मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 31

श्रीमद्भागवत दशम स्कन्ध अध्याय 31 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.31.1

जयति ते ऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वद् अत्र हि । दयित दृश्यतां दिक्षु तावकास् त्वयि धृतासवस् त्वां विचिन्वते ॥ 1 ॥

श्लोक 10.31.2

शरद्उदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा । सुरतनाथ ते ऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ 2 ॥

श्लोक 10.31.3

विषजलाप्ययाद् व्यालराक्षसाद् वर्षमारुताद् वैद्युतानलात् । वृषमयात्मजाद् विश्वतो भयाद् ऋषभ ते वयं रक्षिता मुहुः ॥ 3 ॥

श्लोक 10.31.4

न खलु गोपीकानन्दनो भवान् अखिलदेहिनाम् अन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ 4 ॥

श्लोक 10.31.5

विरचिताभयं वृष्णिधूर्य ते चरणम् ईयुषां संसृतेर् भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ 5 ॥

श्लोक 10.31.6

व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत्किङ्करीः स्म नो जलरुहाननं चारु दर्शय ॥ 6 ॥

श्लोक 10.31.7

प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ 7 ॥

श्लोक 10.31.8

मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीर् इमा वीर मुह्यतीर् अधरसीधुनाप्याययस्व नः ॥ 8 ॥

श्लोक 10.31.9

तव कथामृतं तप्तजीवनं कविभिर् ईडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमद् आततं भुवि गृणन्ति ये भूरिदा जनाः ॥ 9 ॥

श्लोक 10.31.10

प्रहसितं प्रियप्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ 10 ॥

श्लोक 10.31.11

चलसि यद् व्रजाच् चारयन् पशून् नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ 11 ॥

श्लोक 10.31.12

दिनपरिक्षये नीलकुन्तलैर् वनरुहाननं बिभ्रद् आवृतम् । घनरजस्वलं दर्शयन् मुहुर् मनसि नः स्मरं वीर यच्छसि ॥ 12 ॥

श्लोक 10.31.13

प्रणतकामदं पद्मजार्चितं धरणिमण्डनं ध्येयम् आपदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्व् अर्पयाधिहन् ॥ 13 ॥

श्लोक 10.31.14

सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस् ते ऽधरामृतम् ॥ 14 ॥

श्लोक 10.31.15

अटति यद् भवान् अह्नि काननं त्रुटि युगायते त्वाम् अपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद् दृशाम् ॥ 15 ॥

श्लोक 10.31.16

पतिसुतान्वयभ्रातृबान्धवान् अतिविलङ्घ्य ते ऽन्त्य् अच्युतागताः । गतिविदस् तवोद्गीतमोहिताः कितव योषितः कस् त्यजेन् निशि ॥ 16 ॥

श्लोक 10.31.17

रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहद्उरः श्रियो वीक्ष्य धाम ते मुहुर् अतिस्पृहा मुह्यते मनः ॥ 17 ॥

श्लोक 10.31.18

व्रजवनौकसां व्यक्तिर् अङ्ग ते वृजिनहन्त्र्य् अलं विश्वमङ्गलम् । त्यज मनाक् च नस् त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन् निषूदनम् ॥ 18 ॥

श्लोक 10.31.19

यत् ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु &अम्प्; तेनाटवीम् अटसि तद् व्यथते न किं स्वित् कूर्पादिभिर् भ्रमति धीर् भवद्आयुषां नः ॥ 19 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ