मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 30

श्रीमद्भागवत दशम स्कन्ध अध्याय 30 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.30.1

अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस् तम् अचक्षाणाः करिण्य इव यूथपम् ॥ 1 ॥

श्लोक 10.30.2

गत्यानुरागस्मितविभ्रमेक्षितैर् मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस् तास् ता विचेष्टा जगृहुस् तद्आत्मिकाः ॥ 2 ॥

श्लोक 10.30.3

गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असाव् अहं त्व् इत्य् अबलास् तद्आत्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ 3 ॥

श्लोक 10.30.4

गायन्त्य उच्चैर् अमुम् एव संहता विचिक्युर् उन्मत्तकवद् वनाद् वनम् । पप्रच्छुर् आकाशवद् अन्तरं बहिर् भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ 4 ॥

श्लोक 10.30.5

दृष्टो वः कच्चिद् अश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर् गतो हृत्वा प्रेमहासावलोकनैः ॥ 5 ॥

श्लोक 10.30.6

कच्चित् कुरबकाशोकनागपुन्नागचम्पकाः । रामानुजो मानिनीनाम् इतो दर्पहरस्मितः ॥ 6 ॥

श्लोक 10.30.7

कच्चित् तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर् बिभ्रद् दृष्टस् ते ऽतिप्रियो ऽच्युतः ॥ 7 ॥

श्लोक 10.30.8

मालत्य् अदर्शि वः कच्चिन् मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ 8 ॥

श्लोक 10.30.9

चूतप्रियालपनसासनकोविदार जम्ब्व्अर्कबिल्वबकुलाम्रकदम्बनीपाः । ये ऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ 9 ॥

श्लोक 10.30.10

किं ते कृतं क्षिति तपो बत केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गनहैर् विभासि &अम्प्; अप्य् अङ्घ्रिसम्भव उरुक्रमविक्रमाद् वा आहो वराहवपुषः परिरम्भणेन ॥ 10 ॥

श्लोक 10.30.11

अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस् तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥ 11 ॥

श्लोक 10.30.12

बाहुं प्रियांस उपधाय गृहीतपद्मो रामानुजस् तुलसिकालिकुलैर् मदान्धैः । अन्वीयमान इह वस् तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ 12 ॥

श्लोक 10.30.13

पृच्छतेमा लता बाहून् अप्य् आश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्य् उत्पुलकान्य् अहो ॥ 13 ॥

श्लोक 10.30.14

इत्य् उन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस् तास् ता ह्य् अनुचक्रुस् तद्आत्मिकाः ॥ 14 ॥

श्लोक 10.30.15

कस्याचित् पूतनायन्त्याः कृष्णायन्त्य् अपिबत् स्तनम् । तोकयित्वा रुदत्य् अन्या पदाहन् शकटायतीम् ॥ 15 ॥

श्लोक 10.30.16

दैत्यायित्वा जहारान्याम् एको कृष्णार्भभावनाम् । रिङ्गयाम् आस काप्य् अङ्घ्री कर्षन्ती घोषनिःस्वनैः ॥ 16 ॥

श्लोक 10.30.17

कृष्णरामायिते द्वे तु गोपायन्त्यश् च काश्चन । वत्सायतीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ 17 ॥

श्लोक 10.30.18

आहूय दूरगा यद्वत् कृष्णस् तम् अनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीम् अन्याः शंसन्ति साध्व् इति ॥ 18 ॥

श्लोक 10.30.19

कस्याञ्चित् स्वभुजं न्यस्य चलन्त्य् आहापरा ननु । कृष्णो ऽहं पश्यत गतिं ललिताम् इति तन्मनाः ॥ 19 ॥

श्लोक 10.30.20

मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्य् उक्त्वैकेन हस्तेन यतन्त्य् उन्निदधे ऽम्बरम् ॥ 20 ॥

श्लोक 10.30.21

आरुह्यैका पदाक्रम्य शिरस्य् आहापरां नृप । दुष्टाहे गच्छ जातो ऽहं खलानाम् ननु दण्डकृत् ॥ 21 ॥

श्लोक 10.30.22

तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्य् आश्व् अपिदध्वं वो विधास्ये क्षेमम् अञ्जसा ॥ 22 ॥

श्लोक 10.30.23

बद्धान्यया स्रजा काचित् तन्वी तत्र उलूखले । बध्नामि भाण्डभेत्तारं हैयङ्गवमुषं त्व् इति । भीता सुदृक् पिधायास्यं भेजे भीतिविडम्बनम् ॥ 23 ॥

श्लोक 10.30.24

एवं कृष्णं पृच्छमाना व्र्ण्दावनलतास् तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ 24 ॥

श्लोक 10.30.25

पदानि व्यक्तम् एतानि नन्दसूनोर् महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोजवज्राङ्कुशयवादिभिः ॥ 25 ॥

श्लोक 10.30.26

तैस् तैः पदैस् तत्पदवीम् अन्विच्छन्त्यो ऽग्रतोऽबलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ 26 ॥

श्लोक 10.30.27

कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ 27 ॥

श्लोक 10.30.28

अनयाराधितो नूनं भगवान् हरिर् ईश्वरः । यन् नो विहाय गोविन्दः प्रीतो याम् अनयद् रहः ॥ 28 ॥

श्लोक 10.30.29

धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्य्अब्जरेणवः । यान् ब्रह्मेशौ रमा देवी दधुर् मूर्ध्न्य् अघनुत्तये ॥ 29 ॥

श्लोक 10.30.30

तस्या अमूनि नः क्षोभं कुर्वन्त्य् उच्चैः पदानि यत् यैकापहृत्य गोपीनाम् रहो भुन्क्ते ऽच्युताधरम् । न लक्ष्यन्ते पदान्य् अत्र तस्या नूनं तृणाङ्कुरैः खिद्यत्सुजाताङ्घ्रितलाम् उन्निन्ये प्रेयसीं प्रियः ॥ 30 ॥

श्लोक 10.30.31

इमान्य् अधिकमग्नानि पदानि वहतो वधूम् । गोप्यः पश्यत कृष्णस्य भाराक्रान्तस्य कामिनः । अत्रावरोपिता कान्ता पुष्पहेतोर् महात्मना ॥ 31 ॥

श्लोक 10.30.32

अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ 32 ॥

श्लोक 10.30.33

केशप्रसाधनं त्व् अत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्ताम् उपविष्टम् इह ध्रुवम् ॥ 33 ॥

श्लोक 10.30.34

रेमे तया चात्मरत आत्मारामो ऽप्य् अखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ 34 ॥

श्लोक 10.30.35

इत्य् एवं दर्शयन्त्यस् ताश् चेरुर् गोप्यो विचेतसः । यां गोपीम् अनयत् कृष्णो विहायान्याः स्त्रियो वने ॥ 35 ॥

श्लोक 10.30.36

सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना माम् असौ भजते प्रियः ॥ 36 ॥

श्लोक 10.30.37

ततो गत्वा वनोद्देशं दृप्ता केशवम् अब्रवीत् । न पारये ऽहं चलितुं नय मां यत्र ते मनः ॥ 37 ॥

श्लोक 10.30.38

एवम् उक्तः प्रियाम् आह स्कन्ध आरुह्यताम् इति । ततश् चान्तर्दधे कृष्णः सा वधूर् अन्वतप्यत ॥ 38 ॥

श्लोक 10.30.39

हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास् ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ 39 ॥

श्लोक 10.30.40

अन्विच्छन्त्यो भगवतो मार्गं गोप्यो ऽविदूरितः । ददृशुः प्रियविश्लेषान् मोहितां दुःखितां सखीम् ॥ 40 ॥

श्लोक 10.30.41

तया कथितम् आकर्ण्य मानप्राप्तिं च माधवात् । अवमानं च दौरात्म्याद् विस्मयं परमं ययुः ॥ 41 ॥

श्लोक 10.30.42

ततो ऽविशन् वनं चन्द्र ज्योत्स्ना यावद् विभाव्यते । तमः प्रविष्टम् आलक्ष्य ततो निववृतुः स्त्रियः ॥ 42 ॥

श्लोक 10.30.43

तन्मनस्कास् तद्अलापास् तद्विचेष्टास् तद्आत्मिकाः । तद्गुणान् एव गायन्त्यो नात्मगाराणि सस्मरुः ॥ 43 ॥

श्लोक 10.30.44

पुनः पुलिनम् आगत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तद्आगमनकाङ्क्षिताः ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ