ॥ 34 ॥

श्लोक 10.22.35

एतावज् जन्मसाफल्यं देहिनाम् इह देहिषु । प्राणैर् अर्थैर् धिया वाचा श्रेयआचरणं सदा ॥ 35 ॥

श्लोक 10.22.36

इति प्रवालस्तबकफलपुष्पदलोत्करैः । तरूणां नम्रशाखानां मध्यतो यमुनां गतः ॥ 36 ॥

श्लोक 10.22.37

तत्र गाः पाययित्वापः सुमृष्टाः शीतलाः शिवाः । ततो नृप स्वयं गोपाः कामं स्वादु पपुर् जलम् ॥ 37 ॥

श्लोक 10.22.38

तस्या उपवने कामं चारयन्तः पशून् नृप । कृष्णरामाव् उपागम्य क्षुध्आर्ता इदम् अब्रवन् ॥ 38 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ