श्रीमद्भागवत दशम स्कन्ध अध्याय 27
श्रीमद्भागवत दशम स्कन्ध अध्याय 27 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.27.1
गोवर्धने धृते शैले आसाराद् रक्षिते व्रजे । गोलोकाद् आव्रजत् कृष्णं सुरभिः शक्र एव च ॥ 1 ॥
श्लोक 10.27.2
विविक्त उपसङ्गम्य व्रीडीतः कृतहेलनः । पस्पर्श पादयोर् एनं किरीटेनार्कवर्चसा ॥ 2 ॥
श्लोक 10.27.3
दृष्टश्रुतानुभावो ऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदम् आह कृताञ्जलिः ॥ 3 ॥
श्लोक 10.27.4
विशुद्धसत्त्वं तव धाम शान्तं तपोमयं ध्वस्तरजस्तमस्कम् । मायामयो ऽयं गुणसम्प्रवाहो न विद्यते ते ग्रहणानुबन्धः ॥ 4 ॥
श्लोक 10.27.5
कुतो नु तद्धेतव ईश तत्कृता लोभादयो ये ऽबुधलिन्गभावाः । तथापि दण्डं भगवान् बिभर्ति धर्मस्य गुप्त्यै खलनिग्रहाय ॥ 5 ॥
श्लोक 10.27.6
पिता गुरुस् त्वं जगताम् अधीशो दुरत्ययः काल उपात्तदण्डः । हिताय चेच्छातनुभिः समीहसे मानं विधुन्वन् जगद्ईशमानिनाम् ॥ 6 ॥
श्लोक 10.27.7
ये मद्विधाज्ञा जगद्ईशमानिनस् त्वां वीक्ष्य काले ऽभयम् आशु तन्मदम् । हित्वार्यमार्गं प्रभजन्त्य् अपस्मया ईहा खलानाम् अपि ते ऽनुशासनम् ॥ 7 ॥
श्लोक 10.27.8
स त्वं ममैश्वर्यमदप्लुतस्य कृतागसस् ते ऽविदुषः प्रभावम् । क्षन्तुं प्रभो ऽथार्हसि मूढचेतसो मैवं पुनर् भून् मतिर् ईश मे ऽसती ॥ 8 ॥
श्लोक 10.27.9
तवावतारो ऽयम् अधोक्षजेह भुवो भराणाम् उरुभारजन्मनाम् । चमूपतीनाम् अभवाय देव भवाय युष्मच्चरणानुवर्तिनाम् ॥ 9 ॥
श्लोक 10.27.10
नमस् तुभ्यं भगवते पुरुषाय महात्मने । वासुदेवाय कृष्णाय सात्वतां पतये नमः ॥ 10 ॥
श्लोक 10.27.11
स्वच्छन्दोपात्तदेहाय विशुद्धज्ञानमूर्तये । सर्वस्मै सर्वबीजाय सर्वभूतात्मने नमः ॥ 11 ॥
श्लोक 10.27.12
मयेदं भगवन् गोष्ठनाशायासारवायुभिः । चेष्टितं विहते यज्ञे मानिना तीव्रमन्युना ॥ 12 ॥
श्लोक 10.27.13
त्वयेशानुगृहीतो ऽस्मि ध्वस्तस्तम्भो वृथोद्यमः । ईश्वरं गुरुम् आत्मानं त्वाम् अहं शरणं गतः ॥ 13 ॥
श्लोक 10.27.14
एवं सङ्कीर्तितः कृष्णो मघोना भगवान् अमुम् । मेघगम्भीरया वाचा प्रहसन्न् इदम् अब्रवीत् ॥ 14 ॥
श्लोक 10.27.15
मया ते ऽकारि मघवन् मखभङ्गो ऽनुगृह्णता । मद्अनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ॥ 15 ॥
श्लोक 10.27.16
माम् ऐश्वर्यश्रीमदान्धो दण्ड पाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्य् अनुग्रहम् ॥ 16 ॥
श्लोक 10.27.17
गम्यतां शक्र भद्रं वः क्रियतां मे ऽनुशासनम् । स्थीयतां स्वाधिकारेषु युक्तैर् वः स्तम्भवर्जितैः ॥ 17 ॥
श्लोक 10.27.18
अथाह सुरभिः कृष्णम् अभिवन्द्य मनस्विनी । स्वसन्तानैर् उपामन्त्र्य गोपरूपिणम् ईश्वरम् ॥ 18 ॥
श्लोक 10.27.19
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वसम्भव । भवता लोकनाथेन सनाथा वयम् अच्युत ॥ 19 ॥
श्लोक 10.27.20
त्वं नः परमकं दैवं त्वं न इन्द्रो जगत्पते । भवाय भव गोविप्र देवानां ये च साधवः ॥ 20 ॥
श्लोक 10.27.21
इन्द्रं नस् त्वाभिषेक्ष्यामो ब्रह्मणा चोदिता वयम् । अवतीर्णो ऽसि विश्वात्मन् भूमेर् भारापनुत्तये ॥ 21 ॥
श्लोक 10.27.22
एवं कृष्णम् उपामन्त्र्य सुरभिः पयसात्मनः । जलैर् आकाशगङ्गाया ऐरावतकरोद्धृतैः ॥ 22 ॥
श्लोक 10.27.23
इन्द्रः सुरर्षिभिः साकं चोदितो देवमातृभिः । अभ्यसिञ्चत दाशार्हं गोविन्द इति चाभ्यधात् ॥ 23 ॥
श्लोक 10.27.24
तत्रागतास् तुम्बुरुनारदादयो गन्धर्वविद्याधरसिद्धचारणाः । जगुर् यशो लोकमलापहं हरेः सुराङ्गनाः सन्ननृतुर् मुदान्विताः ॥ 24 ॥
श्लोक 10.27.25
तं तुष्टुवुर् देवनिकायकेतवो ह्य् अवाकिरंश् चाद्भुतपुष्पवृष्टिभिः । लोकाः परां निर्वृतिम् आप्नुवंस् त्रयो गावस् तदा गाम् अनयन् पयोद्रुताम् ॥ 25 ॥
श्लोक 10.27.26
नानारसौघाः सरितो वृक्षा आसन् मधुस्रवाः । अकृष्टपच्यौषधयो गिरयो ऽबिभ्रन् उन् मणीन् ॥ 26 ॥
श्लोक 10.27.27
कृष्णे ऽभिषिक्त एतानि सर्वाणि कुरुनन्दन । निर्वैराण्य् अभवंस् तात क्रूराण्य् अपि निसर्गतः ॥ 27 ॥
श्लोक 10.27.28
इति गोगोकुलपतिं गोविन्दम् अभिषिच्य सः । अनुज्ञातो ययौ शक्रो वृतो देवादिभिर् दिवम् ॥ 28 ॥