मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 23

श्रीमद्भागवत दशम स्कन्ध अध्याय 23 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.23.1

राम राम महाबाहो कृष्ण दुष्टनिबर्हण । एषा वै बाधते क्षुन् नस् तच्छान्तिं कर्तुम् अर्हथः ॥ 1 ॥

श्लोक 10.23.2

इति विज्ञापितो गोपैर् भगवान् देवकीसुतः । भक्ताया विप्रभार्यायाः प्रसीदन्न् इदम् अब्रवीत् ॥ 2 ॥

श्लोक 10.23.3

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः । सत्रम् आङ्गिरसं नाम ह्य् आसते स्वर्गकाम्यया ॥ 3 ॥

श्लोक 10.23.4

तत्र गत्वौदनं गोपा याचतास्मद्विसर्जिताः । कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् ॥ 4 ॥

श्लोक 10.23.5

इत्य् आदिष्टा भगवता गत्वा याचन्त ते तथा । कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि ॥ 5 ॥

श्लोक 10.23.6

हे भूमिदेवाः शृणुत कृष्णस्यादेशकारिणः । प्राप्ताञ् जानीत भद्रं वो गोपान् नो रामचोदितान् ॥ 6 ॥

श्लोक 10.23.7

गाश् चारयन्ताव् अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ । तयोर् द्विजा ओदनम् अर्थिनोर् यदि श्रद्धा च वो यच्छत धर्मवित्तमाः ॥ 7 ॥

श्लोक 10.23.8

दीक्षायाः पशुसंस्थायाः सौत्रामण्याश् च सत्तमाः । अन्यत्र दीक्षितस्यापि नान्नम् अश्नन् हि दुष्यति ॥ 8 ॥

श्लोक 10.23.9

इति ते भगवद्याच्ञां शृण्वन्तो ऽपि न शुश्रुवुः । क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः ॥ 9 ॥

श्लोक 10.23.10

देशः कालः पृथग् द्रव्यं मन्त्रतन्त्रर्त्विजो ऽग्नयः । देवता यजमानश् च क्रतुर् धर्मश् च यन्मयः ॥ 10 ॥

श्लोक 10.23.11

तं ब्रह्म परमं साक्षाद् भगवन्तम् अधोक्षजम् । मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे ॥ 11 ॥

श्लोक 10.23.12

न ते यद् ॐ इति प्रोचुर् न नेति च परन्तप । गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः ॥ 12 ॥

श्लोक 10.23.13

तद् उपाकर्ण्य भगवान् प्रहस्य जगद्ईश्वरः । व्याजहार पुनर् गोपान् दर्शयन् लौकिकीं गतिम् ॥ 13 ॥

श्लोक 10.23.14

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणम् आगतम् । दास्यन्ति कामम् अन्नं वः स्निग्धा मय्य् उषिता धिया ॥ 14 ॥

श्लोक 10.23.15

गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्व्अलङ्कृताः । नत्वा द्विजसतीर् गोपाः प्रश्रिता इदम् अब्रुवन् ॥ 15 ॥

श्लोक 10.23.16

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः । इतो ऽविदूरे चरता कृष्णेनेहेषिता वयम् ॥ 16 ॥

श्लोक 10.23.17

गाश् चारयन् स गोपालैः सरामो दूरम् आगतः । बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम् ॥ 17 ॥

श्लोक 10.23.18

श्रुत्वाच्युतम् उपायातं नित्यं तद्दर्शनोत्सुकाः । तत्कथाक्षिप्तमनसो बभूवुर् जातसम्भ्रमाः ॥ 18 ॥

श्लोक 10.23.19

चतुर्विधं बहुगुणम् अन्नम् आदाय भाजनैः । अभिसस्रुः प्रियं सर्वाः समुद्रम् इव निम्नगाः ॥ 19 ॥

श्लोक 10.23.20

निषिध्यमानाः पतिभिर् भ्रातृभिर् बन्धुभिः सुतैः । भगवत्य् उत्तमश्लोके दीर्घश्रुत -धृताशयाः ॥ 20 ॥

श्लोक 10.23.21

यमुनोपवने ऽशोक नवपल्लवमण्डिते । विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः ॥ 21 ॥

श्लोक 10.23.22

श्यामं हिरण्यपरिधिं वनमाल्यबर्हधातुप्रवालनटवेषम् अनव्रतांसे &अम्प्; विन्यस्तहस्तम् इतरेण धुनानम् अब्जं कर्णोत्पलालककपोलमुखाब्जहासम् ॥ 22 ॥

श्लोक 10.23.23

प्रायःश्रुतप्रियतमोदयकर्णपूरैर् यस्मिन् निमग्नमनसस् तम् अथाक्षिरन्द्रैः । अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर् नरेन्द्र ॥ 23 ॥

श्लोक 10.23.24

तास् तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया । विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः ॥ 24 ॥

श्लोक 10.23.25

स्वागतं वो महाभागा आस्यतां करवाम किम् । यन् नो दिदृक्षया प्राप्ता उपपन्नम् इदं हि वः ॥ 25 ॥

श्लोक 10.23.26

नन्व् अद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः । अहैतुक्य् अव्यवहितां भक्तिम् आत्मप्रिये यथा ॥ 26 ॥

श्लोक 10.23.27

प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः । यत्सम्पर्कात् प्रिया आसंस् ततः को न्व् अपरः प्रियः ॥ 27 ॥

श्लोक 10.23.28

तद् यात देवयजनं पतयो वो द्विजातयः । स्वसत्रं पारयिष्यन्ति युष्माभिर् गृहमेधिनः ॥ 28 ॥

श्लोक 10.23.29

मैवं विभो ऽर्हति भवान् गदितुं न्र्शंसं सत्यं कुरुष्व निगमं तव पदमूलम् । प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर् निवोढुम् अतिलङ्घ्य समस्तबन्धून् ॥ 29 ॥

श्लोक 10.23.30

गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये । तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिर् अरिन्दम तद् विधेहि ॥ 30 ॥

श्लोक 10.23.31

पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः । लोकाश् च वो मयोपेता देवा अप्य् अनुमन्वते ॥ 31 ॥

श्लोक 10.23.32

न प्रीतये ऽनुरागाय ह्य् अङ्गसङ्गो नृणाम् इह । तन् मनो मयि युञ्जाना अचिरान् माम् अवाप्स्यथ ॥ 32 ॥

श्लोक 10.23.33

श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ 33 ॥

श्लोक 10.23.34

इत्य् उक्ता द्विजपत्न्यस् ता यज्ञवाटं पुनर् गताः । ते चानसूयवस् ताभिः स्त्रीभिः सत्रम् अपारयन् ॥ 34 ॥

श्लोक 10.23.35

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् । हृडोपगुह्य विजहौ देहं कर्मानुबन्धनम् ॥ 35 ॥

श्लोक 10.23.36

भगवान् अपि गोविन्दस् तेनैवान्नेन गोपकान् । चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः ॥ 36 ॥

श्लोक 10.23.37

एवं लीलानरवपुर् न्र्लोकम् अनुशीलयन् । रेमे गोगोपगोपीनां रमयन् रूपवाक्कृतैः ॥ 37 ॥

श्लोक 10.23.38

अथानुस्मृत्य विप्रास् ते अन्वतप्यन् कृतागसः । यद् विश्वेश्वरयोर् याच्ञाम् अहन्म नृविडम्बयोः ॥ 38 ॥

श्लोक 10.23.39

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिम् अलौकिकीम् । आत्मानं च तया हीनम् अनुतप्ता व्यगर्हयन् ॥ 39 ॥

श्लोक 10.23.40

धिग् जन्म नस् त्रिवृद् यत् तद् धिग् व्रतं धिग् बहुज्ञताम् । धिक् कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्व् अधोक्षजे ॥ 40 ॥

श्लोक 10.23.41

नूनं भगवतो माया योगिनाम् अपि मोहिनी । यद् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः ॥ 41 ॥

श्लोक 10.23.42

अहो पश्यत नारीणाम् अपि कृष्णे जगद्गुरौ । दुरन्तभावं यो ऽविध्यन् मृत्युपाशान् गृहाभिधान् ॥ 42 ॥

श्लोक 10.23.43

नासां द्विजातिसंस्कारो न निवासो गुराव् अपि । न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः ॥ 43 ॥

श्लोक 10.23.44

तथापि ह्य् उत्तमःश्लोके कृष्णे योगेश्वरेश्वरे । भक्तिर् दृढा न चास्माकं संस्कारादिमताम् अपि ॥ 44 ॥

श्लोक 10.23.45

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया । अहो नः स्मारयाम् आस गोपवाक्यैः सतां गतिः ॥ 45 ॥

श्लोक 10.23.46

अन्यथा पूर्णकामस्य कैवल्याद्य्अशिषां पतेः । ईशितव्यैः किम् अस्माभिर् ईशस्यैतद् विडम्बनम् ॥ 46 ॥

श्लोक 10.23.47

हित्वान्यान् भजते यं श्रीः पादस्पर्शाशयासकृत् । स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी ॥ 47 ॥

श्लोक 10.23.48

देशः कालः पृथग् द्रव्यं मन्त्रतन्त्रर्त्विजो ऽग्नयः । देवता यजमानश् च क्रतुर् धर्मश् च यन्मयः ॥ 48 ॥

श्लोक 10.23.49

स एव भगवान् साक्षाद् विष्णुर् योगेश्वरेश्वरः । जातो यदुष्व् इत्य् आशृण्म ह्य् अपि मूढा न विद्महे ॥ 49 ॥

श्लोक 10.23.50

तस्मै नमो भगवते कृष्णायाकुण्ठमेधसे । यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु ॥ 50 ॥

श्लोक 10.23.51

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् । अविज्ञतानुभावानां क्षन्तुम् अर्हत्य् अतिक्रमम् ॥ 51 ॥

श्लोक 10.23.52

इति स्वाघम् अनुस्मृत्य कृष्णे ते कृतहेलनाः । दिदृक्षवो व्रजम् अथ कंसाद् भीता न चाचलन् ॥ 52 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ