मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 29

श्रीमद्भागवत दशम स्कन्ध अध्याय 29 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.29.1

भगवान् अपि ता रातृईः शारदोत्फुल्लमल्लिकाः । वीक्ष्य रन्तुं मनश् चक्रे योगमायाम् उपाश्रितः ॥ 1 ॥

श्लोक 10.29.2

तदोडुराजः ककुभः करैर् मुखं प्राच्या विलिम्पन्न् अरुणेन शन्तमैः । स चर्षणीनाम् उदगाच् छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ 2 ॥

श्लोक 10.29.3

दृष्ट्वा कुमुद्वन्तम् अखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् &अम्प्; वनं च तत्कोमलगोभी रञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ 3 ॥

श्लोक 10.29.4

निशम्य गीतां तद् अनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुर् अन्योन्यम् अलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ 4 ॥

श्लोक 10.29.5

दुहन्त्यो ऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः । पयो ऽधिश्रित्य संयावम् अनुद्वास्यापरा ययुः ॥ 5 ॥

श्लोक 10.29.6

परिवेषयन्त्यस् तद् धित्वा पाययन्त्यः शिशून् पयः । शुश्रूषन्त्यः पतीन् काश्चिद् अश्नन्त्यो ऽपास्य भोजनम् ॥ 6 ॥

श्लोक 10.29.7

लिम्पन्त्यः प्रमृजन्त्यो ऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित् कृष्णान्तिकं ययुः ॥ 7 ॥

श्लोक 10.29.8

ता वार्यमाणाः पतिभिः पितृभिर् भ्रातृबन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ 8 ॥

श्लोक 10.29.9

अन्तर्गृहगताः काश्चिद् गोप्यो ऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर् मीलितलोचनाः ॥ 9 ॥

श्लोक 10.29.10

दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ 10 ॥

श्लोक 10.29.11

तम् एव परमात्मानं जारबुद्ध्यापि सङ्गताः । जहुर् गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ 11 ॥

श्लोक 10.29.12

कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस् तासां गुणधियां कथम् ॥ 12 ॥

श्लोक 10.29.13

उक्तं पुरस्ताद् एतत् ते चैद्यः सिद्धिं यथा गतः । द्विषन्न् अपि हृषीकेशं किम् उताधोक्षजप्रियाः ॥ 13 ॥

श्लोक 10.29.14

नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ 14 ॥

श्लोक 10.29.15

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ 15 ॥

श्लोक 10.29.16

न चैवं विस्मयः कार्यो भवता भगवत्य् अजे । योगेश्वरेश्वरे कृष्णे यत एतद् विमुच्यते ॥ 16 ॥

श्लोक 10.29.17

ता दृष्ट्वान्तिकम् आयाता भगवान् व्रजयोषितः । अवदद् वदतां श्रेष्ठो वाचः पेशैर् विमोहयन् ॥ 17 ॥

श्लोक 10.29.18

स्वागतं वो महाभागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद् ब्रूतागमनकारणम् ॥ 18 ॥

श्लोक 10.29.19

रजन्य् एषा घोररूपा घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ 19 ॥

श्लोक 10.29.20

मातरः पितरः पुत्रा भ्रातरः पतयश् च वः । विचिन्वन्ति ह्य् अपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ 20 ॥

श्लोक 10.29.21

दृष्टं वनं कुसुमितं राकेशकररञ्जितम् । यमुनानिललीलैजत् तरुपल्लवशोभितम् ॥ 21 ॥

श्लोक 10.29.22

तद् यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश् च तान् पाययत दुह्यत ॥ 22 ॥

श्लोक 10.29.23

अथ वा मद्अभिस्नेहाद् भवत्यो यन्त्रिताशयाः । आगता ह्य् उपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ 23 ॥

श्लोक 10.29.24

भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्य् अमायया । तद्बन्धूनां च कल्याणः प्रजानां चानुपोषणम् ॥ 24 ॥

श्लोक 10.29.25

दुःशीलो दुर्भगो वृद्धो जडो रोग्य् अधनो ऽपि वा । पतिः स्त्रीभिर् न हातव्यो लोकेप्सुभिर् अपातकी ॥ 25 ॥

श्लोक 10.29.26

अस्वर्ग्यम् अयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र ह्य् औपपत्यं कुलस्त्रियः ॥ 26 ॥

श्लोक 10.29.27

श्रवणाद् दर्शनाद् ध्यानान् मयि भावो ऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ 27 ॥

श्लोक 10.29.28

इति विप्रियम् आकर्ण्य गोप्यो गोविन्दभाषितम् । विषण्णा भग्नसङ्कल्पाश् चिन्ताम् आपुर् दुरत्ययाम् ॥ 28 ॥

श्लोक 10.29.29

कृत्वा मुखान्य् अव शुचः श्वसनेन शुष्यद् बिम्बाधराणि चरणेन भुवः लिखन्त्यः &अम्प्; अस्रैर् उपात्तमसिभिः कुचकुङ्कुमानि तस्थुर् मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ 29 ॥

श्लोक 10.29.30

प्रेष्ठं प्रियेतरम् इव प्रतिभाषमाणं कृष्णं तद्अर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित् संरम्भगद्गदगिरो ऽब्रुवतानुरक्ताः ॥ 30 ॥

श्लोक 10.29.31

मैवं विभो ऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस् तव पादमूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् ॥ 31 ॥

श्लोक 10.29.32

यत् पत्य्अपत्यसुहृदाम् अनुवृत्तिर् अङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । अस्त्व् एवम् एतद् उपदेशपदे त्वयीशे प्रेष्ठो भवांस् तनुभृतां किल बन्धुर् आत्मा ॥ 32 ॥

श्लोक 10.29.33

कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन् नित्यप्रिये पतिसुतादिभिर् आर्तिदैः किम् । तन् नः प्रसीद परमेश्वर मा स्म छिन्द्या आशां धृतां त्वयि चिराद् अरविन्दनेत्र ॥ 33 ॥

श्लोक 10.29.34

चित्तं सुखेन भवतापहृतं गृहेषु यन् निर्विशत्य् उत कराव् अपि गृह्यकृत्ये । पादौ पदं न चलतस् तव पादमूलाद् यामः कथं व्रजम् अथो करवाम किं वा ॥ 34 ॥

श्लोक 10.29.35

सिञ्चाङ्ग नस् त्वद्अधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद् वयं विरहजाग्न्य्उपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥ 35 ॥

श्लोक 10.29.36

यर्ह्य् अम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिद् अरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षम् अञ्जः स्थातुंस् त्वयाभिरमिता बत पारयामः ॥ 36 ॥

श्लोक 10.29.37

श्रीर् यत् पदाम्बुजरजश् चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् । यस्याः स्ववीक्षण उतान्यसुरप्रयासस् तद्वद् वयं च तव पादरजः प्रपन्नाः ॥ 37 ॥

श्लोक 10.29.38

तन् नः प्रसीद वृजिनार्दन ते ऽन्घ्रिमूलं प्राप्ता विसृज्य वसतीस् त्वद्उपासनाशाः । त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ 38 ॥

श्लोक 10.29.39

वीक्ष्यालकावृतमुखं तव कुण्दलश्री गण्डस्थलाधरसुधं हसितावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमणं च भवाम दास्यः ॥ 39 ॥

श्लोक 10.29.40

का स्त्र्य् अङ्ग ते कलपदायतवेणुगीतसम्मोहितार्यचरितान् न चलेत् त्रिलोक्याम् । त्रैलोक्यसौभगम् इदं च निरीक्ष्य रूपं यद् गोद्विजद्रुममृगाः पुलकान्य् अबिभ्रन् ॥ 40 ॥

श्लोक 10.29.41

व्यक्तं भवान् व्रजभयार्तिहरो ऽभिजातो देवो यथादिपुरुषः सुरलोकगोप्ता । तन् नो निधेहि करपङ्कजम् आर्तबन्धो तप्तस्तनेषु च शिरःसु च किङ्करीणाम् ॥ 41 ॥

श्लोक 10.29.42

इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीर् आत्मारामो ऽप्य् अरीरमत् ॥ 42 ॥

श्लोक 10.29.43

ताभिः समेताभिर् उदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिर् अच्युतः । उदारहासद्विजकुन्ददीधतिर् व्यरोचतैणाङ्क इवोडुभिर् वृतः ॥ 43 ॥

श्लोक 10.29.44

उपगीयमान उद्गायन् वनिताशतयूथपः । मालां बिभ्रद् वैजयन्तीं व्यचरन् मण्डयन् वनम् ॥ 44 ॥

श्लोक 10.29.45

नद्याः पुलिनम् आविश्य गोपीभिर् हिमवालुकम् । जुष्टं तत्तरलानन्दि कुमुदामोदवायुना ॥ 45 ॥

श्लोक 10.29.46

बाहुप्रसारपरिरम्भकरालकोरु नीवीस्तनालभननर्मनखाग्रपातैः । क्ष्वेल्यावलोकहसितैर् व्रजसुन्दरीणाम् उत्तम्भयन् रतिपतिं रमयां चकार ॥ 46 ॥

श्लोक 10.29.47

एवं भगवतः कृष्णाल् लब्धमाना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्यो ह्य् अधिकं भुवि ॥ 47 ॥

श्लोक 10.29.48

तासां तत्सौभगमदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ 48 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ