मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 26

श्रीमद्भागवत दशम स्कन्ध अध्याय 26 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.26.1

एवंविधानि कर्माणि गोपाः कृष्णस्य वीक्ष्य ते । अतद्वीर्यविदः प्रोचुः समभ्येत्य सुविस्मिताः ॥ 1 ॥

श्लोक 10.26.2

बालकस्य यद् एतानि कर्माण्य् अत्य्अद्भुतानि वै । कथम् अर्हत्य् असौ जन्म ग्राम्येष्व् आत्मजुगुप्सितम् ॥ 2 ॥

श्लोक 10.26.3

यः सप्तहायनो बालः करेणैकेन लीलया । कथं बिभ्रद् गिरिवरं पुष्करं गजराड् इव ॥ 3 ॥

श्लोक 10.26.4

तोकेनामीलिताक्षेण पूतनाया महौजसः । पीतः स्तनः सह प्राणैः कालेनेव वयस् तनोः ॥ 4 ॥

श्लोक 10.26.5

हिन्वतो ऽधः शयानस्य मास्यस्य चरणाव् उदक् । अनो ऽपतद् विपर्यस्तं रुदतः प्रपदाहतम् ॥ 5 ॥

श्लोक 10.26.6

एकहायन आसीनो ह्रियमाणो विहायसा । दैत्येन यस् तृणावर्तम् अहन् कण्ठग्रहातुरम् ॥ 6 ॥

श्लोक 10.26.7

क्वचिद् धैयङ्गवस्तैन्ये मात्रा बद्ध उदूखले । गच्छन्न् अर्जुनयोर् मध्ये बाहुभ्यां ताव् अपातयत् ॥ 7 ॥

श्लोक 10.26.8

वने सञ्चारयन् वत्सान् सरामो बालकैर् वृतः । हन्तुकामं बकं दोर्भ्यां मुखतो ऽरिम् अपाटयत् ॥ 8 ॥

श्लोक 10.26.9

वत्सेषु वत्सरूपेण प्रविशन्तं जिघांसया । हत्वा न्यपातयत् तेन कपित्थानि च लीलया ॥ 9 ॥

श्लोक 10.26.10

हत्वा रासभदैतेयं तद्बन्धूंश् च बलान्वितः । चक्रे तालवनं क्षेमं परिपक्वफलान्वितम् ॥ 10 ॥

श्लोक 10.26.11

प्रलम्बं घातयित्वोग्रं बलेन बलशालिना । अमोचयद् व्रजपशून् गोपांश् चारण्यवह्नितः ॥ 11 ॥

श्लोक 10.26.12

आशीविषतमाहीन्द्रं दमित्वा विमदं ह्रदात् । प्रसह्योद्वास्य यमुनां चक्रे ऽसौ निर्विषोदकाम् ॥ 12 ॥

श्लोक 10.26.13

दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् । नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम् ॥ 13 ॥

श्लोक 10.26.14

क्व सप्तहायनो बालः क्व महाद्रिविधारणम् । ततो नो जायते शङ्का व्रजनाथ तवात्मजे ॥ 14 ॥

श्लोक 10.26.15

श्रूयतां मे वचो गोपा व्येतु शङ्का च वो ऽर्भके । एनम् कुमारम् उद्दिश्य गर्गो मे यद् उवाच ह ॥ 15 ॥

श्लोक 10.26.16

वर्णास् त्रयः किलास्यासन् गृह्णतो ऽनुयुगं तनूः । शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः ॥ 16 ॥

श्लोक 10.26.17

प्रागयं वसुदेवस्य क्वचिज् जातस् तवात्मजः । वासुदेव इति श्रीमान् अभिज्ञाः सम्प्रचक्षते ॥ 17 ॥

श्लोक 10.26.18

बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण -कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ 18 ॥

श्लोक 10.26.19

एष वः श्रेय आधास्यद् गोपगोकुलनन्दनः । अनेन सर्वदुर्गाणि यूयम् अञ्जस् तरिष्यथ ॥ 19 ॥

श्लोक 10.26.20

पुरानेन व्रजपते साधवो दस्युपीडिताः । अराजके रक्ष्यमाणा जिग्युर् दस्यून् समेधिताः ॥ 20 ॥

श्लोक 10.26.21

य एतस्मिन् महाभागे प्रीतिं कुर्वन्ति मानवाः । नारयो ऽभिभवन्त्य् एतान् विष्णुपक्षान् इवासुराः ॥ 21 ॥

श्लोक 10.26.22

तस्मान् नन्द कुमारो ऽयं नारायणसमो गुणैः । श्रिया कीर्त्यानुभावेन तत्कर्मसु न विस्मयः ॥ 22 ॥

श्लोक 10.26.23

इत्य् अद्धा मां समादिश्य गर्गे च स्वगृहं गते । मन्ये नारायणस्यांशं कृष्णम् अक्लिष्टकारिणम् ॥ 23 ॥

श्लोक 10.26.24

इति नन्दवचः श्रुत्वा गर्गगीतं तं व्रजौकसः । मुदिता नन्दम् आनर्चुः कृष्णं च गतविस्मयाः ॥ 24 ॥

श्लोक 10.26.25

देवे वर्षति यज्ञविप्लवरुषा वज्रास्मवर्षानिलैः सीदत्पालपशुस्त्रिय् आत्मशरणं दृष्ट्वानुकम्प्य् उत्स्मयन् &अम्प्; उत्पाट्यैककरेण शैलम् अबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठम् अपान् महेन्द्रमदभित् प्रीयान् न इन्द्रो गवाम् ॥ 25 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ