श्रीमद्भागवत दशम स्कन्ध अध्याय 4
श्रीमद्भागवत दशम स्कन्ध अध्याय 4 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.4.1
बहिर्अन्तःपुरद्वारः सर्वाः पूर्ववद् आवृताः । ततो बालध्वनिं श्रुत्वा गृहपालाः समुत्थिताः ॥ 1 ॥
श्लोक 10.4.2
ते तु तूर्णम् उपव्रज्य देवक्या गर्भजन्म तत् । आचख्युर् भोजराजाय यद् उद्विग्नः प्रतीक्षते ॥ 2 ॥
श्लोक 10.4.3
स तल्पात् तूर्णम् उत्थाय कालो ऽयम् इति विह्वलः । सूतीगृहम् अगात् तूर्णं प्रस्खलन् मुक्तमूर्धजः ॥ 3 ॥
श्लोक 10.4.4
तम् आह भ्रातरं देवी कृपणा करुणं सती । स्नुषेयं तव कल्याण स्त्रियं मा हन्तुम् अर्हसि ॥ 4 ॥
श्लोक 10.4.5
बहवो हिंसिता भ्रातः शिशवः पावकोपमाः । त्वया दैवनिसृष्टेन पुत्रिकैका प्रदीयताम् ॥ 5 ॥
श्लोक 10.4.6
नन्व् अहं ते ह्य् अवरजा दीना हतसुता प्रभो । दातुम् अर्हसि मन्दाया अङ्गेमां चरमां प्रजाम् ॥ 6 ॥
श्लोक 10.4.7
उपगुह्यात्मजाम् एवं रुदत्या दीनदीनवत् । याचितस् तां विनिर्भर्त्स्य हस्ताद् आचिच्छिदे खलः ॥ 7 ॥
श्लोक 10.4.8
तां गृहीत्वा चरणयोर् जातमात्रां स्वसुः सुताम् । अपोथयच् छिलापृष्ठे स्वार्थोन्मूलितसौहृदः ॥ 8 ॥
श्लोक 10.4.9
सा तद्धस्तात् समुत्पत्य सद्यो देव्य् अम्बरं गता । अदृश्यतानुजा विष्णोः सायुधाष्टमहाभुजा ॥ 9 ॥
श्लोक 10.4.10
दिव्यस्रग्अम्बरालेपरत्नाभरणभूषिता । धनुःशूलेषुचर्मासिशङ्खचक्रगदाधरा ॥ 10 ॥
श्लोक 10.4.11
सिद्धचारणगन्धर्वैर् अप्सरःकिन्नरोरगैः । उपाहृतोरुबलिभिः स्तूयमानेदम् अब्रवीत् ॥ 11 ॥
श्लोक 10.4.12
किं मया हतया मन्द जातः खलु तवान्तकृत् । यत्र क्व वा पूर्वशत्रुर् मा हिंसीः कृपणान् वृथा ॥ 12 ॥
श्लोक 10.4.13
इति प्रभाष्य तं देवी माया भगवती भुवि । बहुनामनिकेतेषु बहुनामा बभूव ह ॥ 13 ॥
श्लोक 10.4.14
तयाभिहितम् आकर्ण्य कंसः परमविस्मितः । देवकीं वसुदेवं च विमुच्य प्रश्रितो ऽब्रवीत् ॥ 14 ॥
श्लोक 10.4.15
अहो भगिन्य् अहो भाम मया वां बत पाप्मना । पुरुषाद इवापत्यं बहवो हिंसिताः सुताः ॥ 15 ॥
श्लोक 10.4.16
स त्व् अहं त्यक्तकारुण्यस् त्यक्तज्ञातिसुहृत् खलः । कान् लोकान् वै गमिष्यामि ब्रह्महेव मृतः श्वसन् ॥ 16 ॥
श्लोक 10.4.17
दैवम् अप्य् अनृतं वक्ति न मर्त्या एव केवलम् । यद्विश्रम्भाद् अहं पापः स्वसुर् निहतवाञ् छिशून् ॥ 17 ॥
श्लोक 10.4.18
मा शोचतं महाभागाव् आत्मजान् स्वकृतं भुजः । जान्तवो न सदैकत्र दैवाधीनास् तदासते ॥ 18 ॥
श्लोक 10.4.19
भुवि भौमानि भूतानि यथा यान्त्य् अपयान्ति च । नायम् आत्मा तथैतेषु विपर्येति यथैव भूः ॥ 19 ॥
श्लोक 10.4.20
यथानेवंविदो भेदो यत आत्मविपर्ययः । देहयोगवियोगौ च संसृतिर् न निवर्तते ॥ 20 ॥
श्लोक 10.4.21
तस्माद् भद्रे स्वतनयान् मया व्यापादितान् अपि । मानुशोच यतः सर्वः स्वकृतं विन्दते ऽवशः ॥ 21 ॥
श्लोक 10.4.22
यावद् धतो ऽस्मि हन्तास्मीत्य् आत्मानं मन्यते ऽस्वदृक् । तावत् तद्अभिमान्य् अज्ञो बाध्यबाधकताम् इयात् ॥ 22 ॥
श्लोक 10.4.23
क्षमध्वं मम दौरात्म्यं साधवो दीनवत्सलाः । इत्य् उक्त्वाश्रुमुखः पादौ श्यालः स्वस्रोर् अथाग्रहीत् ॥ 23 ॥
श्लोक 10.4.24
मोचयाम् आस निगडाद् विश्रब्धः कन्यकागिरा । देवकीं वसुदेवं च दर्शयन्न् आत्मसौहृदम् ॥ 24 ॥
श्लोक 10.4.25
भ्रातुः समनुतप्तस्य क्षान्तरोषा च देवकी । व्यसृजद् वसुदेवश् च प्रहस्य तम् उवाच ह ॥ 25 ॥
श्लोक 10.4.26
एवम् एतन् महाभाग यथा वदसि देहिनाम् । अज्ञानप्रभवाहंधीः स्वपरेति भिदा यतः ॥ 26 ॥
श्लोक 10.4.27
शोकहर्षभयद्वेषलोभमोहमदान्विताः । मिथो घ्नन्तं न पश्यन्ति भावैर् भावं पृथग्दृशः ॥ 27 ॥
श्लोक 10.4.28
कंस एवं प्रसन्नाभ्यां विशुद्धं प्रतिभाषितः । देवकीवसुदेवाभ्याम् अनुज्ञातो ऽविशद् गृहम् ॥ 28 ॥
श्लोक 10.4.29
तस्यां रात्र्यां व्यतीतायां कंस आहूय मन्त्रिणः । तेभ्य आचष्ट तत् सर्वं यद् उक्तं योगनिद्रया ॥ 29 ॥
श्लोक 10.4.30
आकर्ण्य भर्तुर् गदितं तम् ऊचुर् देवशत्रवः । देवान् प्रति कृतामर्षा दैतेया नातिकोविदाः ॥ 30 ॥
श्लोक 10.4.31
एवं चेत् तर्हि भोजेन्द्र पुरग्रामव्रजादिषु । अनिर्दशान् निर्दशांश् च हनिष्यामो ऽद्य वै शिशून् ॥ 31 ॥
श्लोक 10.4.32
किम् उद्यमैः करिष्यन्ति देवाः समरभीरवः । नित्यम् उद्विग्नमनसो ज्याघोषैर् धनुषस् तव ॥ 32 ॥
श्लोक 10.4.33
अस्यतस् ते शरव्रातैर् हन्यमानाः समन्ततः । जिजीविषव उत्सृज्य पलायनपरा ययुः ॥ 33 ॥
श्लोक 10.4.34
केचित् प्राञ्जलयो दीना न्यस्तशस्त्रा दिवौकसः । मुक्तकच्छशिखाः केचिद् भीताः स्म इति वादिनः ॥ 34 ॥
श्लोक 10.4.35
न त्वं विस्मृतशस्त्रास्त्रान् विरथान् भयसंवृतान् । हंस्य् अन्यासक्तविमुखान् भग्नचापान् अयुध्यतः ॥ 35 ॥
श्लोक 10.4.36
किं क्षेमशूरैर् विबुधैर् असंयुगविकत्थनैः । रहोजुषा किं हरिणा शम्भुना वा वनौकसा । किम् इन्द्रेणाल्पवीर्येण ब्रह्मणा वा तपस्यता ॥ 36 ॥
श्लोक 10.4.37
तथापि देवाः सापत्न्यान् नोपेक्ष्या इति मन्महे । ततस् तन्मूलखनने नियुङ्क्ष्वास्मान् अनुव्रतान् ॥ 37 ॥
श्लोक 10.4.38
यथामयो ऽङ्गे समुपेक्षितो नृभिर् न शक्यते रूढपदश् चिकित्सितुम् । यथेन्द्रियग्राम उपेक्षितस् तथा रिपुर् महान् बद्धबलो न चाल्यते ॥ 38 ॥
श्लोक 10.4.39
मूलं हि विष्णुर् देवानां यत्र धर्मः सनातनः । तस्य च ब्रह्मगोविप्रास् तपो यज्ञाः सदक्षिणाः ॥ 39 ॥
श्लोक 10.4.40
तस्मात् सर्वात्मना राजन् ब्राह्मणान् ब्रह्मवादिनः । तपस्विनो यज्ञशीलान् गाश् च हन्मो हविर्दुघाः ॥ 40 ॥
श्लोक 10.4.41
विप्रा गावश् च वेदाश् च तपः सत्यं दमः शमः । श्रद्धा दया तितिक्षा च क्रतवश् च हरेस् तनूः ॥ 41 ॥
श्लोक 10.4.42
स हि सर्वसुराध्यक्षो ह्य् असुरद्विड् गुहाशयः । तन्मूला देवताः सर्वाः सेश्वराः सचतुर्मुखाः । अयं वै तद्वधोपायो यद् ऋषीणां विहिंसनम् ॥ 42 ॥
श्लोक 10.4.43
एवं दुर्मन्त्रिभिः कंसः सह सम्मन्त्र्य दुर्मतिः । ब्रह्महिंसां हितं मेने कालपाशावृतो ऽसुरः ॥ 43 ॥
श्लोक 10.4.44
सन्दिश्य साधुलोकस्य कदने कदनप्रियान् । कामरूपधरान् दिक्षु दानवान् गृहम् आविशत् ॥ 44 ॥
श्लोक 10.4.45
ते वै रजःप्रकृतयस् तमसा मूढचेतसः । सतां विद्वेषम् आचेरुर् आराद् आगतमृत्यवः ॥ 45 ॥
श्लोक 10.4.46
आयुः श्रियं यशो धर्मं लोकान् आशिष एव च । हन्ति श्रेयांसि सर्वाणि पुंसो महद्अतिक्रमः ॥ 46 ॥