श्रीमद्भागवत दशम स्कन्ध अध्याय 24
श्रीमद्भागवत दशम स्कन्ध अध्याय 24 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.24.1
भगवान् अपि तत्रैव बलदेवेन संयुतः । अपश्यन् निवसन् गोपान् इन्द्रयागकृतोद्यमान् ॥ 1 ॥
श्लोक 10.24.2
तद्अभिज्ञो ऽपि भगवान् सर्वात्मा सर्वदर्शनः । प्रश्रयावनतो ऽपृच्छद् वृद्धान् नन्दपुरोगमान् ॥ 2 ॥
श्लोक 10.24.3
कथ्यतां मे पितः को ऽयं सम्भ्रमो व उपागतः । किं फलं कस्य वोद्देशः केन वा साध्यते मखः ॥ 3 ॥
श्लोक 10.24.4
एतद् ब्रूहि महान् कामो मह्यं शुश्रूषवे पितः । न हि गोप्यं हि सधूनां कृत्यं सर्वात्मनाम् इह ॥ 4 ॥
श्लोक 10.24.5
अस्त्य् अस्वपरदृष्टीनाम् अमित्रोदास्तविद्विषाम् । उदासीनो ऽरिवद् वर्ज्य आत्मवत् सुहृद् उच्यते ॥ 5 ॥
श्लोक 10.24.6
ज्ञत्वाज्ञात्वा च कर्माणि जनो ऽयम् अनुतिष्ठति । विदुषः कर्मसिद्धिः स्याद् यथा नाविदुषो भवेत् ॥ 6 ॥
श्लोक 10.24.7
तत्र तावत् क्रियायोगो भवतां किं विचारितः । अथ वा लौकिकस् तन् मे पृच्छतः साधु भण्यताम् ॥ 7 ॥
श्लोक 10.24.8
पर्जन्यो भगवान् इन्द्रो मेघास् तस्यात्ममूर्तयः । ते ऽभिवर्षन्ति भूतानां प्रीणनं जीवनं पयः ॥ 8 ॥
श्लोक 10.24.9
तं तात वयम् अन्ये च वार्मुचां पतिम् ईश्वरम् । द्रव्यैस् तद्रेतसा सिद्धैर् यजन्ते क्रतुभिर् नराः ॥ 9 ॥
श्लोक 10.24.10
तच्छेषेणोपजीवन्ति त्रिवर्गफलहेतवे । पुंसां पुरुषकाराणां पर्जन्यः फलभावनः ॥ 10 ॥
श्लोक 10.24.11
य एनं विसृजेद् धर्मं परम्पर्यागतं नरः । कामाद् द्वेषाद् भयाल् लोभात् स वै नाप्नोति शोभनम् ॥ 11 ॥
श्लोक 10.24.12
वचो निशम्य नन्दस्य तथान्येषां व्रजौकसाम् । इन्द्राय मन्युं जनयन् पितरं प्राह केशवः ॥ 12 ॥
श्लोक 10.24.13
कर्मणा जायते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं क्षेमं कर्मणैवाभिपद्यते ॥ 13 ॥
श्लोक 10.24.14
अस्ति चेद् ईश्वरः कश्चित् फलरूप्य् अन्यकर्मणाम् । कर्तारं भजते सो ऽपि न ह्य् अकर्तुः प्रभुर् हि सः ॥ 14 ॥
श्लोक 10.24.15
किम् इन्द्रेणेह भूतानां स्वस्वकर्मानुवर्तिनाम् । अनीशेनान्यथा कर्तुं स्वभावविहितं नृणाम् ॥ 15 ॥
श्लोक 10.24.16
स्वभावतन्त्रो हि जनः स्वभावम् अनुवर्तते । स्वभावस्थम् इदं सर्वं सदेवासुरमानुषम् ॥ 16 ॥
श्लोक 10.24.17
देहान् उच्चावचाञ् जन्तुः प्राप्योत्सृजति कर्मणा । शत्रुर् मित्रम् उदासीनः कर्मैव गुरुर् ईश्वरः ॥ 17 ॥
श्लोक 10.24.18
तस्मात् सम्पूजयेत् कर्म स्वभावस्थः स्वकर्मकृत् । अन्जसा येन वर्तेत तद् एवास्य हि दैवतम् ॥ 18 ॥
श्लोक 10.24.19
आजीव्यैकतरं भावं यस् त्व् अन्यम् उपजीवति । न तस्माद् विन्दते क्षेमं जारान् नार्य् असती यथा ॥ 19 ॥
श्लोक 10.24.20
वर्तेत ब्रह्मणा विप्रो राजन्यो रक्षया भुवः । वैश्यस् तु वार्तया जीवेच् छूद्रस् तु द्विजसेवया ॥ 20 ॥
श्लोक 10.24.21
कृषिवाणिज्यगोरक्षा कुसीदं तूर्यम् उच्यते । वार्ता चतुर्विधा तत्र वयं गोवृत्तयो ऽनिशम् ॥ 21 ॥
श्लोक 10.24.22
सत्त्वं रजस् तम इति स्थित्य्उत्पत्त्य्अन्तहेतवः । रजसोत्पद्यते विश्वम् अन्योन्यं विविधं जगत् ॥ 22 ॥
श्लोक 10.24.23
रजसा चोदिता मेघा वर्षन्त्य् अम्बूनि सर्वतः । प्रजास् तैर् एव सिध्यन्ति महेन्द्रः किं करिष्यति ॥ 23 ॥
श्लोक 10.24.24
न नः पुरोजनपदा न ग्रामा न गृहा वयम् । वनौकसस् तात नित्यं वनशैलनिवासिनः ॥ 24 ॥
श्लोक 10.24.25
तस्माद् गवां ब्राह्मणानाम् अद्रेश् चारभ्यतां मखः । य इन्द्रयागसम्भारास् तैर् अयं साध्यतां मखः ॥ 25 ॥
श्लोक 10.24.26
पच्यन्तां विविधाः पाकाः सूपान्ताः पायसादयः । संयावापूपशष्कुल्यः सर्वदोहश् च गृह्यताम् ॥ 26 ॥
श्लोक 10.24.27
हूयन्ताम् अग्नयः सम्यग् ब्राह्मणैर् ब्रह्मवादिभिः । अन्नं बहुगुणं तेभ्यो देयं वो धेनुदक्षिणाः ॥ 27 ॥
श्लोक 10.24.28
अन्येभ्यश् चाश्वचाण्डालपतितेभ्यो यथार्हतः । यवसं च गवां दत्त्वा गिरये दीयतां बलिः ॥ 28 ॥
श्लोक 10.24.29
स्व्अलङ्कृता भुक्तवन्तः स्व्अनुलिप्ताः सुवाससः । प्रदक्षिणां च कुरुत गोविप्रानलपर्वतान् ॥ 29 ॥
श्लोक 10.24.30
एतन् मम मतं तात क्रियतां यदि रोचते । अयं गोब्राह्मणाद्रीणां मह्यं च दयितो मखः ॥ 30 ॥
श्लोक 10.24.31
कालात्मना भगवता शक्रदर्पजिघांसया । प्रोक्तं निशम्य नन्दाद्याः साध्व् अगृह्णन्त तद्वचः ॥ 31 ॥
श्लोक 10.24.32
तथा च व्यदधुः सर्वं यथाह मधुसूदनः । वाचयित्वा स्वस्त्य्अयनं तद्द्रव्येण गिरिद्विजान् ॥ 32 ॥
श्लोक 10.24.33
उपहृत्य बलीन् सम्यग् आदृता यवसं गवाम् । गोधनानि पुरस्कृत्य गिरिं चक्रुः प्रदक्षिणम् ॥ 33 ॥
श्लोक 10.24.34
अनांस्य् अनडुद्युक्तानि ते चारुह्य स्व्अलङ्कृताः । गोप्यश् च कृष्णवीर्याणि गायन्त्यः सद्विजाशिषः ॥ 34 ॥
श्लोक 10.24.35
कृष्णस् त्व् अन्यतमं रूपं गोपविश्रम्भणं गतः । शैलो ऽस्मीति ब्रुवन् भूरि बलिम् आदद् बृहद्वपुः ॥ 35 ॥
श्लोक 10.24.36
तस्मै नमो व्रजजनैः सह चक्र आत्मनात्मने । अहो पश्यत शैलो ऽसौ रूपी नो ऽनुग्रहं व्यधात् ॥ 36 ॥
श्लोक 10.24.37
एषो ऽवजानतो मर्त्यान् कामरूपी वनौकसः । हन्ति ह्य् अस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ 37 ॥
श्लोक 10.24.38
इत्य् अद्रिगोद्विजमखं वासुदेवप्रचोदिताः । यथा विधाय ते गोपा सहकृष्णा व्रजं ययुः ॥ 38 ॥