श्रीमद्भागवत दशम स्कन्ध अध्याय 28
श्रीमद्भागवत दशम स्कन्ध अध्याय 28 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.28.1
एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । स्नातुं नन्दस् तु कालिन्द्यां द्वादश्यां जलम् आविशत् ॥ 1 ॥
श्लोक 10.28.2
तं गृहीत्वानयद् भृत्यो वरुणस्यासुरो ऽन्तिकम् । अवज्ञायासुरीं वेलां प्रविष्टम् उदकं निशि ॥ 2 ॥
श्लोक 10.28.3
चुक्रुशुस् तम् अपश्यन्तः कृष्ण रामेति गोपकाः । भगवांस् तद् उपश्रुत्य पितरं वरुणाहृतम् । तद्अन्तिकं गतो राजन् स्वानाम् अभयदो विभुः ॥ 3 ॥
श्लोक 10.28.4
प्राप्तं वीक्ष्य हृषीकेशं लोकपालः सपर्यया । महत्या पूजयित्वाह तद्दर्शनमहोत्सवः ॥ 4 ॥
श्लोक 10.28.5
अद्य मे निभृतो देहो ऽद्यैवार्थो ऽधिगतः प्रभो । त्वत्पादभाजो भगवन्न् अवापुः पारम् अध्वनः ॥ 5 ॥
श्लोक 10.28.6
नमस् तुभ्यं भगवते ब्रह्मणे परमात्मने । न यत्र श्रूयते माया लोकसृष्टिविकल्पना ॥ 6 ॥
श्लोक 10.28.7
अजानता मामकेन मूढेनाकार्यवेदिना । आनीतो ऽयं तव पिता तद् भवान् क्षन्तुम् अर्हति ॥ 7 ॥
श्लोक 10.28.8
ममाप्य् अनुग्रहं कृष्ण कर्तुम् अर्हस्य् अशेषदृक् । गोविन्द नीयताम् एष पिता ते पितृवत्सल ॥ 8 ॥
श्लोक 10.28.9
एवं प्रसादितः कृष्णो भगवान् ईश्वरेश्वरः । आदायागात् स्वपितरं बन्धूनां चावहन् मुदम् ॥ 9 ॥
श्लोक 10.28.10
नन्दस् त्व् अतीन्द्रियं दृष्ट्वा लोकपालमहोदयम् । कृष्णे च सन्नतिं तेषां ज्ञातिभ्यो विस्मितो ऽब्रवीत् ॥ 10 ॥
श्लोक 10.28.11
ते चौत्सुक्यधियो राजन् मत्वा गोपास् तम् ईश्वरम् । अपि नः स्वगतिं सूक्ष्माम् उपाधास्यद् अधीश्वरः ॥ 11 ॥
श्लोक 10.28.12
इति स्वानां स भगवान् विज्ञायाखिलदृक् स्वयम् । सङ्कल्पसिद्धये तेषां कृपयैतद् अचिन्तयत् ॥ 12 ॥
श्लोक 10.28.13
जनो वै लोक एतस्मिन्न् अविद्याकामकर्मभिः । उच्चावचासु गतिषु न वेद स्वां गतिं भ्रमन् ॥ 13 ॥
श्लोक 10.28.14
इति सञ्चिन्त्य भगवान् महाकारुणिको हरिः । दर्शयाम् आस लोकं स्वं गोपानां तमसः परम् ॥ 14 ॥
श्लोक 10.28.15
सत्यं ज्ञानम् अनन्तं यद् ब्रह्मज्योतिः सनातनम् । यद् धि पश्यन्ति मुनयो गुणापाये समाहिताः ॥ 15 ॥
श्लोक 10.28.16
ते तु ब्रह्मह्रदम् नीता मग्नाः कृष्णेन चोद्धृताः । ददृशुर् ब्रह्मणो लोकं यत्राक्रूरो ऽध्यगात् पुरा ॥ 16 ॥
श्लोक 10.28.17
नन्दादयस् तु तं दृष्ट्वा परमानन्दनिवृताः । कृष्णं च तत्र च्छन्दोभिः स्तूयमानं सुविस्मिताः ॥ 17 ॥