मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 25

श्रीमद्भागवत दशम स्कन्ध अध्याय 25 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.25.1

इन्द्रस् तदात्मनः पूजां विज्ञाय विहतां नृप । गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश् चुकोप ह ॥ 1 ॥

श्लोक 10.25.2

गणं सांवर्तकं नाम मेघानां चान्तकारीणाम् । इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्य् उत ॥ 2 ॥

श्लोक 10.25.3

अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् । कृष्णं मर्त्यम् उपाश्रित्य ये चक्रुर् देवहेलनम् ॥ 3 ॥

श्लोक 10.25.4

यथादृढैः कर्ममयैः क्रतुभिर् नामनौनिभैः । विद्याम् आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम् ॥ 4 ॥

श्लोक 10.25.5

वाचालं बालिशं स्तब्धम् अज्ञं पण्डितमानिनम् । कृष्णं मर्त्यम् उपाश्रित्य गोपा मे चक्रुर् अप्रियम् ॥ 5 ॥

श्लोक 10.25.6

एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् । धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम् ॥ 6 ॥

श्लोक 10.25.7

अहं चैरावतं नागम् आरुह्यानुव्रजे व्रजम् । मरुद्गणैर् महावेगैर् नन्दगोष्ठजिघांसया ॥ 7 ॥

श्लोक 10.25.8

इत्थं मघवताज्ञप्ता मेघा निर्मुक्तबन्धनाः । नन्दगोकुलम् आसारैः पीडयाम् आसुर् ओजसा ॥ 8 ॥

श्लोक 10.25.9

विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः । तीव्रैर् मरुद्गणैर् नुन्ना ववृषुर् जलशर्कराः ॥ 9 ॥

श्लोक 10.25.10

स्थूणास्थूला वर्षधारा मुञ्चत्स्व् अभ्रेष्व् अभीक्ष्णशः । जलौघैः प्लाव्यमाना भूर् नादृश्यत नतोन्नतम् ॥ 10 ॥

श्लोक 10.25.11

अत्य्आसारातिवातेन पशवो जातवेपनाः । गोपा गोप्यश् च शीतार्ता गोविन्दं शरणं ययुः ॥ 11 ॥

श्लोक 10.25.12

शिरः सुतांश् च कायेन प्रच्छाद्यासारपीडिताः । वेपमाना भगवतः पादमूलम् उपाययुः ॥ 12 ॥

श्लोक 10.25.13

कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो । त्रातुम् अर्हसि देवान् नः कुपिताद् भक्तवत्सल ॥ 13 ॥

श्लोक 10.25.14

शिलावर्षातिवातेन हन्यमानम् अचेतनम् । निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः ॥ 14 ॥

श्लोक 10.25.15

अपर्त्व् अत्य्उल्बणं वर्षम् अतिवातं शिलामयम् । स्वयागे विहते ऽस्माभिर् इन्द्रो नाशाय वर्षति ॥ 15 ॥

श्लोक 10.25.16

तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये । लोकेशमानिनां मौढ्याद् धनिष्ये श्रीमदं तमः ॥ 16 ॥

श्लोक 10.25.17

न हि सद्भावयुक्तानां सुराणाम् ईशविस्मयः । मत्तो ऽसतां मानभङ्गः प्रशमायोपकल्पते ॥ 17 ॥

श्लोक 10.25.18

तस्मान् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सो ऽयं मे व्रत आहितः ॥ 18 ॥

श्लोक 10.25.19

इत्य् उक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् । दधार लीलया विष्णुश् छत्राकम् इव बालकः ॥ 19 ॥

श्लोक 10.25.20

अथाह भगवान् गोपान् हे ऽम्ब तात व्रजौकसः । यथोपजोषं विशत गिरिगर्तं सगोधनाः ॥ 20 ॥

श्लोक 10.25.21

न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातनात् । वातवर्षभयेनालं तत्त्राणं विहितं हि वः ॥ 21 ॥

श्लोक 10.25.22

तथा निर्विविशुर् गर्तं कृष्णाश्वासितमानसः । यथावकाशं सधनाः सव्रजाः सोपजीविनः ॥ 22 ॥

श्लोक 10.25.23

क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर् व्रजवासिभिः । वीक्ष्यमाणो दधाराद्रिं सप्ताहं नाचलत् पदात् ॥ 23 ॥

श्लोक 10.25.24

कृष्णयोगानुभावं तं निशम्येन्द्रो ऽतिविस्मितः । निस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् सन्न्यवारयत् ॥ 24 ॥

श्लोक 10.25.25

खं व्यभ्रम् उदितादित्यं वातवर्षं च दारुणम् । निशम्योपरतं गोपान् गोवर्धनधरो ऽब्रवीत् ॥ 25 ॥

श्लोक 10.25.26

निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः । उपारतं वातवर्षं व्युदप्रायाश् च निम्नगाः ॥ 26 ॥

श्लोक 10.25.27

ततस् ते निर्ययुर् गोपाः स्वं स्वम् आदाय गोधनम् । शकटोढोपकरणं स्त्रीबालस्थविराः शनैः ॥ 27 ॥

श्लोक 10.25.28

भगवान् अपि तं शैलं स्वस्थाने पूर्ववत् प्रभुः । पश्यतां सर्वभूतानां स्थापयाम् आस लीलया ॥ 28 ॥

श्लोक 10.25.29

तं प्रेमवेगान् निर्भृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः &अम्प्; गोप्यश् च सस्नेहम् अपूजयन् मुदा दध्य्अक्षताद्भिर् युयुजुः सद्आशिषः ॥ 29 ॥

श्लोक 10.25.30

यशोदा रोहिणी नन्दो रामश् च बलिनां वरः । कृष्णम् आलिङ्ग्य युयुजुर् आशिषः स्नेहकातराः ॥ 30 ॥

श्लोक 10.25.31

दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः । तुष्टुवुर् मुमुचुस् तुष्टाः पुष्पवर्षाणि पार्थिव ॥ 31 ॥

श्लोक 10.25.32

शङ्खदुन्दुभयो नेदुर् दिवि देवप्रचोदिताः । जगुर् गन्धर्वपतयस् तुम्बुरुप्रमुखा नृप ॥ 32 ॥

श्लोक 10.25.33

ततो ऽनुरक्तैः पशुपैः परिश्रितो राजन् स्वगोष्ठं सबलो ऽव्रजद् धरिः । तथाविधान्य् अस्य कृतानि गोपिका गायन्त्य ईयुर् मुदिता हृदिस्पृशः ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ